________________
कालतो भावाभावात्मकता द्वादशारनयचक्रम्
७३१ मित्यादिना भाषयति यावद्रव्यादित्वेन चेति, घटो गुणत्वेन पटद्रव्यादित्वेन च साक्षान्न भवति, घटद्रव्यत्वेन भवति, पटः पटद्रव्यत्वेन साक्षाद्भवति गुणत्वेन घटद्रव्यत्वेन च साक्षान्न भवतीति भावाभावात्मकत्वमेवानयोः,
यदि त्वसौ पटत्वद्रव्यत्वाभ्यां न भवेत् न पटो भवेत् , पटत्वद्रव्यत्वाभ्यामभवनात् , घटवद्गुणवद्वा, यतस्तु पटः इतराभ्यां न भवति तत एवेतरो न भवति यतश्च पटः भवति तत एवेतराभ्यां भवति, अवश्यश्चैतदेवम् , अन्वयव्यतिरेकाभ्यामर्थस्यावधारणे प्रयोगस्य । साफल्यात्, नीलोत्पलादिवत् ,......
.........अतस्त्वन्यथा सतोऽप्यभाव एव स्यात् खपुष्पवत् ।
__ यदि त्वसावित्यादि, अनिष्टापादनसाधनमभ्युपगमे, यदि पटः पटत्वद्रव्यत्वाभ्यां न भवेत् न पटो भवेत् , पटत्वद्रव्यत्वाभ्यामभवनात् , घटवगुणवद्वा-घटो गुणो वा नैव भवेत् तत एव, तद्वत् , एवं घटगुणयोरपि साधनाभ्यामनिष्टमापाद्यम् , एतस्यार्थस्य भावना-यतस्त्वित्यादि यावत्तत एवेतराभ्यां 10 भवतीति, अवश्यश्चैतदेवम् , अन्वयव्यतिरेकाभ्यामर्थस्यावधारणे प्रयोगस्य साफल्यात् , तद्यथा नीलोत्पलादिवत् 'सिद्धे सत्यारम्भो नियमार्थः' ( ) यथा रक्तनीलत्वयोः सिद्धयोरन्यतराभावेनान्यतरभावेन चोत्पलं नियम्यते रक्तमेव नीलमेव वेति तथा घटः पट इति वेति, तदर्थभावना भाष्येऽन्यतराभावाभावेऽन्यतरतभावभावे च सतोऽप्यभावप्रसङ्गापादनद्वारेण लोकप्रसिद्ध्यनुपातेन कृता । एतस्य न्यायस्यानभ्युपगमे द्वयोरप्यभावः, तद्दर्शयति-अतस्त्वन्यथेत्यादि अनिष्टापादनसाधनं गतार्थ यावत् 15 खपुष्पवदिति, एवं द्रव्यतो भावाभावात्मकता व्याख्याता ।
कालतोऽपि चैकमेव भूतमभूतञ्च, कालाभेदात् , अतीतानागताभ्यामसंमृष्टतत्त्वा मृत् शिवकादिना वर्तमानैककाला न तथा यथा लोको वदति पलालमग्निर्दहतीति, यदि तदह्यत एव तर्हि भिन्नावस्थस्य पलालस्य पूर्ववद् भस्मीकरणानुपपत्तेः, अन्तर्देशः पलालस्य दह्यते तच्च पलालमेवेति चेत् तथापि आकाशाद्यमूर्तद्रव्यस्य देशस्यापि भस्मीकरणानुपपत्तेः, अथा- 20 काशव्यतिरेकेण पलालमेव दह्यत इति तदपि न, च्चिप्रत्ययान्तेन भस्मीकरणेनान्यो दाहो वर्ततेऽन्यच्च पलालमिति भिन्नार्थत्वबोधात्, अथाप्येकत्वं पलालस्येष्यते ततस्तस्य दाह्यता नास्ति भस्मत्वाभूतेः, तथा घटो भिद्यते इति न घटते कालभेदात् यदि तद्भिद्यत एव तर्हि भिन्नावस्थस्य घटस्य भिदानुपपत्तिः पूर्ववत् । निबध्नाति-यदि त्वसाविति । तदेव निरूपयति-अनिष्टापादनेति, अन्तरितेन पटत्वेनानन्तरितेन द्रव्यत्वेन सामान्य- 25 विशेषेण यदि पटो न भवति तर्हि स पटवरूपमेव न स्यात् घटवत् गुणवद्वा, घटो हि पटत्वतव्यत्वाभ्यां न भवतीति पटस्वरूपमपि न भवति तद्वदिति भावः। एवं घटो यदि घटत्वद्रव्यत्वाभ्यां न भवेत् तर्हि घट एव न भवेत् गुणोऽपि यदि गुणत्वसत्त्वाभ्यां न भवेत् गुणो नैव भवेत् पटादिवदिति भाव्यमित्याह-घटो गुणो वेति । पटभवनं हि द्विविध पटत्वरूपेण द्रव्यत्वरूपेण च तत्र यधुभय रूपेणापि पटस्य भवनं न स्यात् तर्हि तस्य भवनमेव न स्यात्, विशेषाभावकूटस्य सामान्याभावगमकत्वात् , यतस्तु पटो भवति तत एव पटत्वद्रव्यत्वाभ्यां भवतीत्याह-यतस्त्विति । अन्यतरस्य रक्तत्वादेरभावे यदि नीलत्वस्याप्यभावः, अन्यतरस्य नीलत्वस्य वा मावे रक्तत्वादेरपि यदिभावस्तदोभवथापि नैवोत्पलं 30 स्यादित्यतत्त्वमेव तस्यति दर्शयति-अन्यतराभावेति । अथ कालतो भावाभावात्मकता दर्शयति-कालतोऽपि चेति । अस्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org