________________
७३०
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
www
तेषां परस्परावबद्धत्वे सत्यप्यनवस्था नास्ति तथा भावाभावयोरिति योऽसौ भवति घटः स पटो न भवति योऽसौ पटो' भवति स घटो न भवति, घटो भवन्नेव पटो न भवति, पटो भवन्नेव घटो न भवति तथा भवति न भवति चेत्यपि ज्ञेयं परस्परावबद्धव्यवस्थितोपका रिस्वरूपत्वान्नानवस्थेति ।
यदि तु नैवं तर्हि पटस्याभावे भाव एव त्वदिष्टविद्या त्यापद्यते, अभावतुल्यत्वात्, 5 पटवत्, यदि च घटस्य भावः पटस्यापि भावः, भावतुल्यत्वात्, एवमन्तरितद्रव्यत्वसत्त्वादिगुणत्वादिसामान्य विशेषाभ्यां भावाभावात्मकता, ननु तस्य साक्षादेव भवनमभवनमुभयतः, तथा तद्विपर्ययेण, नन्वत एवैवं घटो गुणत्वेन पटद्रव्यादित्वेन च साक्षान्न भवति घटद्रव्यत्वेन भवति, पटः पटद्रव्यत्वेन साक्षाद्भवति, न भवति गुणत्वेन घटद्रव्यादित्वेन च ।
यदि त्वित्यादि, परस्परावबद्धभावाभावत्वाभावे द्वयोरप्येकान्तपक्षयोर्दोषाभिधानम् - पटस्याभावे 10 घटभावाभावस्त्व दिष्टविद्यात्यापद्यते कोऽसौ ? भाव एव, कस्मात् ? अभाव तुल्यत्वात्, पटवदित्यभावैकान्ते दोष:, वैकान्तक्षेप यदि चेत्यादि, घटपटादिसङ्कीर्णतादोषः एवमन्तरितद्रव्यत्वसत्त्वादिगुणत्वादिसामान्यविशेषाभ्यां भावाभावात्मकता, नान्तरिताभ्यामेव, किं तर्हि ? ने ननु तस्य साक्षादेव भवनमभवनमुभयतः - सामान्यतो द्रव्यत्वेन स्वेन[ भवनात् ] विशेषतोऽन्यद्रव्यत्वेन पटगतेन गुणत्वेन च घटस्याभवनात्, तथा तद्विपर्ययेण पटस्य, पटघटयोश्च द्रव्यत्वयोर्भेदात्तद्भेदवत्, तद्व्यतिरिक्तद्रव्यत्वस्याभावात्, नन्वत एवैव
www.wwwwwww
15 रूपे व्यवस्थित एव तत्तद्रूपेण भवति, अभावोऽपि स्वरूपमजहन्नेव सामान्यरूपो भवतीति दर्शयति - तथेति यथा च स्वस्वरूपेण परखरूपेण च सामान्यविशेषयोः व्यवस्थितत्वादेव परस्परापेक्षत्वे सत्यपि नास्त्यव्यवस्था तथा भावाभावयोरपीत्यर्थः । तदेव निदर्शयति-योऽसाविति, यदि भवनमेव स्वस्वरूपं विहायाभवनरूपं भवेत् तर्हि घटस्य पटाभवनवत् घटाभवनमपि स्यान्न चैवम् किन्तु योऽसौ घटो भवति स पटो न भवति योऽसौ पटो भवति स घटो न भवति, स्वकीयेन साक्षाद्धर्मेण घटत्वेन भवन् घटः परकीयेण साक्षाद्धर्मेण पटत्वादिना न भवतीति भावाभावात्मकत्वेऽपि घटस्य भावविशेषस्य साक्षात् स्वपरद्रव्यादितो 20 व्यवस्थितत्वेन परस्परोपकारित्वाच नाव्यवस्था तथा भावसामान्यमपि भवति न भवति चेति भावः । भवनैकस्वरूपत्वेऽभवनैक स्वरूपत्वे च दोषाभिधित्सयाऽऽह - यदि त्विति । व्याचष्टे - परस्परेति, भवनमभवनाविनाभावि, अभवनमपि भवनाविना - भावीति परस्परावबद्धत्वानभ्युपगमे भवनैकस्वरूपत्वेऽभवनैकस्वरूपत्वे च दोषः प्रसज्यत इति भावः । यदि वस्तुनोऽभावैकस्वरूपत्वं तर्हि घटादिभावस्य पटाद्यभावस्वरूपत्ववत् घटाभावस्वरूपत्वमपि स्यात्, अभावत्वाविशेषात् यथा भावविशेषः पटो घटाभावस्वरूपः, एवं भावोऽप्यभावः स्यादित्यभावैकान्तपक्षे सर्वशून्यतापत्तिमाह - पटस्याभाव इति, घटः पटो न भवतीत्यभवनैकान्तस्वरूपत्वे त्वदिष्टं घटस्य घटभावत्वं विहन्यते, अभावैकस्वरूपत्वे घटाभावपटाभावयोरविशेषादन्यतरस्वीकारान्यतरपरिग्रहानौचित्यादिति भावः । यदि च घटो भवतीति घटभवनैकान्तखरूपत्वं घटपटादेर्भावत्वाविशेषात् घटस्य घटत्ववत् पटत्वाद्यप्यापद्येत तथा च सर्वसङ्करदोष इत्याह-यदि चेति । एवं घटादेर्द्रव्यत्वगुणत्वादिव्याप्य घटत्व पटत्वाद्यवच्छेदेन भावाभावात्मकत्वमुपदर्शितं तथैवान्यव्याप्यधर्मावच्छेदेनापि भाव्यमित्याह - एवमन्तरितेति, द्रव्यत्वसत्त्वगुणत्वादेरन्तरिताभ्यां - व्याप्यभूताभ्यां सामग्र्यविशेषाभ्यामित्यर्थः । द्रव्यत्वाद्यवान्तरधर्मावच्छेदेनैव भावाभावात्मकत्वमिति न नियमोऽपि तु द्रव्यत्वादिनापि घटादेर्भावाभावात्मकता 30 भवत्येवेत्याह-नान्तरिताभ्यामेवेति । तदेवादर्शयति - सामान्यत इति, घटः स्वनिष्ठेन द्रव्यत्वसामान्येन भवति पटादि -
,
25
गतेन तद्द्रव्यत्वविशेषेण गुणत्वेन च न भवति, पटश्च घटनिष्ठद्रव्यत्वसामान्येन गुणत्वेन च न भवति पटगतेन द्रव्यत्वेन तु भवति तत्तद्द्रव्यत्वापेक्षया व्यतिरिक्तस्य द्रव्यत्वसामान्यस्याभावेन स्वपरद्रव्यत्वाभ्यां भावाभावौ द्रष्टव्यौ, तथा च घटस्य येन धर्मेण भवनं येन चाभवनं तद्विपर्ययेण पटस्य भवनमभवनश्चेति भावः । एतदेव स्पष्टयति- नन्वत एवेवैवमिति । विपक्षे बाधकमुप
१ सि. क्ष. यदसौ पढो न भवति तद्वटो न० । २ सि. क्ष. तनु तस्य । छा. "ता भवमु' ।
Jain Education International 2010_04
For Private & Personal Use Only
३
डे. 'वा भवनमुभवनमुभयतः
www.jainelibrary.org