________________
७२९
उभयात्मक त्वेदोषभञ्जनम्] द्वादशारनयचक्रम् आह-न द्रव्यमित्यभवनात्, अत्रापि द्रव्याभावानुविद्धस्त्वदभिमतो गुणभाव इति, अत्रोच्यते यदि न भवत्येवेत्यादि, चटकमर्कटिकया द्रव्यगुंणयोर्भावाभावत्वमापाद्य कटादेव्यविशेषस्यापादयति गतप्रत्यागतन्यायेन ततो घटस्यापि यावद्धट इति भवतीति, एवमेकान्तभावाभाववादिनो[:] परस्परकृतचोद्यद्वयपरिहारः एवमेव भावाभाववादिनं प्रत्यपि तद्विपर्ययेण तद्भावनया एकान्तवादिनां विध्यादिनयानां मतेषु परिहारः कार्यः, अथ वा तच्चोद्यस्यात्रावकाश एव नास्ति तेनाप्युभयोभयनयेन सर्वैकान्तवादिना सुनिवर्तितत्वात् । सकलविकलादेशाभ्यां भावाभावत्वसिद्धेरिति ।
नन्वेवं विकलादेशपक्षे भावाभावयोः परस्परपेक्षतयाऽव्यवस्थितत्वं परस्परावबद्धनौद्वयवदित्यत्रोच्यते तन्न व्यवस्थितोपकारिस्वरूपत्वात् धृत्यादिवृत्तजगदवस्थावत् , यथा नित्यत्वे पृथिव्यादीनां व्यवस्थितत्वं परस्परोपकारित्वञ्च धृतिसङ्ग्रहपक्तिव्यूहावकाशदानक्रियाभिः सिद्धमेव, अनित्यत्वेऽप्यर्थभवनाविच्छेदात् स्वत्वपरत्वाभ्यां परस्परावबद्धव्यवस्थितोपकारिखरूप-10 त्वान्नानवस्था तथा भावाभावयोरिति
नन्वेवमित्यादि, इदमण्यन्यच्चोद्यं विकलादेशपक्षे उभयोभयवादिनं प्रत्यनिष्टापादनसाधनं गतार्थ यावत् परस्परावबद्धनौद्वयवदिति पूर्वपक्षः, अत्रोच्यते तन्न व्यवस्थितोपकारिस्वरूपत्वात् धृत्यादिवृत्तजगदवस्थावदिति साधनेना[न]वस्थादोषपरिहारः, नित्यत्वे पृथिव्यादीनां व्यवस्थितत्वं परस्परोपकारित्वश्च धृतिसङ्ग्रहपक्तिव्यूहावकाशदानक्रियाभिः सिद्धं ततोऽनवस्था नैवास्तीत्यत्र का चिन्ता ? किं त्वनित्यत्वेऽप्यर्थ- 15 भवनाविच्छेदात्-सततभवनस्याविच्छेदात् भावो', व्यवस्थितोपकारित्वस्य, धृत्या भूमिरितरेषामात्मनश्चोपकुरुते, जलं सङ्ग्रहेण, अग्निः पक्त्या, वायुयूंहेन, सर्वेषामवकाशदानादाकाशमित्यवस्थितोपकारिस्वरूपत्वं सिद्धमनवस्थानाभावश्च, अक्षरार्थो भाष्ये गमितः, स्वत्व[प]रत्वाभ्यामिति स्वरूपसिद्धौ पटरूपसिद्धौ च ..
namam
नद्रव्यमितीति त्वदभिमतो गुणभावो द्रव्याभाव एवेत्यर्थः । गुणादिभावं द्रव्याद्यभवनशब्देन वदता भवता भावविशेषसहित एवाभावविशेष उक्तः, द्रव्याभावानुविद्धो गुणभावः, गुणाभावानुविद्धश्च कटभावः, कटाभावानुविद्धश्च घटभाव इत्याशयेन 20 समाधत्ते-यदि न भवत्येवेति । ननूभयोभयनये सामान्यस्य विशेषत्वाद्विशेषस्यापि सामान्यत्वात् परस्परापेक्षसिद्धिकत्वेन भावाभावयोः परस्परखरूपरक्षणाय परस्परावबद्धनौद्वयवत् अकिञ्चित्करत्वेनाव्यवस्थितत्वमित्याशय समाधत्ते-नन्वेवमिति. विकलादेशपक्ष इति पर्यायार्थादेशात् भेदप्रधानपक्षे तदुपचारपक्षे वा भेदानां व्यवस्थितस्वरूपताया आवश्यकत्वेन तत्रानिष्टापादन मुख्यमित्याशयो भाति । सामान्य हि खवरूपं विहाय न विशेषो भवति, विशेषो वा तथा, येनाव्यवस्थितत्वमनयोः स्यात् किन्तु स्वस्खस्वरूपे विद्यमानस्यैव तथेति नाव्यवस्थितखरूपत्वमित्याशयेनोत्तरयति-तन्नेति, उभयस्यो-25 भयात्मकत्वेऽप्यनुगतिव्यावृत्त्योः खखरूपेण व्यवस्थिततयाऽबाध्यमानप्रमाणविषयत्वान्नाव्यवस्था, पूर्वोत्तराकारपरित्यागोपादानतयैकस्य वस्तुनोऽनुभूयमानत्वादनुवृत्तिखरूपतया व्यवस्थितो भावोऽनुवृत्तिबुद्धिलक्षणोपकारं व्यावृत्तिस्वरूपतयाऽवस्थितश्चाभावो व्यावृत्त्यादिबुद्धिलक्षणोपकारश्च करोतीति भावः । तत्र निदर्शनमाह-धृत्यादीति नित्यानित्यात्मकस्य पृथिव्यादेः नित्यत्वे भेदव्यवस्थां दर्शयति-नित्यत्व इति नित्यत्वस्वरूपापरित्यागेनैव तत्कार्यकर्तत्वरूपेण नित्यतयाभवनान्नानवस्थेति भावः। अनित्यत्वेऽपि सामान्यस्वरूपतया भवनमाह-अनित्यत्वेऽपीति, भवनलक्षणं सामान्यमस्त्येवेति भावः । एवं भावोऽपि स्वख-30
सि.क्ष. डे. छा. द्रव्यगुणो ०। २ सि.क्ष. छा. तरभावनया। ३ सि.क्ष. छा. वृत्यादि०। ४ सि.क्ष. . छा. भावे।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org