________________
न्यायागमानुसारिणीव्याख्यासमेतम् 1 [विधिनियमोभयारे अभाव एवोक्तो भवति पटो न भवतीति तर्हि भवतीत्युक्तेऽपि न भवति–नार्थ इत्येवोक्तं भवतीति प्राप्तम् , साधनमप्यत्र परितो भवनाभावात् , खपुष्पवदिति, स्यान्मतं ननु परितः पटादावभवन्नेव कटः सिद्ध्यति, तस्मादनैकान्तिक इति चेन्न विपक्षाभावात् , ननु परितो वचनेनेत्यादि-परितो वचनं सर्वत्रार्थम् , तेन स्वात्मन्यप्यभवनमुक्तं भवति, तस्मान्नानैकान्तिकता, तथेत्यादिरस्य न्यायस्य व्याप्तिप्रदर्शनार्थो दण्डको 5 यावदसत्त्वात् ] पक्षधर्मोऽनर्थत्वैकान्त इति, प्राग्व्याख्यातोऽर्थः, कण्ठः कपाले नास्तीत्यादि तस्य निदर्शनम् , पटः कटादिर्न भवति नापि रूपादिरिति, अनिष्टश्चैतत् ।
अत्र भावाभाववाद्युत्तरमाह
ननु परितोऽप्यभवनमेव त्वदुक्तं साधयत्यस्मदिष्टं भावमपि कटोऽपि कट इति भवन्नेव घटपटौ न भवतीति, भवन् गुण इत्यभवनात्, ननु गुणोऽपि भवन्नेव कट इति न भवति 10 विशेषेण, न, द्रव्यमित्यभवनात् , अत्रोच्यते यदि न भवत्येव.. ..........ततो घटस्यापि
.................घट इति भवतीति
(नन्विति) ननु परितोऽप्यभवनमेव त्वदुक्तं साधयत्यस्मदिष्टं भावमपि, तद्यथा कटोऽपि कट इति भवन्नेव घटपटौ न भवति घटत्वपटत्वाद्यभावः कटस्य कटात्मभवनाविनाभावीति भावभवनमात्र
मुच्यते, इतर आह-भवन् गुण इत्यभवनात् , अत्रापि गुणाभावानुविद्ध एव कटभावो गुणत्वेनाभवनात् , 15 ननु गुणोऽपीत्यादि, गुण इति विधिना भवन्नेव कट इति न भवति विशेषेण नियमेन व्यावृत्त्येति, इतर मेवेति नास्ति भवनं किञ्चिदित्याशयः स्यादिति भाति । भवतीत्युक्तेऽपीति भवतीत्युक्तौ यथा न भवतीत्युक्तं भवति तथैव
त्यस्य न भवतीत्यर्थत्वे पुनरपि तथेति न कश्चिदर्थः कदापि सेत्स्यतीति नार्थः कश्चिदस्ति परितो भवनाभावात् खपुष्पवदिति भावः । यद्वाऽभाववादिना घटो भवतीत्यनेन पटो न भवतीत्युक्तं भवत्यतोऽभवनमेव सर्वमित्युक्ती भाववादी आहपटो न भवतीति भवता किं पटभवनप्रतिषेधः क्रियते ? तथा सति पटो भवतीत्यभ्युपेतम् , यदि तत्रापि भवतीत्यस्य न भवतीत्यर्थ 20 उच्यते तर्हि तत्रापि तथैव पर्यनुयोगान्न कश्चिदर्थः सिद्ध्यतीति परितः सर्वप्रकारेण भवनस्यैवाभावात् प्रतियोग्यप्रसिद्ध्याऽभवनमपि
कथं स्यादिति भावः । ननु पटादौ कटोऽभवन्नपि भवतीति परितो भवनाभावो व्यभिचरतीत्यभाववादी शङ्कते-स्यान्मतमिति। साध्याभाववत्त्वाभिमतः कटादिरपि नास्त्येव, सर्वत्र भवनं नास्तीति विवक्षिततया न कोऽपि विपक्षो येनानैकान्तिकता भवेदित्याहविपक्षाभावादिति । यथा पटादौ सर्वप्रकारेण कटो न भवति तथा खस्मिन्नपि न भवति तस्मात् न कटः सिद्ध्यतीति दर्शयितुं
परित इति शब्दस्यार्थमाह-परितोवचनमिति। अत्र तथेत्यादिमूलं सम्यडोपलभ्यते, तथा द्रव्यक्षेत्रका 25 परस्परतो भेदं प्रतिवृत्तत्वादसत्त्वात् पक्षधर्मताहेतोरिति मूलाशयः स्यादिति प्रतिभाति । परितो भवनाभावादिति त्वदीयेन
हेतुना खतो भवनं सिद्ध्यति, स्वतोऽप्यभवने ह्येवमेव वक्तव्यं भवनाभावादिति, न तु परितो भवनाभावादिति, विशेषणवैयर्थ्यात्, परितो भवन नास्तीति शब्दः भवनविधायकः, कटः घटपटौ न भवतीत्युक्तौ कटस्याप्यभवनरूपत्वे व घटत्वपटत्वाद्यभावः एतेन वाक्येन प्रतिपादितः स्यात् ? आश्रयस्यैवाभावात् , तस्मात् कटः स्वस्वरूपेण भवन्नेव घटत्वपटत्वाद्यभावात्माऽपीत्यभ्युपेयत्वात् कटात्मभवनाविनाभावी घटत्वपटत्वाद्यभावः, एवञ्च कटः घटपटौ न भवतीति वचनं घटत्वपटत्वाद्यभावाविनाभावि30 भवनमुच्यत इत्याशयेन भावाभाववादी समाधत्त-नन्विति । साधनप्रकारमाह-तद्यथेति. परितो भवनाभावो भवनव्याप्यः,
कटे परितो भवनाभावस्य सत्त्वे च स्वतो भवनमप्यस्येवेति भावः । सर्व भवनमभावानुविद्धमेवेत्यभवनरूपमेव, भवन् गुण इत्यभवनात्, अत्र धर्मितयाऽभिमतं कटादिभवनमपि गुणाभावेनानुविद्धमेव, नहि कटो भवन् गुण इति भवतीति वक्तुं शक्यते, तस्मादन्याभावानुविद्धमेव कटभवनं गुण इति न भवति तस्मान्नैकान्तविधिरूपं भवनमस्तीत्याशङ्कते-इतर आहेति । गुणो न
भवतीत्यत्र गुणोऽपि कटाभावरूप एवेत्यभावैकान्तवाद्यभिप्रायः । भावविशेषरहिताभावविशेषस्यासिद्ध्या गुणोऽपि स्वतो भव30न्नेव परितो न भवतीति समाधत्ते-नन र णोऽपीति । ननु गुणस्य स्वतो भवनं द्रव्याभवनमेवेति न भवन सेत्स्यतीति शङ्कते
१ सि.क्ष. छा. न तर्हि। २ सि.क्ष. छा. स्वात्मनोऽप्य० । ३ सि.क्ष. छा. प्राप्ति । ४ सि.क, तस्या।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org