________________
७२७
अभावकान्तपक्षः]
द्वादशारनयचक्रम् अत्रोत्तरं-ननु द्रव्यमपि गुण इति न भवतीत्यभावाविनाभाविभवनवचनं, न, सदिति भवनादिति, सत्त्वभवनव्यात्या भावस्यैव विशेष इति पूर्ववत् , अभाववाद्याह-यदि सदित्यादि, अनिष्टापादनमुखेनासद्वादसमर्थनमिदम् , यदि सदित्येव भवति सत्त्वाविशेषाद्रव्यगुणकर्मणामव्यतिरेकात् पर्यायमात्रत्वे केन विशेषहेतुना सदेव सर्वमिति भवति, न द्रव्यमेव इति, दृष्टश्चेदं द्रव्यमेव न भवति, गुणकर्मणोरपि सद्भावात् , गुणकर्माभावाद्रव्यं सदिति भवति, गुणकर्मणी च नदभावात् सती भवतः, न च द्रव्यादिव्यतिरेकेण 5 सन्नाम किञ्चिदस्तीत्युक्तत्वात् दृष्टविरुद्धमुच्यते त्वयेत्यत्र वयं ब्रूमः-यतस्त्वित्यादि, चटकमर्कदिकयाऽभावाविनाभाविभावप्रतिपादनं यथा तन्तुषु पट इति गतार्थम् , एवं तावद्भावैकान्तपक्षव्यावर्त्तनद्वारेणाभावसहितो भाव उक्तः।
अतः परमभावैकान्तपक्षव्यावर्त्तनद्वारेणाभावसहित एवं भाव इत्यतत्प्रतिपादयिष्यते--
यद्येवं घटो भवतीत्युक्तेऽप्यभाव एवोक्तो भवति पटो न भवतीति तर्हि भवतीत्युक्तेऽपि 10 न भवतीत्येवोक्तं भवति, परितो भवनाभावात् , खपुष्पवत् , ननु परितो वचनेन स्वात्मन्यप्यभवनमुक्तं भवति तथा.................................असत्त्वात् पक्षधर्मोऽनर्थत्वैकान्ते कण्ठः कपाले नास्ति............पटः कटादिन भवति नापि रूपादिरिति ।
यद्येवमित्यादि, अभावैकान्तवादिनं भावैकान्तवादी उपालभते-यदि घटो भवतीत्युक्तेऽपि
भावित्वात् पृथिवीभवनमप्युदकाम्याद्यभवनमेवेति समाधत्ते-ननु द्रव्यमपीति । परः शङ्कते-न सदितीति द्रव्यादिसमुदा- 15 यस्यैव सत्त्वात् द्रव्यादिभावात्मैव सत्, इतरथाऽभावविशेषत्वान्निर्मूलत्वादसत्त्वापत्तिरिति भावः। द्रव्यगुणकर्मणां सदिति भवनातू सत्त्वभवनाविनाभाव्येव द्रव्यभवनमित्याह-सत्त्वभवनेति । अथाचार्यः वैशेषिकमतमिदमभाववादिना निराकारयति-अभाववाद्याहेति-यदि द्रव्यादिभवनं गुणाद्यभवनरूपं न स्यात् तदा द्रव्यगुणकर्मणां भेदो न स्यात् , स्याच तेषां सतां पर्यायता, त्रयाणामविशेषेण सदिति भवनात. तथा च सति यथा द्रव्यगुणकर्माणि सन्तीति प्रतीयन्ते तथा तानि द्रव्याणि गुणाः कर्माणीति वा प्रतीयेरनिति भावः । सर्व द्रव्यमेवेति न शक्यते वक्तुं गुणकर्मणोरपि सद्भावादित्याह-दृष्टश्चेदमिति, एवञ्च गुणकर्मभिन्नस्यैव 20 द्रव्यस्य सत्त्वात् द्रव्यकर्मभिन्नस्यैव गुणस्य सत्त्वाद्रव्यगुणभिन्नस्यैव कर्मणः सत्त्वाच्च न द्रव्यमेव सर्वमिति युज्यते, एवञ्च द्रव्यादि. भवनादेर्गुणाद्यभवनरूपतानङ्गीकारे कस्माद्विशेषात् द्रव्यमेव सर्वमिति न भवति सदेव सर्वमिति भवतीति भावः। तदेवमितरव्यतिरिक्तापरस्यैव सद्रूपत्वात् न द्रव्यादिव्यतिरिक्तं सदिति किमपि वस्त्वस्तीति सत्त्वभवनाविनाभाविद्रव्यभवनमिति यदुच्यते तद् दृष्टविरूद्धमित्याह-न चेति।चटकेति त्वदुत्तरेणानेनापि गुणकर्माभावाद्रव्यं सदिति भवति गुणकर्मणी च तदभावात् सती भवत इत्यादिना गुणाद्यभवनसहितमेव द्रव्यभवनं द्रव्याभवनसहितमेव च गुणादिभवनमुक्तं भवतीत्यतोऽभावसहित एव भाव इत्येव- 25 मत्राशयः स्यादिति प्रतिभाति, मूलं तु नोपलब्धम् । अथ भवनं कस्यापि नास्त्येव किन्तु तद्भवनतयाऽभिमतं यत्तदितराभवनमेव इत्यभावैकान्तवादिमतनिरसनायाह-यद्येवमिति । व्याचष्टे-अभावैकान्तवादिनमिति, नास्ति भावो नामोपलब्धिलक्षणप्राप्तः कश्चित् , घटो भवति पटो भवतीत्याधुक्तयश्च भ्रमनिमित्तसमारोपिताकारान्तरनिषेधायैव प्रवर्तन्ते, पटो न भवति घटो न. भवतीति, यथा शुक्तौ रजताकारनिवारणाय नेदं रजतमिति प्रवृत्तिः, तथा भवनमप्यभवनमेव, भवतीत्युक्तेऽपि न भवतीत्येवोक्तत्वात् , नहि भवनं वस्तु वस्तुधर्मो वा घटो भवति पटो भवतीत्येवं वस्तुधर्मतयैव प्रतीतेर्वस्तुत्वासम्भवात् , वस्तुधर्मत्वमपि न सम्भवति 30 परितो भवनाभावात् , परितो भवने हि भवनमेवैकं भवेन्न वस्त्विति तदभावे तदप्यसत्, एकदेशेन भवने देशस्यैव भवनात् वस्तु अभवनात्मकमेव, तथा देशोऽपि न सर्वात्मना भवति, तदभावतस्तदभावात् , एकदेशेन चेत्तथैव यावत् परमाणुशो रूपादिशोऽभवन
१ छा. इदं पदद्वयं नास्ति । २ सि.क्ष. एवाभाव।
द्वा० न० १५ (९२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org