________________
७२६
__ न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे देशकालरूपादिविशेषवदात्मन्येव भावविशेषदर्शनात् , अत आह-तद्विशेष एव विशेषो नाभावः, कोऽसौ पृथिव्यादिविशेष इति चेदुच्यते पृथिवीसामान्ये सत्येवो विस्तृतत्वादिविशेषो नाभावः तथा घटोऽपि मृदेकभवनात्मकाकारविशेषो भाव एव, न पटाद्यभाव इति ।
अत्राचार्य आह त्वदभिमतं नैकभवनात्मकत्वं पृथिवीभूतेरपि कुतो घटघटस्वात्मनः ? कस्मात् ? 5 तस्या अपि पृथिवीभूतेः-भूमिभवनस्य भावाभावात्मकत्वात् , तन्निदर्शयति--
ननु पृथिवीभवनमुदकाग्याद्यभवनम् , एतदेवास्य मूलम् , तन्मूलत्वात् किमित्यस्यासत्त्वापत्तिः ।
नन्वित्यादि, पृथिवीभवनमुदकाम्याद्यभवन् , एतदेवास्य मूलं-अभावविशेषभवनम् , तन्मूलत्वात् .. किमित्यस्यासत्त्वापत्तिः ? एवमभावविशेषरहितभावविशेषसिद्धौ मां प्रति न किञ्चिन्निदर्शनमस्तीत्यभिप्रायः । 10 पर आह
न, उक्तोपन्यासवद्रव्यमिति भवनात् पृथिव्यादिद्रव्यभवनाविनाभावेनैव भवति, ननु द्रव्यमपि गुण इति न भवति, न, सदिति भवनात् , सत्त्वभवनव्याप्त्याभावस्यैव विशेष इति पूर्ववत् , यदि सदित्येव भवति तर्हि सत्त्वाविशेषात् द्रव्यगुणकर्मणामव्यतिरेकात् केन विशेषहेतुना सदेव सर्वमिति भवति ? न द्रव्यमेव, गुणकर्मणोरपि सद्भावात् , गुणकमाभावा15 द्रव्यं सदिति भवति, गुणकर्मणी च तदभावात् , यतस्तु पटः............।
_ (नेति) न, उक्तोपन्यासवत् द्रव्यमिति भवनात् पृथिवी द्रव्यभवनाविनाभावेनैव भवति, पृथिव्युदकादि, पृथिव्युदकादिषु वा द्रव्यम् , इतरथा निर्मूलत्वादित्यादिः स एव ग्रन्थो यथायोगं वाच्यः ।
Mamwww
सम्भवः, विशेषस्य भावरूपस्य सामान्यस्वरूपत्वात् , न हि तत्ततो भिन्नम् , घटस्वात्मैव हि भावविशेषः, कण्ठपृष्ठादेर्देशस्य वर्तनादिकालविशेषस्य रूपादिभावानाञ्च घटखरूपाणामेव विशेषत्वाद्धावविशेष एव विशेषो भवति न त्वभावः, पृथिव्यादेरू विस्तृ20 तत्वादिविशेषाणामेव भावविशेषत्वमिति भावः । घटोऽपि च नैकान्तेन सामान्यरूपोऽपि तु विशेषोऽपीयाह-तथा घटोऽपीति
कम्बुग्रीवादिरूपाद्यपेक्षया सामान्यमपि घटो मृदो भावविशेषः मृत्सम्बन्धिभवनात्मकत्वात् , न तु पटाद्यभाव एव विशेष इति भावः । त्वदभिमतं यद्भवनमेकान्तरूपं तत् यतः पृथिवीभवनमेव न भवति, कथं तर्हि घटघटखात्मनोरेकभवनात्मकत्वं, पृथिवीभवनं ख़ुदकवयाद्यभवनरूपमिति न हुंदकाच्याद्यभवनमन्तरेणेदं पृथिवीभवनमेवेति पार्यते वक्तुम् , तस्मात् पृथिवीभवने
उदकाम्याद्यभवनं मूलं, यच्च मूलं तदेव विशेषभवनमतो भाव एव विशेष इति कथं वक्तुं युक्तमित्याशयेन आचार्योक्तं वैशेषिकमत25 दूषणं दर्शयति-त्वदभिमतमिति । आचार्योक्तिं प्रकटयति-नन्विति । अग्न्याद्यभवनस्यैव मूलत्वाभ्युपगमेनाभावस्य विशेषत्वे निमूलत्वाद्धटादिरूपादीनामसत्त्वमापद्यत इति यदुच्यते त्वया तन्न युक्तम् , अभावविशेषरहितभावस्य विशेषत्वाप्रसिद्धेः तथाविधीभयवादिप्रसिद्धदृष्टान्ताभावादिति भावमादर्शयति-पतदेवेति । ननु विशेषस्य सामान्यभवनाविनाभावित्वमेव, एकभवनात्मकत्वात् विशेषाणां समुदायः तदात्मा तदाधारो वा द्रव्यं भवति, यदि विशेषोऽभावः स्यात् तर्हि कथं द्रव्यं भावः, न ह्यभावसमुदायो:
भावात्मा अभावाधरो वा द्रव्यं भवति, तस्मान्निर्मूलत्वान्नाभावो विशेष इति शङ्कते-नोक्तेति । एतदेव निरूपयति-नोक्तोपन्या30 सवदिति । विशेषस्याभावरूपत्वे दोषमाह-इतरथेति, अभावविशेषत्वे द्रव्यस्य निर्मूलत्व त् रूपादीनाञ्चासत्त्वमापद्यत इति भावः ।
ननु द्रव्यमपि गुणो न भवतीत्यभवनरूपम् , अन्यथा गुण इति कुतो न भवेत् , द्रव्यभवनवत् तस्माद्रव्यभवनस्य गुणाद्यभवनाविना.
१ सि. क्ष. किंचिदर्शनमस्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org