________________
भावात्मैव विशेष इति पक्षः] द्वादशारनयचक्रम्
७२५ त्तात्मत्वे सत्यपि रूपादयो भवन्तीति स्थितिः, तथा स्थितिः, एवं स्थितौ तथा घटोऽपि भवति, न न भवति रूपरसयोर्यटभावात् तयोरितरेतराभूतयोरेव घटत्वात् तयोराधारभूतयोर्वा घटत्वात् , तदुपनयति-असामस्त्येन वा भावाभावात्मक एव घट इति ।
ननु घटरूपादिवत् पृथिव्यपि मृदादिर्विशेषः, यथा स्वाधारेषु घटो भवति रूपादय एव वा, न निर्मूलः तथा पृथिव्यपि मृदादिषु तदात्मिका वा तस्या एव ते विशेषाः, नाभावः, 5 इतरथा निर्मूलत्वाद्धटस्य रूपादीनाञ्चासत्त्वं खपुष्पवत्, न चैतदिष्टम् , तथा च रूपादयो मृदादयश्च भावविशेषा एव, एकभवनात्मकत्वात् , घटघटस्वात्मवत् , न चैवमविशेषः, तद्विशेष एव विशेषः पृथिवीसामान्ये सत्येवो विस्तृतत्वादिः घटोऽपि मृदेकभवनात्मकाकारविशेषो भाव एव, न पटाद्यभाव इति ।
ननु घटेत्यादि, वैशेषिको विशेष भावात्मकमेव वाञ्छन् व्यावृत्त्यात्मकं विशेषं निराकुर्वन्नाह-यथे- 10 त्यादि, स्वाधारेषु घटो भवति, रूपादय एव वा, सिद्धान्तान्तरदर्शनेन, घटो न निर्मूलः तथा पृथिव्यपि मृदादिषु-मृदश्मसिकतालोष्टवनवृक्षगुल्मलताद्वैततिवीरुधादिषु तदात्मिका[वा],तस्या एव ते विशेषाः रूपादय इव घटस्य, नाभावो विशेषः, इतरथा निर्मूलत्वादभावविशेषत्वे घटस्य रूपादीनाञ्चासत्त्वमापन्नम् , खपुष्पवत् , न च तदिष्टम् , एवं न्यायात् रूपादयो मृदादयश्च घटस्य पृथिव्याश्च विशेषो भाव इत्युक्तम् , तथा चेत्यादि भावविशेषत्वभावनाग्रन्थो यावद् विस्तृतत्वादिः, एकभवनात्मकत्वादिति हेतुः-एकमेव 15 भवनमेकस्यैव वा भवनमात्माऽस्येति विग्रहः, यदेकभवनात्मकं तन्नाभावविशेषः, दृष्टान्तो घटघटस्वात्मवत्-यथा घट एव घटस्वात्मा नान्यत् खपुष्पाद्यसत्, स्यान्मतमविशेषस्तहि प्राप्तः, ऐकभवनात्मकत्वात् मृदादिरूपादीनाम् , घटघटस्वात्मवत्, अनिष्टश्चैतदिति-अत्रोच्यते-न चैवमविशेषः, घटस्वात्मन एव इति दर्शयति-असामस्त्येनेति । अथ द्रव्यादयः षट् पदार्थाः, पृथिव्यादिभेदेन द्रव्याणि नव, रूपादिभेदेन चतुर्विंशतिर्गुणाः, उत्क्षेपणादीनि पञ्च कर्माणीत्येवं वदन् वैशेषिको द्रव्यादीनामवान्तरमेदान् भावरूपान् विशेषान् वाञ्छति, न तु विशेष व्यावृत्ति-20 लक्षणम् , तदयुक्तमिति वक्तुं तन्मतमादावादर्शयति-नन्विति । व्याकरोति-वैशेषिक इति, द्रव्यादयो न निराधारा भवन्ति । खपुष्पादिवत् किन्तु घटो यथा स्वाधारेषु भवति, घटस्य ख आधारः गुणसमुदायद्रव्यवादे रूपादिः, गुणमात्रद्रव्यवादेऽपि तथा, खमतेन तु अवयवो रूपादिरन्यो वा स्वाधारः तत्र भवति, एवं द्रव्यस्याधारः पृथिव्यादिरेव, पृथिव्याश्वाधारो मृदश्मादयः, त एव तद्विशेषाः न तु भावात्मनो द्रव्यादेरभावो विशेषो भवितुमर्हति, निर्मूलत्वप्रसङ्गात् द्रव्यादीनामप्यसत्त्वमापयेत, द्रव्यस्य मूलाभावादेवञ्च भावरूप एव विशेषो नाभावरूप इति भावः । यथा घटस्य रूपादयो विशेषाः तथा पृथिव्या मृदश्मादयो विशेषा 25 इत्याह-तस्या एवेति । यदि घटस्याभावो विशेषः स्यात्तदा निर्मूलत्वाद्धटो न स्यात् खपुष्पवदित्याह-इतरथेति । घटादीनां - रूपादिः भावरूपविशेषो इत्यत्र हेतुमाह-एकभवनात्मकत्वादिति । प्रथमव्युत्पत्त्याऽभिन्नभवनात्मकत्वं द्वितीयव्युत्पत्त्या एकसम्बन्धिभवनात्मकत्वं हेत्वर्थः, घटरूपादावुभयत्र प्रथमो हेतुर्द्वितीयश्चान्यतरत्र वर्तत इति विशेषः । यदिति घटघटखात्मनोर्हि भवनं नान्यत् किं त्वेकमेवेति भावविशेष एव घटस्वात्मा, न तु खपुष्पादिवदसत्, एवं मृदादिरूपादीनामिति भावः । ननु एकभवनात्मको घटघटस्वात्मानौ न परस्परं भिन्नौ किन्त्वेको अत एव च तयोर्न सामान्यविशेषतेति मृदादिरूपादीनामपि पृथिव्यादिघ- 30 टाद्यविशेषः प्रसज्यत इत्याशङ्कते-स्यान्मतमिति । समाधत्ते-न चैवमिति घटघट खात्मवदेकभवनात्मकत्वान्नाविशेषत्व
१ सि.क्ष. डे. छा. यथा स्यादिष्टाधारेषु । २ सि.क्ष. छा. तथा निपृथिव्यपिमृदादिः मृदः । ३ सि. क्ष. 'लतावतनवीरुदादिषु छा. लतावत् नदी । ४ सि.क्ष. एवम ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.