________________
७२४
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे वा, एकैकस्मिन् वृत्तत्वात् , अथैवं न स्यात्ततोऽसावसन्नेवापद्यते सिकतास्विवाविद्यमानं तैलम् , अनिष्टश्चैतदेवम् , रूपादीनां प्रत्येकं सत्त्वात् , परस्परं व्यावृत्तात्मत्वाच्च रूपादयः सन्ति, न च तथास्थितौ घटो न भवति, तयोरितरेतराभूतयोराधारभूतस्य वा घटभावात् असामस्त्येन
वा भावाभावात्मको घट इति । .5 (तथेति ) तथा घटस्तावदस्त्येव, क्रियागुणव्यपदेशवत्त्वात्-उदकाद्याहरणं क्रिया, गुणो रूपादि, व्यपदेशो लिङ्गं हेतुरपदेशो लिङ्गमित्यादि शब्दो वा, पटरथवदिति भावात्मकत्वे दृष्टान्तः, खपुष्पवैलक्षण्येन-वैधयेण सर्वसर्वसमवायासत्त्वादिति भावना हेतुः, न हि सर्वं सर्वत्र समवैति तन्तुषु घटः कपालेषु वा पटः, तस्मात् सर्वसर्वसमवायासत्त्वात् योग्यस्यैव योग्येषु समवायात् , अस्त्येवेति वर्त्तते, यथा रूपे घट:-गुणसमुदायवाददर्शनेन, रूपं वेति-गुणमात्रवादे, तदाधारो वेत्यवयविवादे, यथा 10 रूपे घटोऽस्त्येवेत्यादि तथा रसादिष्वपि भावनीयम् , एकैकस्मिन् वृत्तत्वात् , अथ पुनरेवं न स्यात्-पटर
थादिसाधर्म्यण खपुष्पवैलक्षण्येन वैकैकस्मिन् तिलेष्विव तैलं ततोऽसावसन्नेवापद्यते, किमिव ? सिकताविवाविद्यमानम्-यथा सिकतासु प्रत्येकं समुदायेऽपि तैलं नास्त्येव तथा घटो रूपादावेकैकस्मिन्नसत्वादसन्नापद्येत, अनिष्टञ्चैतत् एवं- सामस्त्येन घटाद्यस्तित्वं रूपादीनां प्रत्येकं सत्त्वात् , इतरथा रूपवद्रसोऽपि
रूपं स्यात् , स्वरूपासत्त्वात् , न च रूपवद्रसोऽपि रूपं भवति, रूपं वा रसवद्रसो भवति, दृष्टविरुद्ध15 त्वात् , यस्माद्रूपमेव रूपं रस एव रसो भवति, नेतरभावमापद्यते तस्माद्रूपादयः सन्ति, एवं तर्हि
रूपादिमात्रत्वान्न घट इति स्यादाशङ्का सा मा भूत्-न च तथास्थितौ घटो न भवति-यथा परस्परव्यावृ.
-wwww
उदकाद्याहरणमिति घटस्य क्रियागुणव्यपदेशानां सद्भावात् भावात्मकत्वम् , नहि खपुष्पस्य केचन क्रियागुणव्यपदेशाः सन्ति तस्मान्न भावात्मकं तत्, घटादिश्च क्रियादिमान् , तस्मात् ते सन्तीति भावः। ननु कथमसौ घटो भावात्मकः सामस्त्यरूपत्वाभावात्
सर्वत्राभावाच्चेत्यत्र भावनामाह-सर्वसर्वेति यत एव सर्वं सर्वत्र न समवैति, अथ च क्रियागुणव्यपदेशा दृश्यन्ते, अत एव योग्य 20 योग्य एव समवैतीत्यतश्च भावात्मकमिति भावः । दर्शनभेदेन निदर्शनमाह-यथा रूप इति, गुणसमुदायो द्रव्यमिति सांख्यमते
द्रव्यलक्षणम् , रूपरसादिसमुदाय एव घटादिद्रव्यं समुदायात्मा घटः समुदायिनि प्रत्येकं रूपादौ वर्तते, तथा रूपमेव द्रव्यं न तदतिरिक्तं किञ्चिद्रव्यमिति बौद्धमते प्रत्येक रूपादिरेव घटः, एवं गुणवद्रव्यमिति वैशेषिकमते प्रत्येकं घट एव वर्तते, एवं योग्यस्यैव योग्येषु वृत्तेर्भावात्मकत्वं घटादेरिति भावः । यद्धि प्रत्येकं क्वचिदपि न वर्त्तते तन्नास्त्येव यथा सिकतासु तैलं प्रत्येकमवृत्तेर्नास्ति तथा
यदि पटरथ दिसाधर्म्यग खपुष्पादिवलक्षण्येन तिलेषु प्रत्येक तैलस्य सत्त्ववत् न विद्यते घटादि तर्हि नासौ घटादिर्भावात्मेत्याह25 अथ पुनरिति, यथा तैलं प्रत्येकं सिकतासु समुदाये च नास्ति तथा घटः प्रत्येक रूपादावभा
स्यादिति प्रत्येकस्मिन् सत्त्वमङ्गीकार्यमेव, तस्मात् प्रत्येकमसत्त्वे एवं सामस्त्येन घटाद्यस्तित्वमनिष्टमिति भावः । एवमभावात्मकत्वमसामस्येन भाव-ति-एमिति कुतः एवं सामस्त्येन घटाद्यस्तित्वमनिष्टमित्यत्राह-रूपादीनामिति, यतः रूपादयः प्रत्येक सन्तः, यदि हि ते प्रत्येवं. सन्तो न भवेयुः तर्हि तेषां स्वरूपमेव न स्यात , स्वरूपाभावेऽपि च रूपस्य रूपत्वे कुतो रसस्यापि न रूपत्वम् । पस्य पा रसत्वं ररुवत् । तथा च यथा रूपमेव रूपं भवति रसः, रस एव च रसो भवति न रूपमिति परस्पर 30 व्यावृत्तस्वरूपा रूपरसादयः प्रत्येकं सन्तः, तदेवं रूपादी- मेवंखरूपतायामवधृतायां घटोऽपि तथैव भवति, रूपरसादावेव घटस्य
भावात् , प्रत्येकं रूपादीनामेव वा घटत्वात् , रूपादीनामाधारस्य वा घटत्वात् , तस्मात् रूपादिवद्धटस्यापि प्रत्येकं सत्त्व एव सामस्त्येनास्तित्वं भवेदिति केवलं सामस्येन घटाद्यस्तित्वमनिष्टमेवेति भावः । प्रत्येकासत्त्वे दोषमाह-इतरथेति । एवं रूपस्य परस्परव्यावृत्तस्य प्रत्येकं सत्त्वमुपपाद्य घटस्य तदुपपादयितुमाह-नच तथास्थिताविति । तस्मात् असामरसेनापि घटो भावात्मक
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org