________________
भावाभावात्मकत्वभावना ]
द्वादशारनयचक्रम्
[सत्स्व] सत्सु च भेदं प्रति वृत्तत्वादिति स्वावयवभेदेषु सद [ स ]त्त्वेन वृत्तिः, तस्यार्थस्य भावना-तद्भावाभावात्मको घट इति तदभावे न भवति - भावाभावाभावे न भवति, भावाभावभाव एव च भवति तद्भाव एव भवतीत्यर्थः, एतस्यैवार्थस्य भावनार्थं साधनमाह - तथा घटपटादिद्रव्यक्षेत्रकालभावभावाभावसत्ताया घटसामस्त्येऽपि न कश्चिद्विशेष इति प्रतिज्ञा, घटपटघटान्तरेत्यादि दण्डकोक्तार्थचातुर्विध्यस्य सदसत्त्वमसामस्त्येन भावितं सामस्त्येऽपि तथेति साध्यार्थः, वस्तुत्वादिति हेतु:, असामान्यवदिति दृष्टान्तः, यथैवेत्यादि 5 चतुर्विध्येन दृष्टान्तवर्णना गतार्था यावद् गुणावृत्त्यनावृत्तिभेदेष्विति, द्विगुणत्रिगुणकृष्णशुकृत्वादिरावृत्तिः, शुक[:]कृष्ण इत्यनावृत्तिः, तत्रैकगुणसत्त्वं द्विगुणासत्त्वं द्विगुणसत्त्वमेकगुणासत्त्वं शुलसत्त्वं कृष्णासत्त्वं कृष्णसत्त्वं शुक्ला सत्त्वमित्यादि भावाभावात्मकत्वाविशेषे सामस्त्या सामस्त्यविशेषः क इति चेदुच्यते - विवक्षया चैष विशेष उभयोरपि सामस्त्यासामस्त्ययोः, कस्मात् ? तत्त्वात् तद्भावस्तत्त्वं भावाभावत्वं तस्मात्तत्त्वात् - भावभावत्वात् विवक्षाविशेषादेवैष विशेषः, समस्तो घटोऽसमस्तः कण्ठकपालादिरित्यादिप्रागुक्तं चातु- 10 रात्म्यं सकलादेशवशाद्विकला देशवशाच्च प्रतिपादनोपायत्वात् ।
एवं भावाभावात्मकत्वं सर्वस्य सकलादेशेन भावितम्, विकलादेशेन प्रत्येकं भावयिष्यामः, तत्र भावात्मकत्वं तावत्
तथा घटस्तावदस्त्येव, क्रियागुणव्यपदेशवत्त्वात्, पटरथवत् खपुष्पवैलक्षण्येन सर्वससमवायसत्त्वात्, योग्यस्यैव योग्येषु समवायात्, यथा रूपे घटोऽस्त्येव रूपं वा तदाधारो 15
७२३
स्वेऽवयवा अपेक्ष्यन्तेऽतः प्रत्यवयवं घटादिवस्तूनां प्रवृत्तेर्भावाभावात्माऽपि घटादिः सविशेषः, तथा च घटस्य योऽवयवोऽस्तित्वे नियतः कण्ठः खेनात्मना भवतीति यश्चावयवो नास्तित्वे नियतः कपालाद्यात्मना न भवतीति तेष्ववयवेषु परस्परतः सत्स्वसत्सु चावयविनो घटादेः भावाभावात्मकस्य कथञ्चिदमेदेन वृत्तेरवयवधर्मेणापि सदसत्त्वेन तस्य सदसत्त्वम्, तदेवं खपरद्रव्यक्षेत्रकालभावैरेव घटादेः भावाभावात्मकत्वं केवलं न वाच्यम्, प्रत्यवयवं वस्तुवृत्त्यनपेक्षत्वे भावाभावात्म कैकरूपतयाऽविशेषः स्यादिति तात्पर्यं भवेदिति प्रतिभाति । इदं भावयति तद्भावेति तस्मात् भावाभावात्मको घट इत्यर्थः तेन प्रकारेण भावाभावात्मको 20 घटइति वा स्वपरद्रव्यादिना भावाभावात्मको घटः सामस्त्येन भावाभावात्मकत्वाभावे न भवति तेन भावाभावात्मकत्व एव भवतीत्यर्थः । अमुमेवार्थमनुमानेन दर्शयति तथा घटपटादीति यथा स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमघटादौ घटपटघटान्तरपूर्वोत्तर पिण्डस्तूपकादिरूपरसादिशुक्ल कृष्णादित्रि द्व्येक गुणशुक्लादिभिर्भावाभावात्मकत्वं भावितं तथा सामस्त्येन घटेऽपि भावाभावात्मकत्वेऽविशेषः, वस्तुत्वात्, असामान्यवत्-विशेषव्यक्तिवदित्यर्थः । रूपात्मना घटोऽस्ति रसाद्यात्मना नास्ति रूपवानपि घटः शुक्लरूपेणास्ति कृष्णरूपेण नास्ति, कृष्णरूपेण वाऽस्ति शुक्लरूपेग नास्ति, एकगुणोऽपि घट एकगुणकृष्णरूपेणास्ति द्विगुण- 25 कृष्णादिना नास्ति, द्विगुणकृष्णेन वास्ति एकगुणकृष्णेन नास्तीत्येवं घटो भावाभावात्मा यथा तथा समस्तोऽपीति दृष्टान्तं वर्णयतिचातुर्विध्येनेति द्रव्यक्षेत्रकालभावेनेत्यर्थः । ननु समस्तस्यासमस्तस्य च भावाभावात्मकत्वे यदि न कश्चिद्विशेषस्तर्हि सामस्त्यासामस्त्यभेदः कथमित्यत्राह-विवक्षयेति यद्यपि सामान्यं विशेषोऽपि विशेषः सामान्यमपीति न प्रतिनियतत्वं सामस्त्यासामस्त्ययोः, एकपुरुषपितृपुत्रत्ववत् तथापि विवक्षयैव सामस्त्यासामस्यविशेषः, अयं घटस्समस्तोऽयञ्च कपालकण्ठादिरसमस्त इत्यादि परस्परापेक्षया विवक्षायामेव तयोः सामस्त्यासामस्त्यरूपत्वात् न ह्येकान्तेन घट: समस्त एव, कपालादिरसमस्त एव, अपरापरापेक्षायां 30 तयोरपि समस्तासमस्तरूपत्वात्, सर्वस्यापि वस्तुनोऽनेकधर्मात्मकत्वेन तत्प्रतिपादनस्य विवक्षामन्तरेणासम्भवात् सकलादेशेन विकलादेशेन च वस्तुनः प्रतिपादन एव तत्त्वावबोधात्, तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुन एकधर्मबोधनमुखेन द्रव्यार्थ प्राधान्याश्रयगात् कालादिभिरभेदवृत्त्या पर्यायार्थप्राधान्यात् अभेदोपचारेण वा यौगपद्येन प्रतिपादकं वचः सकलादेशः, भेदप्राधान्याद्भदोपचाराद्वा तथा प्रतिपादकं वचनं विकलादेश इति । अथ विकलादेशेन प्रत्येकं घटादेर्भावाभावात्मकत्वं भाव्यते - तथा घट इति । व्याचष्टे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org