________________
७२२
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे लान्तरैः घटशिवकस्तूपकादिकपालादिपूर्वोत्तरभावैः वर्तमानयुगपदयुगपदद्भाविभावभावान्तरैर्वा भावाभावाम्यां भवतीति घटस्य सदसत्त्वम् , प्रतिवृत्तिवस्तुप्रवृत्तेः घटादि मृदादिकारणमपेक्षते निर्विशेषत्वे भावाभावत्वेनाविशेषः, कण्ठकपालादिभावाभावाद्यात्मना परस्परतश्चासत्सु
भेदं प्रति वृत्तत्वादिति स्वावयवभेदेषु सदसत्त्वेन वृत्तिः, तद्भावाभावात्मको घटस्तदभावे न 5 भवति, तदभावभावे च भवतीति, तथा घटपटादिद्रव्यक्षेत्रकालभावसत्ताया घटसामस्त्येपि न कश्चिद्विशेषः वस्तुत्वात् , असामान्यवत् , यथैव............ ...............गुणावृ. त्यनावृत्तिभेदेषु विवक्षया चैष विशेष उभयोरपि तत्त्वात् ।।
एवं द्रव्यक्षेत्रेत्यादि, यावत् स[द] सत्त्वमिति, द्रव्यतो घटो भवन्नात्मानुवृत्त्या पटादिव्यावृत्त्या घटान्तरव्यावृत्त्या च भावाभावात्मभ्यां भवति, क्षेत्रतो गृहे घटो न बहिर्नान्यत्रेति स्वक्षेत्रे भवन् परक्षेत्रे 10 क्षेत्रान्तरे चाभवन् भवति, कालतो वर्तमाने काले भवन्नतीतानागतयोः कालान्तरयोरभवन[भावतो घटा
वस्थायां घटत्वेन भवन्] शिवकस्तूपकादिभिः पूर्वैरुत्तरैश्च कपालादिभिरभवन् , शिवकावस्थायामेव वा पिण्डस्तूपकाभ्यां पूर्वोत्तराभ्यामभवन शिवकत्वेन भवन् भवतीत्युच्यते, अथ वा भावतः शिवकादिभिराकारैर्धमैः वर्तमानै[र]युगपद्भाविभिः युगपद्भाविभिश्च रूपरसादिभिर्भवन भावान्तरैरुपयोगादिभिश्चाभवन्
भवतीति सदसत्त्वमेवं सर्वभावानां भावाभावात्मकत्वम् , अथवा प्रतिवृत्तिवस्तुप्रवृत्तेः-वस्तुनि वस्तुनि 15 वृत्तिः प्रतिस्वं घटादि मृदादिकारणमपेक्षते, आदिग्रहणात् पटादि तन्त्वाद्यपेक्षते, निर्विशेषत्व इति,
कारणान्तरानपेक्षत्वात् स्वकारणानपेक्षत्वाच्च भावाभावत्वेनाविशेषः, कण्ठः स्वेनात्मना भवति, कपालाद्यात्मना न भवति, कपालानि स्वात्मना भवन्ति, न कण्ठाद्यात्मनेति भावाभावाद्यात्मना परस्परतश्च
घटादिः परकीयद्रव्यादिचतुष्टयरूपेण न भवति, इत्थं भवतो भावाभावरूपाभ्यां भवनं नियम्यत इति सामान्यमपि सामान्य विशेषश्च, विशेषोऽपि भविता विशेषः सामान्यञ्चेति दर्शयति-द्रव्यत इति घटस्य यत् स्वरूपं तदेव द्रव्यं, तत् सर्वघटसमानम् , 20 तेन घटो भवति, पटादिवरूपं घटस्य पररूपं तेन च घटादिः पटादिना व्यावय॑ते, अतस्तद्रूपेणासौ न भवति, घटत्वादिना परिच्छिन्नेषु घटेषु मध्ये यादृशो घटो विवक्षितस्तव्येण तद्व्यक्त्यादिना भवन् स घटस्तदितरघटव्यक्त्यन्तरेण चाभवन् नियतो भवति भावाभावाभ्यामिति दर्शनाय घटान्तरव्यावृत्त्या चेत्युक्तम् । क्षेत्रत इति वाधारः क्षेत्रम् , यथा गृहादि, स्वानाधारश्च बाह्य क्षेत्रं गृह एव वा प्रदेशान्तरं परक्षेत्रम् , घटश्च स्वक्षेत्रे भवन् परक्षेत्रे चाभवन् भवतीति क्षेत्रतो भावाभावाभ्यां वस्तु भवतीति भावः । कालत इति घटाद्यस्तितानियामकः कालः खकालः तद्व्यतिरिक्तः तदनवच्छेदकः परकालोऽतीतादिः, प्रतिनियतकाल25 त्वाद्धटादेः खकाले भवन् परकाले चाभवन् भवतीति भावः । भावत इति पर्यायो भावः, क्रमभाविपर्यायापेक्षया वार्त्तमानिकघट
त्वादिलक्षणभावापेक्षया घटो भवति पूर्वोत्तरभाविपर्यायापेक्षया च न भवतीति भावाभावात्मक वस्तु इति भावः । सहक्रममाव्याकारधर्मलक्षणपर्यायं भावशब्देन गृहीत्वाऽऽह-अथ वेति शिवकादिवर्तमानक्रमभाविपर्यायेण रूपरसादिसहभाविपर्यायेण भवन् घटः पिण्डान्तपूर्वपर्यायेण स्तूपकाद्युत्तरपर्यायेण चाभवन् उपयोगादिभिश्चाभवन् घटो भावाभावात्मकः, तदेवं वस्तुमात्रं विजातीयसजातीयस्वगतप्रतियोगिकभेदरूपम्, अत एवादौ पटादितो भेदः प्रदर्शितः ततः सक्ष्मात् सजातीयव्यर 30 स्वगतात् क्रमभाविपर्यायात् ततः सहभाविपर्यायान्तरात् मेद आदर्शितः, सहभाविपर्यायान्तरेण भेद इत्थं भाव्यः-यदा घटश्चक्षुषा
गृह्यते तदा स चक्षुर्विषयीभूतरूपात्मना भवन् रसाद्यात्मना च न भवति, सोऽपि घटः घटनादुपयोगात्मना भवन् अनुपयोगात्मना च न भवतीति यथायथं ऋजुसूत्रादिपर्यायनयैर्भाव्यम् । इत्थं अवयवानपेक्षया घटादिवस्तुनि भावाभावात्मकत्वमुपदर्य सावयवे तत्प्रतिपादनायाऽऽह-अथ वेति वस्तुनि वस्तुनि वृत्तिः प्रतिवृत्ति, प्रतिस्वमित्यर्थः, कार्येण हि प्रत्येक
१सि.क्ष. नम नय इति । २ सि.क्ष. छा. प्रतिपत्तिववस्तु० । ३ सि. भावाद्यात्मना ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org