________________
सामान्यविशेषयोर्लक्षणम्] द्वादशारनयचक्रम्
७२१ स्यान्मतं विधिविधिनियमवदेकत्वापत्तिः सामान्यविशेषयोरिष्टा सैषा त्वदुक्तन्यायेनैवं त्वेकत्वापत्तिरपीति, सा मा भूदिति सर्वविकल्पभावैकत्वव्युदासेन विशेषलक्षणमनयोः पर्यायादिभिरुक्तं वक्तुकाम आह____सामान्य प्रवृत्तिः द्रव्यमन्वयो धर्मी विधिर्भाव इति, विशेषोऽपि निवृत्तिः पर्यायोऽन्यत्वं धर्मो नियमोऽभाव इति, द्वावेतौ भावौ पूर्ववदेकमेवेदमित्येवंविधं भावमनापद्यमानौ सामान्यमपि 5 सामान्यं विशेषश्च भवतः, विशेषोऽपि विशेषः सामान्यश्च भवतः, प्रवृत्तिः निवृत्तिरित्याधुभयमन्योऽन्याविनाभाविभावः तस्य सतो भावः सत्ता, येन हि सता यथा भूयते सततनियमेनेति उभयोर्नियमो विधिश्च । यदि स्यात् ............खपुष्पवत् ।। - सामान्यं प्रवृत्तिरित्यादि यावद्विधिर्भाव इति, तथा विशेषोऽपीत्यादि यावन्नियमोऽभाव इति द्वावेतौ भावा-पर्यायभेदादेतदुभयं पूर्ववत्-विधिविध्यरविकल्पपुरुषादिवादवदेकमेवेदमित्येवंविधं भाव- 10 मनापद्यमानं सामान्यमपि सामान्य विशेषश्च भवतः, विशेषोऽपि विशेषः सामान्यश्च भवत इति, तहर्शयति-प्रवृत्तिनिवृत्तिरित्याधुभयमन्योऽन्याविनाभाविभावो वस्त्वित्यर्थः, भावाभावरूपं भवनं सद्वस्तु, तस्य सतो भावः सत्ता, येनै सता भूयते सततनियमेनेति प्रकृतिप्रत्ययार्थयोरुभयोर्नियमो विधिश्च, तावेव दर्शयति-येनेति प्रत्ययार्थ यथेति प्रकृत्यर्थश्च, येन हीत्यादि का क्रियायां नियतेन नियतायां भवनमाह, यदि स्यादित्यादि अन्यथाऽनिष्टापादनं यावत् खपुष्पवदिति भवननियमेनात्मलाभो भवत उक्तः, ततश्चाव- 15 रणेन[?] भवितृनियमेन भवनात्मलाभ इत्येतदुभयमुभयत्र विधिनियमश्चेति सामान्येनोक्तम् ।
विशेष्यापि वक्ष्यतिएवं द्रव्यक्षेत्रकालभावैः घटपटघटान्तरगृहबहिःस्वपरक्षेत्रान्तरवर्तमानातीतानागतका
वर्णनद्वारेण विधिविधिमतेष्टं सर्वविकल्पात्मक भावकवस्तुत्वं व्युदस्यतीत्याह-स्यान्मतमिति सामान्यादेः पर्यायानाह-सामान्यं प्रवृत्तिरिति । विशेषस्य पर्यायानाह-विशेषोऽपीति । इमावेव पर्यायभेदतो द्विविधौ भावी सामान्यविशेषरूपी प्रत्येकमुभय-20 खरूपौ, अत एव च विधिविधिमतपुरुषनियत्यादिवादवन्नैकविधौ भवत इत्याह-द्वावेताविति । प्रवृत्तिरिति प्रवृत्तिनिवृत्त्यविनाभाविनी, निवृत्तिश्च प्रवृत्त्यविनाभाविनी, एवञ्च प्रवृत्तिनिवृत्त्यात्मको भावः, एवं द्रव्यं पर्यायाविनाभावि, पर्यायश्च द्रव्याविनाभावी द्रव्यपर्यायात्मको भावः, अन्वयः-एकत्वं तदन्यत्वाविनाभावि, अन्यत्वमप्येकत्वाविनाभावि, एकान्यत्वात्मको भावः, धर्मी धर्माविनाभावी, धर्मश्च धर्म्यविनाभावी धर्मधात्मको भावः, विधिनियमाविनाभावी नियमो विध्यविनाभावी विधिनियमात्मको . भावः, भावोऽभावाविनाभावी, अभावो भावाविनाभावी, भावाभावात्मको भाव इति भावः । एवमुभयात्मकमेव वस्तु सदुच्यते 25 भवनात्मकत्वात् , तथा च सत् येन रूपेण भवति तद्भवनं प्रकृत्यर्थः, यो भवति स कर्ता प्रत्ययार्थः, सततनियमेन भवति वस्त्विति विधानान्नियमनाच्चेत्यादर्शयति-तस्य सत इति। भावार्थमाह-कति नियतो हि कर्ता नियतक्रियायां भवति, नानियतक्रियायां भवति, एवञ्च भवतो वस्तुन आत्मलाभो न यथा तथा, किन्तु भवन नियमेनेति सामान्यमपि सामान्यं विशेषश्च भवतः, भविताऽपि भवितृनियमेनैव आत्मलाभ लभत इति विशेषोऽपि विशेषः सामान्यञ्च भवत इति भावः । इदमेवाह-भवननियमेनेति । अथ सकलादेशेन सर्व भावाभावात्मकमिति निदर्शनप्रदर्शनेन व्याकरोति-एवमिति स्वकीयद्रव्यक्षेत्रकालभावचतुष्टयरूपेग भवन 30
.सि.क्ष. छा. विधिनिवमतय । २ सि.क्ष. छा. पर्यायादिविभिर्विरुक्तं । ३ सि.क्ष. पूर्व च द्विविध्यविकल्प० । ४ सि.क्ष. छा. यसत्ता। ५ सि.क्ष. कर्ता। ६ सि.क्ष. यदि स्वेत्यादि ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org