________________
७२०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे आधेयोऽर्थः ? कुतो वाऽऽश्रयाणां वैचित्र्यम् ? समवायैकत्वे षट्पदार्थनिवृत्तेः सुभाषितत्वात् , अजलचन्द्रवत्-व्योमचन्द्रवदेकत्वात् , समवायस्य भावस्य च सत्ताख्यस्य जलचन्द्रेण सह साधाभावात् कुतो नानात्वोपचारः ? छायामात्रत्वाच्च जलचन्द्रस्य बहुत्वाद्वा भावो वा कुतः ? भावोऽपि द्रव्यादिव्यतिरिक्तो नास्त्येवैकः तन्मूलत्वाद्भेदस्येत्यलमतिविकासिन्या सङ्कथया । 5 एवं स्वभावसत्सम्बन्धसद्वस्तुभावभेदवादिवैशेषिकमतनिराकरणप्रपञ्चेनैतदायातमिति दर्शयति
एवमेतदुभयमुभयभागित्यस्य नयस्य स्वरूपम् , यत्तत्सामान्यं तदपि विधीयते निय. म्यते च, योऽपि विशेषः सोऽपि विधीयते नियम्यते च, सामान्य भावः प्रकृत्यर्थः यत्तत्तेन भूयते सा सत्ता भू सत्तायामिति पाठात् सामान्यम् , विशेषोऽपि प्रत्ययार्थः सः, तस्यैव भवितृत्ववाचिप्रत्ययार्थत्वात् , योऽसौ भवति स विशेषः सामान्यमपि भवनात्मकत्वात् भवन10 सामान्यमन्तरेण तस्याकर्तृत्वात् स एव प्रकृत्यर्थानतिक्रमेण वृत्तः।।
एवमेतदित्यादि, उभयमुभयभागित्यस्य नयस्य स्वरूपम् , यत्तत्सामान्यं तदपि विधीयते नियम्यते च, योऽपि विशेषः सोऽपि विधीयते नियम्यते चेति, तद्वयाचष्टेऽक्षरार्थं प्रदर्शयन् प्रकृतिप्रत्ययार्थाभ्यां सामान्य भावः प्रकृत्यर्थः, तदर्शयति-यत्तत्तेन भूयते सा सत्ता, भू सत्तायामिति(धातुपाठे १) पाठात् सामान्यम् , तत् किं प्रकृत्यर्थमात्रमेव ? नेत्युच्यते-विशेषोऽपि प्रत्येयार्थः सः, तस्यैव भवितृत्वैवाचिप्रत्ययार्थत्वात् , 15 स एव प्रकृत्यर्थः प्रत्ययार्थोऽपीत्युक्तः, योऽसौ भवति कर्तृवार्चिप्रत्ययार्थः, स विशेषः सामान्यमपि भवति,
सत्ता भावः, भवनात्मकत्वात् , भवनसामान्यमन्तरेण तस्याकर्तृत्वादभवितृत्वात् स एव प्रत्ययार्थः प्रकृत्यर्थानतिक्रमेण वृत्त इति ।
भावस्य पूर्व निषिद्धत्वात् व्यङ्ग्यव्यञ्जकयोरसिद्धः, समवायस्यैकत्वे हि पदार्थषट्रत्वमेव नावतिष्ठते, समवायश्चाजलचन्द्रवदेकः। एवं स्वभावसत् सम्बन्धसदिति पदार्थवादिवैशेषिकमते निरस्ते किमायातमित्येतस्योत्तरमेतन्नयवादी स्वमतं दर्शयति-एवमेतदिति सामान्य 20 विशेषश्च सामान्यविशेषोभयस्वरूपमित्येतद्भजनयस्य दर्शनमिति । तन्मतं व्याचष्टे-यत्तत्सामान्यमिति सामान्य प्रवर्त्तते निवर्त्तते
च, विशेषोऽपि प्रवर्तते निवर्तते चेत्यर्थः । तत् कथमिति दर्शयितुं प्रकृतिप्रत्ययार्थवर्णनद्वारेण सामान्यविशेषौ दर्शयति-सामान्य भाव इति, भवनं प्रकृत्यर्थः भविता प्रत्ययार्थः, भवनमेव सामान्यमनुप्रवृत्तिधर्मत्वात् तदेव सत्तोच्यते सर्वभावेषु सद्रूपताया अवियोगात्, यतो भवनं भूधातुनिष्पन्नं भूधातुश्च सत्तायामनुशिष्टोऽतोऽपि भवनं सामान्यं सत्ता पर्याया इति भावशब्दप्रकृत्यर्थः
सत्तासामान्य जातिरिति भावः । सा किं केवलं प्रकृत्यर्थ एवेत्याशङ्कायां प्रत्ययार्थत्वमपि तस्या आवेदयति-विशेषोऽपीति 25 प्रत्ययार्थभूतविशेषोऽपि सामान्यमतः प्रत्ययार्थोऽपीति भावः। हेतुमाह-तस्यैवेति प्रकृत्यर्थस्यैवेत्यर्थः । भवति भाव इत्यादौ तिकृतोः
लः कर्मणि च भावे चाकर्मकेभ्य इति कर्तरि कृदिति सूत्राभ्यां कर्थे विधानात् कर्ता विशेषोऽपि सन् सामान्यं प्रकृत्यों भवतीति निरूपयति-योऽसाविति भवतीत्यादौ योऽसौ कर्तृवाचिप्रत्ययार्थ इत्यर्थः । एवं च सामान्यरूपेण भवनेन कादयोऽभिधीयन्ते, नहि कर्ता भवनमन्तरेण भवति, तस्मादभेदेनाभिधीयमानतया विशेषोऽपि सामान्यं सत्ता भाव एवेति प्रकृत्यर्थोऽपि सामान्य विशे
षोऽपि, प्रत्ययार्थोऽपि विशेषः सामान्यमपीत्युभयमुभयभागिति भावः । ननु विधिविधिभङ्गवादिनां सामान्यविशेषयोरेकत्वापादन30 मिष्टम् , तदेवैकत्वापादनं भवन्यायेनापि प्राप्तम् , तस्मात् पौनरुक्त्यप्रसङ्गः स्यात् , तन्मा भूदिति सामान्यविशेषयोर्विशेषलक्षणव्या
१ सि.xx। २ छा. प्रकृत्या(य)र्थः। ३ छा. भवितृत्वा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org