________________
समघायैकत्वहेतुभङ्गः] द्वादशारनयचक्रम्
७१९ यावदसङ्करः स्यादेवमिति, तस्य हेतोरसिद्धिप्रतिपादनार्थञ्चाह-समवायस्येत्यादि, उक्तोत्तरमेवैतदाधाराधेयभेदनियमाभावस्य तुल्यत्वात् दृष्टान्तसाधर्म्यं न भजत एतदिति प्राग्विस्तरेण व्याख्यातार्थत्वात् , तदेवं स्मारयति-तथा यदि य एवेत्यादि यावद्गुणकर्मभावविनिवृत्तिरिति सर्व-सर्वविकल्पं प्रपञ्चनीयमिति पूर्वोक्तार्थातिदेशः, आ-कुतः ? इति चेदुच्यते-अस्मान्थावधेः यथास्वार्थमिति-यो यः स्वार्थो यथास्वार्थ द्रव्यगुणकर्मद्रव्यत्वगुणत्वकर्मत्वसंयोगाव्यवस्थानचक्रकाण्येव व्याख्येयानि पूर्ववदिति ।
___ यत्पुनरिदमाशङ्कितं समवायैकत्वं पञ्चत्वव्यवहारेण विरुध्यत इति तदेवमेव ममापि प्रतिभाति यत्पुनरिदं प्रत्युच्यते, न आश्रयविशेषात् , भाववत् , जलचन्द्रवच्च तथा समवायस्यैकत्वेऽप्याश्रयाणां नानात्वादुपचारेण नानात्वव्यवहारो भविष्यतीति, इदं निर्मूलमेव, व्यङ्गयस्याऽऽधेयनियमादाश्रय एवासिद्धेः कुतस्तव्यङ्ग्यो व्यञ्जको वाऽऽधेयोऽर्थः ? कुतो वाऽऽश्रयाणां वैचित्र्यम् ? समवायैकत्वे षट्पदार्थनिवृत्तेः सुभावितत्वात् , अजलचन्द्रवदेकत्वात्, 10 समवायस्य भावस्य च जलचन्द्रेण साधयोभावात्कुतो नानात्वोपचारः? छायामात्रत्वाच्च जलचन्द्रस्य, भावो वा कुत इत्यलमतिविकासिन्या सङ्कथया ।। यत्पुनरिदमाशङ्कितमित्यादि, समवायैकत्वं पश्चत्वव्यवहारेण विरुध्यत इति यदाशङ्कितं
.mmmmmm त्वया तदेवमेव ममापि प्रतिभाति विरुध्यत एवेति, यत्पुनरिदं प्रत्युच्यते-तस्याशङ्कितस्योत्तरं वैशेषिकेण, न, आश्रयविशेषात् , भाववदित्यादि, द्रव्यादिसद्भावत्रयं दृष्टान्तः, प्रतिदृष्टान्तश्च जलचन्द्रः, तथा 15 समवायस्यैकत्वेऽपीत्यादिदार्टान्तिकं गतार्थं यावद् भविष्यतीति, अस्योत्तरमाहाचार्यः-इदं निर्मूलमेव व्यङ्गयस्याऽऽधेयनियमात् पूर्वोक्तादाश्र एवासिद्धो व्यञ्जको व्यङ्ग्यो वा त्वदिष्टः, कुतस्तद्वयङ्गयो व्यञ्जको वा ततश्च कथं प्रदीपदृष्टान्तेन व्यङ्ग्यव्यञ्जकभावनिवन्धनो भेदः, तयोः पृथगसिद्धत्वात् , तस्मान्न दृष्टान्तस्तुल्य इति सङ्करो दुर्वार एवेति भावः । व्यङ्ग्यव्यञ्जकभेदमसिद्धं कर्तुमाह-तस्य हेतोरिति, समवायो हि एक इष्टः, तथा सति द्रव्यत्वसम्बन्धो द्रव्यएवेति न तु गुणादाविति नियमो व्यतिरेकश्च न भवत एव तदभावे चाधाराघेयभावनियमाभावः, सर्वस्य व्यङ्ग्य त्वाय जकत्वाच न.20 दृष्टान्तसाधर्म्यमिति भावः । पूर्वोदितसमवायैकत्वप्रयुक्तसार्यमत्र स्मारयति तथा यदि य एवेत्यादि । अतिदेश्यमानग्रन्थावधिमाह-आ कुत इति, व्याख्यातार्थप्रकारेणैव यावद् गकर्मभावनिवृत्तिग्रन्थं द्रव्यगुणाद्यव्यवस्थाचकाणि पूर्ववदेव व्याख्येयानीत्यर्थः । ननु समवायो यद्येकस्तहि कथमयमवयविसमवायोऽयं गुणसमवायोऽयं कर्मसमवायोऽयं द्रव्यत्वादिसमवायः, अयं विशेषसमवाय इत्येवं समवाये पञ्चत्वव्यवहारः, एकत्वपञ्चत्वयोर्विरोधादिति वैशेषिकेणाऽऽशक्य आश्रयाणामवयव्यादीनां पञ्चत्वादेव समवाये पञ्चत्वव्यवहार औपचारिको न तु वास्तविकः, एकत्वात्तस्य, यथा सत्ताया एकत्वेऽपि द्रव्यस्येयं सत्ता 25 गुणस्येयं सत्ता कर्मण एवेयं सत्तेति त्रैविध्योपचारः, यत्र तु नास्त्याश्रयमेदो यथा जलस्याश्रयस्य, न तत्र जलचन्द्रस्यानेकत्वोपचारः किन्त्वेकत्वोपचार एवेति समाहितम् , तत्राचार्य आह त्वदीयपूर्वपक्षो विरोधरूपः स युक्त एवेत्यादर्शयति-यत्पुनरिदमिति । व्याचष्टे-समवायैकत्वमिति सम्बन्धिभेदात् सम्बन्धभेदस्यावश्यकत्वात् यदि सम्बन्धिनः पञ्च तर्हि सम्बन्धः समवाय एको न स्यादेकत्वे वा सम्बन्धिनः पञ्चत्वं न स्यात् विरोधादिति यदाशंकितं तद्युक्तमेवेति भावः । वैशेषिकेणोक्तमुत्तर निरसितुमाह-यत पुनरिदमिति खसम्बन्धिभिराश्रयैरेकोऽपि समवायः पञ्चत्वोपचरितभेदः यथा सत्ताया आश्रयो द्रव्यादयः30 व्यजकत्वात् , एवञ्च व्यजकानां द्रव्यादीनां भेदात् द्रव्यत्वविशिष्टा सत्ता, गुणत्वविशिष्टा सत्ता, कर्मत्वविशिष्टा सत्तेति त्रिधा व्यपदेश औपचरिकः, यथा वाऽऽश्रयभेदाभावेन जले चन्द्रस्यानेकतया प्रतिभासेऽपि एकत्वेनोपचर्यते चन्द्रस्तथा समवायेऽपि पञ्चत्वोपचार . औपचारिक एवेति भावः । एतदुत्तरं निराचष्टे-इदं निर्मूलमेवेति व्यङ्ग्यस्य नियत आश्रय एवासिद्धः, द्रव्यद्रव्यत्वादेराधाराधेय१ इदं वाक्यं सि. प्रतो नास्ति । २क्ष. छा. व्यङ्ग्यस्थाधारस्याधेयनियमात् । द्वा० १४ (९१)
wwwmmmmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.