________________
mawwamwamm
७१८
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे एवात्मप्रतिलम्भः, तयोश्च लोकसिद्धिवद्भेदः स्ववृत्तिप्रतिलम्भादेव, त्वन्मतेऽप्याकाशकालयोरिव दधिकुण्डयोर्लोकेन प्रतिपन्नो भेदो नार्थान्तरात् , तत्त्वात् ततो वयमपि लोकविरुद्धं मा वोचामेति लोकसिद्धिवद् भेदाभावात् कारकशक्तित एव तु प्रतिपद्यते भेदसिद्धि[:]संयोगपरिणामकृतं सदप्यैक्यमनादृत्य, तयोः
संयोगैकत्वेऽप्यधारशक्तिः कुण्डस्याधेयशक्तिर्दध्न इति नियममसङ्कीर्णमाचक्ष्महे, अस्यार्थस्य भावनाग्रन्थो 5 गतार्थों यावदाधाराधेयनियम इति, अवश्यं चैतदेवं त्वया समवायमपि कल्पयित्वा एतदेव प्रतिपत्तव्यं त्वद्वचनप्रामाण्यादेव, यथा त्वमेवात्रेति, संयोगैकत्वेऽपि कारकशक्तित एव कुण्डदध्नोराधाराधेयनियमो भिन्न इत्युत्तरमात्थ, किं तदुत्तरमिति चेदुच्यते न समानत्वादिति, तथेहापि समानमुत्तरं समवायैकत्वेऽपि कारकशक्तेरेव नियमभेदः, तद्व्याख्या गतार्था यावत् कस्मिंश्चिदेवेति ।
यत्तूच्यते व्यंग्यव्यञ्जकत्वभेदाद्रव्यद्रव्यत्वादीनां भेदो घटप्रदीपवत् सम्बन्धैकत्वेऽपीति 10 न सङ्करप्रसङ्ग इति, एतच्च व्यंग्यव्यञ्जकत्वं द्रव्यद्रव्यत्वादेस्तदा स्याद्यदि प्रदीपघटदृष्टान्तवत्
पृथक् सिद्धं स्यात् न तु तदात्मभेदनियमः, सिद्धे हि तदाधाराधेयभेदनियमोऽपि स्यात् , ततो न दृष्टान्तसाधयं भजत एतदिति नासङ्करः स्यादेवम् समवायस्यैकत्वेन व्यतिरेकनियमयोरभावात् तथा यदि य एव गुणकर्मभावाभ्यां सम्बन्धः स एव द्रव्यस्यापीति प्राप्तं गुण
कर्मणोरपि द्रव्यत्वम् द्रव्यत्वाभिसम्बन्धाच्च तयोर्गुणकर्मभावविनिवृत्तिरिति सर्व प्रपश्चनीयं 1 यथास्वार्थमिति ।
यत्तूच्यते व्यङ्ग्यव्यञ्जकेत्यादि, व्यङ्ग्यव्यञ्जकत्वभेदाद् द्रव्यद्रव्यत्वादीनां भेदो घटप्रदीपवदिति परिहारान्तरं गतार्थं यावन्न सङ्करप्रसङ्ग इति वैशेषिकस्य, आचार्यवचनन्तु एतच्च व्यङ्ग्यव्यञ्जकेत्यादि, स्यादेतदेवं यदि दान्तिकस्य [द्रव्यद्रव्यत्वादेर्व्यङ्ग्यव्यञ्जकभावः प्रदीपघटदृष्टान्तवत् पृथक् सिद्धः स्यात्, न तु तदात्मभेदनियमः, सिद्धे हि तदाधाराधेयभेदनियमोऽपि स्यात्, तदर्थोद्भावनं 20 एवात्मप्रतिलम्भात् स्ववृत्तिप्रतिलम्भाच्च धर्मान्तरसम्बन्धान्तरानपेक्षतयाऽऽधाराधेययोरसङ्कीणा नियम उपपद्यत इत्याशयेनाह
दधिकण्डयोरिति, दधिकुण्डयोर्यद्यपि संयोगपरिणामकृतमैक्यमस्ति तथापि लोकविरुद्ध मा वोचामेति तदनादृत्य कारकशक्तिकृतमेदाभिप्रायेण लोकसिद्धिवद्भेद इत्युक्तमिति वक्ति-ततो वयमपीति । कारकशक्तित एव भवद्भिरपि समवायमभ्युपेत्यापि संयोगस्याविशिष्टत्वादाधाराधेयभावनियमोऽभ्युपेयः, तथा च समवायव्यतिरेकेणापि कारकशक्तित एवाधाराधेयनियमसिद्धेः किं समवायेनेत्याशयेनाह-अवश्यश्चैतदेवमिति । तदेतदुत्तरं ग्रन्थकारो दर्शयति-यथा त्वमेवाति, एवञ्च कारकशक्तित एव 25 निर्वाहे समवायकल्पना निरर्थिकेति भावार्थः । समवायस्यैकत्वे सङ्करप्रसङ्गे उद्धाविते वैशेषिकेण संयोगैकत्वे आधाराधेयनियमाभाव आपादितः, कारकशक्तितश्चाधाराधेयनियमे प्रतिपादिते च वैशेषिकोऽपि तथैव नियममुपपादयिष्यन्नाह-न समानत्वादिति। अथ संयोगस्यैकत्वेऽपि यथा कुण्डदध्नोराश्रयाश्रयिभावनियमः शक्तिनियमात् तथा समवायस्यैकत्वेऽपि द्रव्यत्वादीनामाश्रयाश्रयिभावनियमो व्यङ्ग्यव्यञ्जकशक्तिभेदात् , घटप्रदीपवत् , नातः पदार्थसङ्करप्रसङ्ग इति यदुक्तं तन्निरसितुमाह यत्तुच्यत इति । व्यक्तिशक्तिनियमान्न सङ्कर इति दर्शयति व्यङ्ग्येति, द्रव्यत्वाद्यभिव्यञ्जिका शक्तिर्द्रव्यादावेव, व्यङ्ग्या च शक्तिव्यत्वादावेवेति नियमः, यथा 30 प्रदीप एव व्यञ्जको घट एव व्यङ्ग्य इति तयोर्द्रव्यद्रव्यत्वयोर्भद इति न सङ्कर इति भावः । समाधत्ते-आचार्यवचनन्त्विति ननु प्रदीपो घटश्च पृथक् पृथक् सिद्धोऽतः तयोर्व्यङ्ग्यव्यञ्जकभावनियमः स्यात् , द्रव्यं द्रव्यत्वञ्च न पृथक् सिद्धम् , खखात्मरूपत्वात्
१सि.क्ष. विरुद्धभावोचामिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org