________________
असङ्करप्रतिपादनम् ]
७१७
तान्यधुना सर्वगतानि प्राप्तानि ततोऽभ्युपगमविरोधो जायत इति, शेषपदार्थाभाव उच्यतेअतो द्रव्यगुणकर्मणामित्यादि प्राक्तन एव ग्रन्थो यावत् कर्मसु कर्मज्ञानमिति, तत्र व्यवस्थित लक्षणानामभावादिति लक्षणाभावद्वारेण निराकारणम्, इह तु व्यवस्थितानामभावादिति सह तत्त्वैर्लक्षणैश्च तेषां निराकृतत्वादिति विशेषः, आधेयज्ञानभेदनिमित्तनियम निराकरणद्वारेण चेति ।
यदपि कुण्डदधिसंयोगवद्द्रव्यादीनामाधाराधेयनियम इत्युक्तं तदपि नैव, कुण्डदध्या - 6 धाराधेयभावसमवायानामप्येकत्वात् तदवस्थः सङ्करदोषः, यद्यसङ्करेण नियमेन वाऽर्थो वयमेव स्पष्टतरं ब्रूमः समवायनिमित्तस्य तत्त्वस्य स्वत एवात्मप्रतिलम्भः, तयोश्च लोकसिद्धिवद्भेदः स्ववृत्तिप्रतिलम्भादेव, दधिकुण्डयोर्लो कसिद्धिवद्भेदाभावात् कारकशक्तित एव तु प्रतिपद्यते भेदसिद्धिः, तयोः संयोगैकत्वेऽप्याधारशक्तिः कुण्डस्य, आधेयशक्तिर्दभ इत्यसङ्कीर्ण आधाराधेय नियम इति, अवश्यश्चैतदेवं त्वयाऽपि प्रतिपत्तव्यं यथा त्वमेवात्र न समानत्वात् 10 इत्युत्तरमात्थ, समवायस्यैकत्वेऽपि कारकशक्तेरेव नियमभेद इत्युत्तरमात्थ द्रव्यत्वादिसमवायो न सर्वत्र किन्तु कस्मिंश्चिदेवेति ।
यदपीत्यादि, यदपि परेणोक्तं यथा कुण्डदधिसंयोगे दृध्येवाधेयं कुण्डमेवाधार इति नियमस्तथा द्रव्यमेवाधारो गुणकर्माद्येवाधेयम्, द्रव्यगुणकर्माण्येवाधारो द्रव्यत्वगुणत्वकर्मत्वान्येवाधेयानीति तदपि नैव, कुण्डध्याधाराधेयभावसमवायानामप्येकत्वात् - तत्रापि त्वन्मतेनाधारयोः usarai 15 कुण्डत्वदधित्वयोस्तत्त्वयोः, द्रव्यत्वादीनाञ्च तत्त्वानां ये समवायास्तेषामप्येकत्वात् समयभेदोपचरितभेदानामाञ्जस्येनैकत्वात् पूर्वोक्तविधिना तदवस्थः सङ्करदोषः, यद्यसङ्करेण नियमेन वाऽर्थः वयमेव स्पष्टतरं ब्रूमः, तद्यथा-समवायनिमित्तस्येत्यादि - समवायस्य यन्निमित्तं तत्त्वं कुण्डदघ्नोः कुण्डत्वं दधित्वञ्च तस्य स्वत
द्वादशारनयचक्रम्
,"
समवायस्यैकत्वे पदार्थानां द्रव्यादीनां व्यवस्थालक्षणैः तत्त्वैश्च न सम्भवतीत्यभावात् कथं द्रव्येषु द्रव्यज्ञानं गुणेषु गुणज्ञानं कर्मसु कर्मज्ञानं स्यादित्याह - अतो द्रव्यगुणकर्मणामिति द्रव्यादीनां लक्षणैस्तत्त्वैश्च व्यवस्थानाभावादित्यर्थः । द्रव्यादीनां पूर्व निरा- 20 कृतानां पुनरत्र कथं निराकरणमित्यत्राह तत्रेति, पूर्वत्रेत्यर्थः, - तयोर्गुणकर्मणोरित्यादिग्रन्थेन व्यवस्थितलक्षणाभावाद्रव्याद्यभाव उक्तः, इह तु अनेन स्वपक्षे प्रत्यक्षविरोध उद्भाह्यत इत्यादिना ग्रन्थेन तत्त्वानवस्थानैः लक्षणानुपपत्तिभिश्च द्रव्यादयो निराकृताः, एवमाधेयज्ञानमेदेन योऽयं नियमः तस्यापि निराकरणात् ते निराकृता इत्यर्थः । अथ कुण्डदभोः संयोगाविशेषेऽपि कुण्डमेवाधारो नदीत्याश्रयाश्रयिभावनियमस्तथा व्यङ्ग्यव्यञ्जकशक्तिभेदाद्रव्यत्वादीनामाश्रयाश्रयिभावनियमः, नहि द्रव्येण द्रव्यत्ववद् गुणत्वकर्मत्वाद्यप्यभिव्यज्यते, यथा घटप्रदीपयोर्व्यङ्ग्यव्यञ्जकशक्तिभेद इति पूर्वपक्षं दूषयति-यदपीति । व्याख्याति - यथेति स्पष्टा 25 व्याख्या । दूषकं हेतुमाह- कुण्डदध्याधारेति, भवन्मते हि समवाय एक:, तथा च कुण्डत्वदधित्वद्रव्यत्वादीनां समवायस्याविशेषात् सर्वं कुण्डदधिद्रव्यादिकं वस्तुत एकमेव, भेदस्तु सांकेतिक औपचारिक इति सांकर्यं दृष्टान्तेऽपि तदवस्थमेवेति कथमव्यवस्थितेन दृष्टान्तेन दान्तिकस्य व्यवस्था घटत इति भावः । यद्यसङ्करेण नियमेन वाऽस्ति प्रयोजनं तर्हि वयं ब्रूमः न त्वदुक्तविधिना स उपपद्यते, किन्तु तदित्थं विज्ञायतामित्याह-यद्यसङ्करेणेति । असङ्करं स्पष्टयति- समवायस्येति, यद्धि समवायस्य तत्त्वं सामान्यं दधित्वकुण्डत्वादिरूपं तत्स्वत एवात्मानं प्रतिलभते - खात्मानं दधिकुण्डादिरूपं प्रति प्राप्नोति, न तु 30 समवायात्, ते च कुण्डत्वदधित्वे लोकव्यवहारादेव भिन्ने, तथैव तद्वृत्तेः प्रतिलम्भादिति भावः । दधिकुण्डयोस्तु लोकेन यथा मेदो गृह्यते स्वत एव, न तु तत्त्वादिभिः यथाऽऽकाशकालयोस्तत्त्वभेदाभावेऽपि स्वत एव भेदस्तथा मेदो भवतु, तात्त्विकस्तु भेदो नास्ति दधिकुण्डयोः संयोगपरिणामेनैकत्वात् भेदव्यवहारस्तु औपचारिकः कारकशक्तिभेदात् एवञ्च धर्मस्य धर्मिणो वा स्वत
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org