________________
wwwammawwwm
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे द्रव्याभावः-गुणकर्मणोरुपलक्षणयोराश्रयिणोरभावाद्वाऽऽश्रयो द्रव्यं नास्ति, औष्ण्याभावेऽन्यभाववत् , उपलक्षणाभावात् खपुष्पवद्वा, तस्मिंश्चासति द्रव्ये निराश्रययोर्गुणकर्मणोरभावाव्यस्य चाभावादाश्रयिणां द्रव्यत्वादीनामप्यभावः, उक्तं हि 'उत्पन्नमाश्रयमाश्रयन्त्यायिणः' (वैशे०) इति, एवमेतानि द्विकसंयोगेन द्रव्य[स्य]गुणेन सह, कर्मणा च द्वे, गुणस्य द्रव्येण कर्मणा च सह द्वे कर्मणो द्रव्येण गुणेन च सह 5 द्वे इति षट् चक्राणि, द्रव्यत्वेन गुणस्य कर्मणश्च द्वे, गुणत्वेन द्रव्यस्य कर्मणश्च द्वे, कर्मत्वेन द्रव्यस्य गुणस्य द्वे इति षट्, एवं द्वादशचक्राणि, एवं द्रव्यत्वस्य कर्मणा गुणेन च, गुणत्वस्य द्रव्येण कर्मणा च, कर्मत्वस्य द्रव्येण गुणेन च षट् चक्राणि, द्रव्यस्य गुणत्वेन कर्मत्वेन च, गुणस्य द्रव्यत्वेन कर्मत्वेन च, कर्मणो द्रव्यत्वेन गुणत्वेन च षट् तान्यपि द्वादश, एवं द्विकसंयोगेन चतुर्विंशतिरनवस्थाचक्राणि भवन्ति । कस्मात् ? तथा कार्यकारणयोरित्यादि यावद्गुणस्येत्यादिरिति हेतुं व्याख्यातमेवोपनयति ।
आह___ ननु सर्वगतत्वात् समवायस्य स्वतत्त्वेनापि सम्बन्धात् द्रव्यभावः गुणभावः कर्मभावो वा सिद्ध्यतीत्यत्रोच्यते, नन्वत एव सङ्कर उच्यते, परतत्त्वेनापि सम्बन्धादतत्त्वमपीति सङ्करदोपाविमोक्षः, एवश्च स्वविषयसर्वगतानि हि तत्त्वानि, समवायस्य सर्वगतत्वे तान्यधुना सर्वगतानि
प्राप्तानीत्यभ्युपगमविरोधः, अतो द्रव्यगुणकर्मणां व्यवस्थितानामभावात् कथं द्रव्येषु द्रव्य15 ज्ञानं ? गुणेषु गुणज्ञानं ? कर्मसु कर्मज्ञानमिति ।
ननु सर्वगतत्वादित्यादि, समवायस्य सर्वगतत्वात् स्वतत्त्वेनापि सम्बन्धोऽस्ति, द्रव्यस्य द्रव्यत्वं स्वतत्त्वम् , एवं शेषयोरपि शेषद्वयम् , सर्वेण सह समवायसद्भावात् स्वेनापि तत्त्वेन सम्बन्धात्, तद्भावसूत्रं सत्त्वम् [?] द्रव्यभावो गुणभावः कर्मभावो वा सिद्ध्यतीत्यत्रोच्यते-नन्वत एव सङ्कर उच्यते, परतत्त्वेनापि सम्बन्धात्, अतत्त्वमपीति, इति शब्दो हेत्वर्थे, यस्मात् परतत्त्वेनापि सम्बन्धः तस्मात्तद्भा20 वोऽप्यतद्भावोऽपीति सङ्करदोषाविमोक्षः, अपिशब्देन त्वदुक्तेनैव समर्थितत्वात् , किश्चान्यत् दोषोपचयश्च-एवञ्च स्वविषयेत्यादि, स्वविषयसर्वगतानि हि तत्त्वानीष्यन्ते, तत्समवायस्य सर्वगतैकत्वाभ्यां
द्रव्यं उपलक्षणे गुणकर्मणीति तयोरभावे द्रव्यमपि नास्तीति भावः । आश्रय्यभावेन सदृष्टान्त आश्रयाभावमाह-आश्रयिणोरभावाद्वति । उपलक्षणाभावादुपलक्ष्याभावमाह-उपलक्षणाभावादिति । एवं द्विकसंयोगेन सम्भवीन्यनवस्थानानि दर्शयति
एवमेतानीति धर्मिणि धर्मिद्वयेन, धर्मिद्वये एकेन धर्मेण, एकस्मिन् धर्म धर्मिद्वयेन, एकस्मिन् धर्मिणि धर्मद्वयेनाव्यवस्थानानि 25 भवन्ति । ननु द्रव्यादौ गुणत्वादिसमवायवत् द्रव्यत्वादिसम्बन्धोऽप्यस्ति, समवायस्य खाश्रयावयवादिपञ्चपदार्थवृत्तित्वात् , तस्मान्न द्रव्यभावादिनिवृत्तिरिति व्याचष्टे-समवायस्येति खाश्रययावद्वृत्तित्वात् समवायस्येत्यर्थः, शेषयोरपि-गुणकर्मणोरपि गुणत्वं कर्मत्वं खतत्त्वमित्यर्थः । समाधत्ते-नन्वत एवेति स्वाश्रययावद्वृत्तित्वादेव खतत्त्वेन समवायसम्बन्धवत् खेतरनिखिलतत्त्वैरपि सम्बन्धात् द्रव्यादेः द्रव्यत्वादितत्त्ववदद्रव्यतत्त्वतापि प्रसज्यत इति सङ्करो दुर्वार एवेति भावः । इदं परतत्त्वसम्बन्धनं स्वतत्त्वेनापि
सम्बन्धादित्यत्रापिना त्वयैव प्रकटीकृतमित्याह-अपिशब्देनेति। दोषान्तरमाह-किश्चान्यदिति, त्वन्मते सामान्य स्वविषयसर्व30 गतमिष्टम्, न तु सर्वसर्वगतम् , यत्सामान्यं यत्र वर्तते सः स्वविषयः, तज्जातीये सर्वस्मिन् गतं स्वविषयसर्वगतम् , सर्वसर्वगतत्वन्तु
खरूपतः सर्वदेशसम्बद्धत्वम् , समवायो यद्येकः सर्वगतश्च तदा तत्त्वानामपि सर्वगतत्वं प्रसक्तमिति स्वाभ्युपगमविरोधदोष इति भावः ।
१ सि.क्ष. तश्चादित्यादि । २ सि. क्ष. हे. तद्भावसूत्रं । ३ सि. क्ष. डे. सर्वगतैत्वाभ्यां ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org