________________
mammmmmmmmmmmmmmm
धर्मद्वयाश्रयेण व्याख्या] द्वादशारनयचक्रम्
७१५ संयोगे, दधिकुण्डमेव मधुकुण्डमेवोदककुण्डमेवेति, एकत्वात् संयोगस्य सर्वेणापि सम्बन्धात् तथात्रापि यो द्रव्यभावेन सम्बन्धः स एव गुणस्यापीत्येतस्मात् कारणात् प्राप्तं गुणत्वं-द्रव्यस्यापि गुणभावः, द्रव्यं गुणो भवतीत्यर्थः, गुणत्वाभिसम्बन्धाच्च तस्य द्रव्यभावहानिः, एवं गुणभावापत्तौ द्रव्यभावो हीयत इति पररूपतामापाद्य स्वरूपत्यागमापादयति, तस्येत्यादि व्याख्यानसाधनं यावन्निवृत्तिः, द्रव्यं गुणभावेन सम्बद्धत्वात् त्यक्तद्रव्यभावं गुणवदिति एवं तावद्व्यस्य गुणत्वापत्तिर्द्रव्य[त्व]त्यागश्च द्वे अ]- 5 नवस्थाने, तस्य द्रव्यस्येत्यादि, तद्रव्यं गुणभावेन सम्बद्धमतो गुणभूतं नाश्रयो गुणान्तरस्येति ट्रॅव्यानाश्रितस्य च गुणस्याभावस्ततो गुणानाश्रयस्य द्रव्यस्याप्यभावः, तदभावादसति द्रव्ये कस्य गुण इति गुणभावनिवृत्तिर्गुणस्य, तल्लक्षणानुपपत्तेः, क्रियावदित्यादिसूत्रद्वयेन लक्षणं दर्शयति, ततश्चेत्याधुद्दिष्टार्थोपनयः, किं कारणमित्यादि कारणप्रश्नपूर्वके पूर्ववदत्रापि द्रव्यत्वापत्तिगुणत्वत्यागौ द्वे अ[न]वस्थाने । तथा
10 योऽयं गुणस्य कर्मत्वेन सम्बन्धः स एव द्रव्यस्यापीति प्राप्तं गुणस्य कर्मणश्च द्रव्यत्वम् , द्रव्यत्वाभिसम्बन्धाच्च तयोर्द्रव्यत्वापत्तिः गुणकर्मभावत्यागश्च, तस्य द्रव्यस्य गुणभावेन कर्मभावेन च सम्बद्धत्वात् गुणभूतस्य कर्मभूतस्य च गुणक्रियानाश्रयस्याभावः, असति द्रव्ये कस्य गुणः कर्म वेति न गुणकर्मणी तथा लक्षणे, तयोरलक्षणत्वादसत्त्वात् आश्रयोपलक्ष्यद्रव्याभावः, तस्मिंश्चासति निराश्रययोर्गुणकर्मणोरभावाव्यस्य चाभावादाश्र-15 यिणां द्रव्यत्वादीनामप्यभावः, तथा कार्यकारणयोः............गुणस्येत्यादिः।
योऽयं गुणस्य कर्मत्वेनेत्यादि कर्मणा सह पररूपापत्तिः स्वरूपत्यागश्च द्वे अनवस्थाने लक्षण[]योगद्वारेण सेव्याख्याने गतार्थे यावन्न गुणकर्मणी तथा लक्षणे इति लक्षणाभावापादनम् , तयोर]लक्षणत्वादसत्त्वात्-तयोर्गुणकर्मणोरलक्षणत्वात् असत्त्वं खपुष्पवत्, तदसत्त्वादाश्रयोपलक्ष्यकुण्डगतानां दधिमधूदकादीनां संयोगस्यैकत्वे यथाऽस्यैवायं संयोग इति नियमयितुं न शक्यते दधिमध्वादीन् मिश्रीभावापन्नत्वेन 20 विवेचयितुमशक्यत्वात् , तदशक्त्या दधिकुण्डमेवेदं मधुकुण्डमेवेदमिति न नियमः तथैवायं समवायो द्रव्यस्यैव न गुणादेरिति नियमासम्भवात् द्रव्यसमवाय एव गुणसमवाय इति कृत्वा तत्सम्बन्धा व्यस्य गुणत्वात् द्रव्यत्वं निवर्तत एवेति पररूपतापत्तिरिति भावः । एवं पररूपापत्तौ स्वरूपस्य त्याग इत्याह-गुणत्वाभिसम्बन्धाच्चेति । एवं तावत् द्रव्यस्य गुणत्वापत्तिरेकमनवस्थानम् , द्रव्यत्वत्यागश्चापरमित्यनवस्थानद्वयमापादितमित्याह-एवं तावदिति । प्रोक्तविधयैव गुणस्यापि द्वे अनवस्थाने दर्शयति-तस्य द्रव्यस्येति । व्याचष्टे-तव्यमिति, समवायस्यैकत्वात् द्रव्यं गुणत्वेन सम्बद्धं सत् गुणात्मकमतो गुणाना-25 मनाश्रयत्वान्न तदस्ति, तदभावे गुणोऽनाश्रितः, ततश्च द्रव्याश्रय्यगुणवान् इत्यादिगुणलक्षणानुपपत्तेः गुणाभावः, एवञ्च गुणेषु गुणज्ञानं न स्यात् , द्रव्यमित्येव तु ज्ञानं स्यात् , द्रव्यज्ञानहेतोः समवायस्य द्रव्य इव गुणेष्वप्यविशिष्टत्वात् , एकत्वे हि समवायस्य य एव गुणत्वसमवायः गुणेऽस्ति स एव द्रव्यत्वस्यापि समवाय इति गुणेषु द्रव्यज्ञानकारणसमवायसत्त्वात् द्रव्यत्वं प्राप्तम् , तथा च सम्बन्धसत्त्वाद्र्व्यत्वापत्तिगुणानां गुणत्वत्यागश्चेति गुणाश्रये द्वे अनवस्थाने भवत इति भावः । एवं द्रव्यस्य कर्मत्वापत्तिद्रव्यत्वत्यागश्च कर्मणश्च द्रव्यत्वापत्तिः कर्मत्वत्यागश्चोक्तवदेव भाव्यः, तदेवमेकैकधर्मापादानद्वारेणाव्यवस्थानमुपदर्य धर्मद्वयसंयोगेना-30 व्यवस्थामाख्याति-योऽयमिति । व्याचष्टे-कर्मणा सहेति, कर्मणा सह गुणस्य द्रव्यत्वापत्तिः गुणकर्मभावत्यागश्चेत्यर्थः, कर्मत्वसमवायस्य द्रव्यवत् गुणेऽपि सत्त्वात् योऽयं गुणस्य कर्मत्वेन सम्बन्धः स एव द्रव्यस्यापीत्यापादनमत्र बोध्यम् , शिष्टं सर्व पूर्ववदविशिष्टम् , अतोऽतिदिशति-लक्षणायोगद्वारेणेति । आश्रयेति आश्रयो द्रव्यम् , आश्रयिणी गुणकर्मणी तथोपलक्ष्य
१ सि.क्ष. द्रव्यमना० । २ सि. क्ष. संस्थाने ।
meww
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org