SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ७१४ न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे यत्त्विदं स्वतत्त्वानुरूपप्रत्ययोत्पत्तेः परस्परव्यतिरिक्तैराधेयैव्यत्वादिभिराधाराणां द्रव्यादीनां नियमनं द्रव्येष्वेव द्रव्यमिति ज्ञानमित्यादि, अनेन स्वपक्षे प्रत्यक्षविरोध उदाह्यते त्वया, न हि समवायस्यैकत्वे व्यतिरेको नियमश्वास्ति, अविशिष्टत्वादतो न स्यात् द्रव्येष्वेव द्रव्यमिति ज्ञानम्-एवं ते द्रव्येष्वपि गुणज्ञानं स्यात् , गुणज्ञानकारणत्वात् समवायस्य, गुण5 वत्, एकत्वे योऽयं द्रव्यस्य द्रव्यभावेन सम्बन्धः स एव गुणस्यापीति प्राप्तं द्रव्यस्यापि गुणत्वम् , तस्य गुणभावेन सम्बद्धत्वाद्गुणवत् द्रव्यभावनिवृत्तिरिति । तस्य द्रव्यस्य गुणभावेन सम्बद्धत्वाद्गुणभूतस्य गुणानाश्रयस्याभावः, असति द्रव्ये कस्य गुण इति गुणभावनिवृत्तिः तल्लक्षणानुपपत्तेः क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणम् द्रव्याश्रय्य गुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणमिति, ततश्च गुणेष्वपि द्रव्यज्ञानं 10 स्यात् किं कारणम् ? द्रव्यज्ञानकारणत्वात् समवायस्य, द्रव्यवत् , एकत्वे योऽयं गुणस्य गुणभावेन सम्बन्धः स एव द्रव्यस्यापीति प्राप्तं गुणस्यापि द्रव्यत्वम् , द्रव्यत्वाभिसम्बन्धाच्च तस्य द्रव्यत्वापत्तिगुणत्वत्यागश्च द्वे अनवस्थाने। यत्त्विदमित्यादि परोक्तमेव ग्रन्थमतिदिशति यावज्ज्ञानमित्यादि, द्रव्यादीनामाधाराणां द्रव्यत्वादिभिराधेयैः परस्परव्यतिरिक्तैर्विशेषणैर्नियमो भवति, स्वतत्त्वानुरूपप्रत्ययोत्पत्तरिति, अत्रोच्यते15 अनेन स्वपक्षे प्रत्यक्षविरोधः उद्बाह्यते त्वया, कथम् ? न हीत्यादिना भावयति, हिशब्दो हेत्वर्थे, यस्मात् समवायः एकः तस्माईव्यादेः द्रव्यत्वादिभिरविशिष्टत्वात् व्यतिरेको नियमश्च नास्ति, अतो द्रव्येष्वेव द्रव्यमिति ज्ञानं न स्यात् , तस्य व्याख्या एवमित्यादि-एवं ते समवायैकत्वे द्रव्येष्वपि गुणज्ञानं स्यादविशिष्टत्वात् , गुणेष्विव, अपिशब्दात् कर्मस्वपि, किं कारणम् ? गुणज्ञानकारणत्वात् समवायस्य, किमिव ? गुणवदिति, गुणेष्विव गुणवदिति साधनं, तदेव व्याचष्टे-एकत्वे योऽयमित्यादि यावत् द्रव्यस्यापि 20 गुणत्वम् , यदि दधिमधूदकादीनां कुण्डसङ्कीर्णानामविवेके नियमेनायमस्यैव स्वभाव इत्यशक्यमवधारयितुं नुरूप एव प्रत्ययो द्रव्यमिदं न गुणः न कर्म वा, गुणोऽयं न द्रव्यं न कर्म वेत्यादीति शङ्कते-यत्त्विदमिति । तदेव व्याचष्टेपरोक्तमेवेति, वैशेषिकोक्तमेवेत्यर्थः, सद्रूपतया पदार्थाविशेषेऽपि विलक्षणनिमित्तसापेक्षविलक्षणप्रत्ययाः अविसंवादिनः अनुभूयन्त इति यं विशेषमवलम्ब्य पदार्थे इदं द्रव्यं अयं गुणः इदं कर्मेत्यादिविलक्षणविशिष्टबुद्धयो भवन्ति ताः विशेषणीभूतधर्मनिमित्ता इति अविशिष्टमपि विशेष्यं द्रव्यत्वादयो विशेषणभूता धर्मा द्रव्यमिदं गुणोऽयं कर्मेदमित्येवं नियमयति सम्बन्धस्यैकत्वेऽपीति 25 भावार्थः । तदेवं प्रतिपादनमेव खसिद्धान्ते प्रत्यक्षविरोधमुद्भावयति, न हि सम्बन्धस्यैकत्वे न सर्वत्र सत्त्वे सम्बन्धिनोऽसत्त्वं सम्भवति, तथा च द्रव्यत्वस्यापि सर्वत्र सत्त्वात् , व तस्यासत्त्वम् ? यतः स्वसम्बन्धादाधारं ततो नियमयेत्, तन्नियतत्वाच्च विलक्षणा प्रतीतिर्भवेत् , तथा तु नास्ति, अतो द्रव्यत्वसमवायस्य सर्वत्र सत्त्वेन इदमेव द्रव्यं नेदमिति विशिष्टं ज्ञानं नैव स्यादित्याशयेनाह-अनेन स्वपक्ष इति, अविशिष्टत्वात्-सर्ववस्तुसाधारणत्वात सर्वत्र द्रव्यत्वबुद्धिः स्यात्, न तु द्रव्य-एवेति भावः । अन्यज्ञानमापादयितुं व्याचष्टे-एवं त इति द्रव्येऽपि गुणज्ञानं स्यात् , यथा गुणेषु गुणज्ञानं भवति, तन्निमित्तं हि गुणत्वं तत्सम30 वायश्च द्रव्येऽप्यस्ति, समवायस्यैकत्वादिति भावः । हेतुमाह-गुणज्ञानकारणत्वादिति, गुणविषयकज्ञानकारणसमवायस्य गुणेष्विव द्रव्यादिष्वपि सत्त्वादिति भावः । गुणज्ञानकारणत्वं समवाये भवतु नाम तेन द्रव्यस्य किमित्यत्राह-एकत्व इति, १ सि. क्ष. येत्त्विद० । २ सि.क्ष. डे. व्यादिद्र० । ३ सि.क्ष. डे. ग्रहणेष्विव । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy