________________
समवायानित्यता] द्वादशारनयचक्रम्
७१३ गाद्वैधर्म्यमुच्यते सर्वत्रैव च द्रव्यद्रव्यत्वादिसमवाये द्विवृत्तित्वं त्वयैवोपवर्ण्यते, द्वयविशिष्टाभिधानप्रत्ययत्वात् कुण्डदध्यादिसंयोगवत् , यथा कुण्डदनोः संयोगे दना कुण्डेन वा विशिष्टे तन्निमित्तमभिधानं प्रत्ययश्च दृश्यते तद्विवृत्तित्वञ्च तथा समवायेऽपि द्रव्यगुणयोः विशिष्टे तन्निमित्तमभिधानं प्रत्ययश्च स्यात् तद्विवृत्तित्वञ्च, तथा च समवायस्य संयोगवत् द्विवृत्तित्वादनित्यतैव ।
यत्तूच्यतेऽवगम्यतां तावदित्यादि, इदं तस्य दोषपरिहारप्राणसर्वस्वमन्वयव्यतिरेकाभ्यां नियमातिप्रसङ्ग[7]भावगतं गतार्थं यावत् समवायैकत्वेऽप्याधाराधेयनियमः स्यादिति, आचार्य आहइदमपीत्यादि, स्ववादेनैवोत्तरमार्गो विहितोऽस्य त्वया-इहेदमित्यादिना समवायलक्षणं व्याचक्षाणेनाधाराधेयसम्बन्धज्ञानलक्षणत्वात् कार्यकारणयोश्चाधाराधेयभावसम्बन्धिनोः कुण्डदधिदृष्टान्तेन च सुभावितोऽयमर्थः, तेनैव वयं ब्रूमः-न तु तथेत्यादि, न तु तथा सङ्कराभावो घटते उक्तप्रकारेण, कुण्डदधिसंयोगह- 10 ष्टान्ते यदि दधिमधू [द]कादिभिः बहुभिराधेयैः कुण्डाधारः संयुक्तो भवति ततः किमिति सङ्करो नास्ति ? तथा यदि सर्वात्मकः समवायो द्रव्यगुणकर्मद्रव्यत्वगुणत्वकर्मत्वसत्ताद्याधार एक एव भवति तदा किमिति संकरो न स्यात् ? नापि च द्विवृत्तित्वनिवृत्तिः समवायस्य, यतः संयोगाद्वैधर्म्यमुच्यते त्वया द्वयोर्द्वयोरित्यादिना, तत्र साधनं सर्वत्रैव च द्रव्यद्रव्यत्वादिसमवाये द्विवृत्तित्वं त्वयैवोपवर्ण्यते, साधयामश्चैतहिवृत्तित्वं सम्बन्धे द्वयविशिष्टाभिधानप्रत्ययत्वात् , कुण्डदध्यादिसंयोगवत् , यथा कुण्डदध्नोः संयोगे विशिष्टे 15 तन्निमित्तमभिधानं प्रत्ययश्च दृश्यते दधिकुण्डं कुण्डदधि वेति तद्विवृत्तित्वश्च तथा समवायेऽपि द्रव्यगुणयोरित्यादिद्विवृत्तित्ववर्णनम् , तस्मात्त्वत्पूर्वपक्षितदोषासङ्गस्तदवस्थः समवायस्येत्यत आह-तथा चेत्यादि यावदनित्यतैवेति गतार्थम् । व्यतिरेकः-द्रव्यत्वादिनिमित्तानां गुणादावभावः । इदमेवोक्तदोषपरिहारप्राणसर्वस्वं तव पूर्वपक्षे इति दर्शयति-इदं तस्येति । उत्तरयति-इदमपीति । इहेद मित्यादिनेति, इहेदमिति यतः कार्यकारणयोः स समवायः इति सूत्रम् , कार्यकारणयोरित्य- 20 नेनाकार्यकारणयोरपि ग्रहणम् , असम्बद्धयोरविद्यमानत्वमयुतसिद्धिः, तत्र, इह कुण्डे दधि, इह कुण्डे बदराणीतिवत् इह तन्तुषु पट इह वीरणेषु कटः, इह द्रव्ये गुणः कर्म वा इह गवि गोत्वमितीहबुद्धिरुत्पद्यते, सेयं तन्त्वादिपटादेरिव सम्बन्धमन्तरेण नोत्पतुमर्हति, तस्मात् प्रतिनियताधिकरणतयैव समवायोऽनुमीयत इति त्वदीयव्याख्यानेनैवोत्तरं विधातुं मार्गों विहित इति भावः । कुण्डदधिदृष्टान्तेनाधाराधेयनियम एकसमवायत्वे य उच्यते तन्नोक्तप्रकारेण घटते तेन च सङ्करो दुर्वार एव, न ह्यनेकनिरूपितत्वे
वायस्य प्रसक्तसङ्करदोषव्यावर्तनायाधाराधेयनियम साधयितुं द्विनिरूपितसंयोगदृष्टान्तो घटते, अनेकनिरुपितविषयः सङ्कर-23 दोषवियुतश्च यदि दृष्टान्तः स्यात् , स्यान्नामाधाराधेयनियमतः सङ्करदोषाभावः, तथा तु नास्तीत्याशयेनाह-न तु तथेति, अनेकनिरूपितसंयोगसंभावनया संकरमाह-यदीति। न वा समवायस्य द्विवृत्तित्वनिवृत्तिः घटते संयोगवैध\ण, द्वयोयोरेव विशिष्टाभिधानप्रत्ययदर्शनात् , तथा त्वयाऽपि तत्र तत्र द्वयोरेव समवायप्रदर्शनाच्चेत्याह-नापि चेति । द्विवृत्तित्वं समवायस्य साधयाम इत्याह-साधयामश्चेति, यत्त्वया समवायस्य द्विवृत्तित्वमुपवर्ण्यते तदेव वयं समवाये साधयाम इत्यर्थः । दृष्टान्तदार्टान्तिकयोहेतुसाध्ये घटयति-यथेति । एवञ्च द्विवृत्तित्वसिद्धौ संयोगदृष्टान्तेन तस्याप्यनित्यत्वमित्याह-तथा चेति । अथ 30 समवायस्यैकत्वेऽपि द्रव्यत्वगुणत्वादीनां विशेषणानामाधेयानां महिम्नैवाधाराणां द्रव्यादीनां नियमो भवति, उत्पद्यते हि स्वतत्त्वा
१ सि.क्ष. भ्यामनि। २ सि.डे. 'यित्वात्वेषाधारा० । ३ सि.क्ष. भावाः स०।४ सि.क्ष. यदसर्वा । ५ सि.क्ष. सर्वत्रवावद्रव्यः ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org,