________________
७१२
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे आधाराधेयभावेन भेदे सति संयोगवद्विवृत्तित्वात् समवायस्य, ततश्चानित्यत्वं स्यादिति पूर्वपक्षं कृत्वा परिहारमाह वैशेषिको-न, बहूनामेकत्वात्-बहूनां द्रव्यादीनामेकः समवाय इति स्वरूपवर्णनं द्विवृत्तिप्रतिषेधार्थम् , न तु द्वयोर्द्वयोरित्यादिसंयोगेन वैधयं गतार्थं यावत् समवायस्येति, आचार्य आह-एतेनापीत्यादि, एतेन अनित्यत्वपरिहारवचनेनापि सङ्करप्रसङ्गः, सामान्येन व्यवस्थानाभावात् , सर्वत्र सर्वाधेयवृत्तौ 5 सर्वाभिधानप्रत्ययसङ्करः, विशेष्य च पदार्थलक्षणव्यवस्थानासम्भवात् षट् पदार्थनिवृत्तिवेत्यादिरुक्तस्तदवस्थ एव दृढीकृतः, बहूनामेकसमवायाभ्युपगमात् , ततः सङ्करादुक्तात् षडपि पदार्था निवर्तिताः, तन्निवृत्ती समवाय्यभावात् समवायनिवृत्तेस्तस्यासतः खपुष्पस्येव कुतो नित्यत्वमनित्यत्वं वा ? यत्तु प्रत्युक्तमित्यादि सङ्करदोषस्य यदुत्तरमुक्तं न, आधाराधेयनियमादिति, यद्यप्येक इत्यादि तद्वयाख्या यावत् कर्मण्येव कर्मत्वमिति, सर्वत्र चैकः समवाय इत्यनेन द्विवृत्तित्वपरिहारेणानित्यत्वमपि परिहृतमिति वैशेषिकः, आचार्य 10 आह-एतदपि प्रत्युक्तमित्यादि गतार्थं यावत् प्रतिनियतानीति द्विवृत्तित्वमेवास्येति च वक्ष्यति ।
यत्तूच्यतेऽवगम्यतां तावत् यथा कुण्डदधिसंयोगे दध्येवाधेयं कुण्डमेवाधार इति नियमस्तथा द्रव्यादीनां समवायैकत्वेऽप्याधाराधेयनियमः स्यादिति, इदमपि स्ववादेनैवोत्तरमार्गविधानं कृतं त्वया, न तु तथा सङ्कराभावो घटते, यदि दधिमधूदकादिभिर्बहुभिराधेयैः
कुण्डाधारः संयुक्तो भवति ततः किमिति सङ्करो नास्ति ? यदि सर्वात्मकः समवाय एक एव 15 भवति तदा किमिति संकरो न स्यात् ? नापि च द्विवृत्तित्वनिवृत्तिः समवायस्य, यतः संयो
धभावादाश्रयाभावात् सामान्यादीनामभावे षट्पदार्थनिवृत्तिरिति भावः। बहूनामेकः समवायः, न तु संयोगवत् द्वयोर्द्वयोः तथा सति संयोगवदेवानित्यत्वं स्यादिति वैशेषिकमतमाशङ्कते-आधाराधेयेति, आधाराधेयभेदेन समवायस्य भेदे द्विवृत्तित्वात् संयोगो यथाऽनित्यस्तथाऽयमपि स्यादिति पूर्वपक्षं विधाय प्रशस्तमतिराह नैवं भेदः समवायस्य, बहूनामेकत्वाभ्युपगमेन
संयोगवैधात् नानित्यत्वमिति भावः । अनेनाप्यभ्युपगमेन सङ्करप्रसङ्गो दुर्वार इत्याचार्य आह-आचार्य इति । सामान्येनेति 20 सम्बन्धविशेषेण सामान्यतः प्रतिनियतपदार्थानां प्रतिनियतधर्मिषु प्रसिद्धौ सत्यां विशिष्य पदार्थानां लक्षणाद्यभिधानं भवेत् , सा
च प्रसिद्धिर्नास्ति तव मते बहूनां समवायाङ्गीकारेणाधेयानां सर्वेषां निखिलेषु अधिकरणेषु वृत्तेविशेषणसम्बन्धप्रयुक्ताभिधानाना द्रव्यगुणकर्मादीनां सर्वाभिधानाभिधेयप्रसङ्गतः सांकर्यात् कथं प्रतिनियतानि लक्षणानि भवेयुः, अतो लक्षणव्यवस्थाभावात् षट् पदार्था इति व्यवस्था न स्यादिति भावः । न च समवायोऽस्त्येवेति कथं षट्पदार्थनिवृत्तिरित्यत्राह तन्निवृत्ताविति, द्रव्यादिपञ्चपदार्थनिवृत्तौ समवायाश्रयाभावात् समवायोऽपि नास्ति, तस्मात्तन्नित्यत्वादिशङ्कापि निराधारेति भावः । नन्विहबुद्धिज्ञाप्यो हि 25 समवायः, इहबुद्धिश्च प्रतिनियता दृश्यते तदनुपपत्त्या कल्प्यमानो हि समवाय एको वा स्यादनेको वा तदविरोधेनैव कल्पनीयः,
नहि प्रमाणं यादृशं प्रमेयं तद्विरुद्ध नाम, इहबुद्धिश्च द्रव्यं गुणकर्मसामान्याधारतयैव विषयीकरोति न तु गुगत्वकर्मत्वाद्याधारतया द्रव्यत्वानाधारतया वा, गुणकर्मसामान्यानि च द्रव्याधेयतयैव विषयीकरोतीत्याधाराधेयनियमात् समवायस्य बहूनां सम्बन्धत्वेऽपि न सङ्कर इति वैशेषिकशङ्कां दर्शयति-यदुत्तरमुक्तमिति । तदेवमाधाराधेयनियमात् सङ्करानुपपत्तौ न समवायस्य द्विवृत्तिसम्बन्धत्वम् , संयोगवदनित्यत्वप्रसङ्गादपि तु एक एवेति आशयं वैशेषिकस्य सूचयति-सर्वत्र चैक इति । अत्र वैशेषिको 30 ननु समवायो यद्येकः तदा द्रव्यत्वादीनां सङ्करप्रसङ्गः गुणत्वादिसमवायस्य द्रव्ये सम्भवादित्याशयाधाराधेयनियमादेवासङ्करः,
यद्यपि द्रव्यत्वगुणत्वकर्मत्वसमवाय एकः तथापि तेषां न द्रव्यमाधारः, तत्र तेषामप्रतीतेः, द्रव्येष्वेव हि द्रव्यत्वं प्रतीयते गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वं नान्यत्रेत्यन्वयव्यतिरेकदर्शनादेव नियमः, यथा कुण्डदनोः संयोगाविशेषेऽपि कुण्डमेवाधारो न दधीत्याश्रयाश्रयिभावनियम इति ज्ञाप्यज्ञापकसामर्थ्य विशेषादेवात्रापि नियम उपपत्स्यत इत्याह तदेतन्मतमेवात्र संक्षेपतो निबनाति-यत्तुच्यत इति । नियमोऽतिप्रसङ्गाभावश्चान्वयव्यतिरेकाभ्याम् , अन्वयः-इहज्ञानस्य सर्वत्राविशेषः, तेनैकसमवायसिद्धिः,
१ . न तु द्वयोरि०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org