________________
द्रव्याद्यभावसमर्थनम्]
द्वादशारनयचक्रम् सन्त्येवेदृग्लक्षणानि गुणकर्माणि, तेषामाश्रयिणां समवायिनामभावात्तन्निवृत्ती द्रव्यस्यापि द्रव्यभावनि. वृत्तिः,-गुणवत्समवायिकारणं क्रियावदद्रव्यमनेकद्रव्यं वा द्रव्यं स्यात् , तच्चेत्थं नाद्रव्यं नानेकद्रव्यं सम्भवति, तस्माद्गुणकर्मणां गुणकर्मभावनिवृत्तौ द्रव्यभावसम्बन्धेऽसति गुणकर्मणामनाश्रयत्वाद्रव्यस्य द्रव्यभावनिवृत्तिरिति द्रव्यपदार्थनिवृत्तिरुक्ता, अथवा त्वदिष्टेन द्रव्यत्वेन सर्वगतेन सम्बन्धे सति गुणस्य कर्मणो वा द्रव्यं द्रव्यत्वेनासम्बद्धमिति द्रव्याभावः, तद्भावाद्गुणकर्मणी न द्रव्याश्रिते, ततो द्रव्यलक्षणा- 5 युक्तेर्द्रव्यभावनिवृत्तिः, किं द्रव्यलक्षणमिति चेदुच्यते क्रियागुणवत्समवायिकारणमिति, तत्तु कार्यकारणाधाराधेयसमवायस्यैकत्वात् गुणकर्मणोर्द्रव्यभूतत्वात् क्रियावल्लक्षणं नास्ति यस्मान्न तु गुणकर्माणि तथा लक्षणानीति-गुणस्य द्रव्याश्रयादिलक्षणत्वात् , एकद्रव्यादिलक्षणत्वात्कर्मणः, एवं स्खलक्षणाभावापेक्षा द्रव्यस्य द्रव्यभावनिवृत्तिः, गुणकर्मलक्षणायुक्तेरिति, ततश्च द्रव्यस्यापीत्यादि, आश्रयाभावाद्गुणकर्माभावमापाद्य आश्रय्यभावेऽपि द्रव्यस्याश्रयस्याभाव इति गतार्थम् , एवं गुणकर्मणोरपि गुणकर्मलक्षणाव्यवस्थानात 10 गुणकर्मभावनिवृत्तिरुक्ता वेदितव्या, एवं तावद्र्व्यगुणकर्मणां व्यवस्थितलक्षणाभावात् निवृत्तिः ।
तथा
द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादीनामाश्रयाभावादनुपपत्तिः, परस्पररूपापत्त्या परस्परभावनिवृत्तौ द्रव्यादिषट्पदार्थनिवृत्तिः, यच्चाधाराधेयभावभेदे संयोगवविवृत्तित्वात् समवायस्यानित्यत्वं स्यादिति पूर्वपक्षं कृत्वा परिहारमाह वैशेषिकः, न, बहूनामेकत्वात् , न तु 15 द्वयोर्द्वयोः सम्बन्धत्वं संयोगवत् समवायस्येति, एतेनापि सङ्करप्रसङ्गः, पदार्थलक्षणव्यवस्थानासम्भवात् षट्पदार्थनिवृत्तिवा, यत्तु प्रत्युक्तं नाधाराधेयनियमात्-यद्यप्येक एव समवायः तथाप्याधाराधेयनियमोऽस्ति द्रव्य एव द्रव्यत्वं गुण एव गुणत्वं कर्मण्येव कर्मत्वं सर्वत्र चैकः समवाय इति एतदपि प्रत्युक्तं सर्वत्र सर्वाधेयवृत्तौ सर्वाभिधानप्रत्ययसांकर्यात् कथं द्रव्यादीनि प्रतिनियतानीति ।।
द्रव्यगुणेत्यादि, द्रव्यत्व[गुणत्व] कर्मत्वादीनामाश्रयाभावादनुपपत्तिः सामान्यविशेषाणाम् , आदिग्रहणात् सत्तायाः, तद्व्याचष्टे-परस्परेत्यादि भावितार्थं यावत् षट्पदार्थनिवृत्तिरिति, यच्चेत्यादि,
20
Amwwww
त्त्वादिलक्षणलक्षितं द्रव्यमद्रव्यं वा स्यादनेकद्रव्यं वा, उभयमपि नास्तीति प्राह-गुणवदिति । निगमयति द्रव्यपदार्थनिवृत्त्यपपादनम्-तस्मादिति । प्रकारान्तरेण व्यतिरेकतो धर्मयोगात् निरूपयति-अथवेति, सर्वगतस्य द्रव्यत्वस्य सम्बन्धाद्वगकर्मणी द्रव्यम्, न तु द्रव्यं, द्रव्यत्वेनासम्बन्धात् , अत एव ते न द्रव्याश्रिते इति द्रव्यलक्षणाभावात् द्रव्यं नास्ति, क्रियावत्त्वं गुणवत्त्वं 25 हि द्रव्यलक्षणम् , उक्तवत् क्रियागुणयोर्द्रव्यत्वान्न लक्षणमिति भावः। तथा गुणकर्मणोरपि नास्ति तल्लक्षणं तयोरन्यलक्षणत्वादित्याह-यस्मान्न विति, द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् , एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् , गुणकर्मणोश्च द्रव्यत्वान्नैते लक्षणे सम्भवतः, एवं लक्षणाभावाव्यभावनिवृत्तिरिति भावः । उक्तरीत्या लक्षणाभावादाश्रयस्य द्रव्यस्याभावे गुणकर्मणोरभाव इत्याह-आश्रयाभावादिति । द्रव्यभावनिवृत्तिप्रतिपादनादेव गुणकर्मभावनिवृत्तिरपि फलितैवेति द्रव्यगुणकर्मनिवृत्तिः सिद्धेत्याह-एवं गुणकर्मणोरपीति । द्रव्यादीनामभावमाह-द्रव्य-30 गुणेति । तत्कथमित्यत्राह-परस्परेति द्रव्यादीनां परस्परेषां गुणत्वकर्मत्वादिपरस्परधर्मसम्बन्धापत्त्या द्रव्यत्वादिनिवृत्तौ द्रव्या
१ सि.क्ष. क्रियावदलक्षणं ।
द्वा० न० १३ (९०)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org