________________
७१०
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे निवर्तन्त इति । कथमित्यादि, व्याख्या समवायस्यैकत्वात् द्रव्यत्वेन गुणकर्मणोः सम्बन्धाद्व्यत्वात तयोश्च स्वरूपस्य गुणत्वस्य कर्मत्वस्य च हानिरिति दोषौ, तत्त्वविशेषणभेदाद्धि तद्भेदः स्यात् , छत्रिदण्डिवदिति वैधHदृष्टान्तः-छत्रविशिष्टः छत्री, दण्डविशिष्टो दण्डी, न तथेह द्रव्यत्वस्य कश्चिद्भेदोऽस्ति ।
__कार्यकारणाधाराधेयसमवायात्तौ गुणकर्मभावौ भविष्यत इति चेत् , न, तयोर्गुणकर्मणो5 गुणकर्मभावनिवृत्त्या प्रथमद्रव्यभावनिवृत्तिः, तद्यथा य उक्तः कार्यकारणाधाराधेयसमवायात्तस्यैकत्वात् स द्रव्यभावेन सम्बन्धात्ते द्रव्यमेवैकं करोति, ततश्च द्रव्यलक्षणं नास्ति, क्रियावगुणवत् समवायिकारणमिति, तदभावान्न द्रव्यम् , न गुणकर्माणि तथा लक्षणानीति द्रव्यस्यापि द्रव्यभावनिवृत्तिः, एवं गुणकर्मणोरपि ।।
कार्यकारणेत्यादि, कारणमाधारश्च द्रव्यम् , आधेये कार्ये च गुणकर्मणी, तयोभिन्नयोः 10 कार्यकारणयोराधाराधेययोश्च समवायात्तौ गुणकर्मभावौ भविष्यत इति चेत्- एवञ्चेत् मन्यसे मा संस्थाः,
अत्रोत्तरं तयोर्गुणकर्मणोरित्यादि यावत् प्रथमद्रव्यभावनिवृत्तिरिति तावदुपदेशवचनम् , उपरितनो ग्रन्थस्तव्याख्या-गुणकर्मणोर्गुणकर्मभावनिवृत्तिद्वारेण द्रव्यस्य द्रव्यभावनिवृत्तिराख्यायते तद्यथा-य उक्तः कार्यकारणाधाराधेयसमवायः तस्यैवैकत्वात् यो द्रव्यभावेन गुणकर्मणोः समवायः स एकः, तेन द्रव्येण सम्बन्धात्ते गुणकर्मणी द्रव्यमेवैकं करोति, ततो गुणकर्मणी निवर्त्तते, तन्निवृत्तौ द्रव्यमाश्रय्यभावान्नाश्रयो 15 न च कारणम् , समवायिनां गुणकर्मणामभावात् , ततो द्रव्यस्य द्रव्यलक्षणं नास्ति क्रियावद्गुणवत् समवायिकारणमिति,-क्रियागुणाभावान्न द्रव्यं तद्वन्न गुणकर्माणि तथा लक्षणानीति, इतिशब्दो हेत्वर्थे, यस्मान्न शक्यत इति पदार्थानां षट्त्वेन व्यवस्था हीयत इति भावः । व्यवस्थाऽसम्भवमेव दर्शयति-समवायस्यैकत्वादिति, गुणस्य कर्मणो हि गुणत्वं कर्मत्वं स्वरूपम् , यदि समवाय एकस्तर्हि गुणत्वकर्मत्वादिसमवायस्यैव द्रव्यत्वसमवायत्वात् तत्र गुणत्वादिसम
वायात् गुणत्वादिसत्त्ववद्रव्यत्वसमवायसत्त्वाइव्यत्वमप्यस्तीति गुणस्य गुणत्वमेव कर्मणश्च कर्मत्वमेव खरूपमिति न स्यात् , तथा च 20 द्रव्यगुणकर्मणां परस्परं भेदो न स्यात् , धर्ममेदप्रयुक्तो हि धर्मिमेदः धर्मश्च द्रव्यत्वादि सर्वत्रैवास्तीति कथं भेदः स्यादिति भावः । विशेषणमेदाद्विशेष्यभेदे दृष्टान्तमाह-छत्रीति छत्रविशिष्टो न दण्डविशिष्टः, दण्डविशिष्टश्च न छत्रविशिष्ट इति छत्रदण्डविशेषण, भेदात् विशेष्यस्य पुरुषादेयेथा मेदो न तथा द्रव्यत्वस्य सर्वत्र सत्त्वेन भेदोऽस्तीति भावः । अथ नास्ति गुणत्वकर्मत्वयोहोनिः, द्रव्यभिन्नयोः गुणकर्मणोः सिद्धत्वादित्याशय समाधत्ते-कार्यकारणेति ननु समवायस्यैकत्वेऽपि तत्सम्बन्धिन एकत्वं न सम्भवति, इतरथा द्रव्यत्वं सामान्यमेव न स्यात् , अनेकवृत्तित्वाभावात् , तस्मात् धर्मभेदाभावेऽपि कारणान्तरेण धर्मिभेदसिङ्ख्या न समवा25 यैकत्वप्रयुक्तं सम्बन्ध्येकत्वम् , तथा हि द्रव्यं हि गुणकर्मणोः समवायिकारणमत एवाधारश्च, गुणकर्मणी च द्रव्याश्रयित्वेनैव प्रतीयमानतया उपादानकारणजन्यतया चाधेये कार्ये च, तस्मात् गुणवत्त्वात् क्रियावत्त्वात् समवायिकारणत्वाच्च स्वसमानासमानजातीयेभ्यो व्यावृत्तं द्रव्यमिति द्रव्याद्गुणकर्मणोभिन्नत्वात् समवायस्यैकत्वेऽपि गुणकर्मसमवायात् गुणत्वं कर्मत्वञ्च भवत एव, सम्बन्धैकत्वस्य सम्बन्ध्यैकत्वाप्रयोजकत्वादित्याशयेन व्याचष्टे-कारणमाधारश्च द्रव्यमिति । तदेतन्मतं निराकत्तु प्रतिज्ञावाक्यमाह
तयोर्गुणकर्मणोरिति, प्रथमं गुणकर्मणोर्गुणकर्मभावो निवर्तते ततश्च द्रव्यभावनिवृत्तिरित्यर्थः । तदेव समर्थयति-य उक्त 30 इति, द्रव्यभावेन-द्रव्येण पदार्थेन गुणकर्मणोः समवाय एकः, स द्रव्येण सम्बद्धे गुणकर्मणी द्रव्यमेकं करोति, ते निवर्त्तते,
द्रव्यरूपतापन्नत्वात् , एवञ्च गुणकर्मणोराश्रयिणोरभावात् कस्याश्रयः कारणञ्च द्रव्यं भवेत् , तस्मात् क्रियावद्गुणवत् समवायिकारणमिति द्रव्यलक्षणमसम्भवदोषग्रस्तम्, तदेवं द्रव्याभावात् गुणकर्मणी कमाश्रयेताम् , कस्माद्वा भवतामिति ते अपि न स्त इति भावः । एवञ्चेदृशलक्षणानां गुणानां कर्मणाचाभावात् द्रव्यनिवृत्तव्यभावस्य द्रव्यत्वस्य निवृत्तिरित्याह-यस्मान्नेति । क्रियाव
१ सि.क्ष. डे. °राचाराधिषयोश्च । २ सि. क्ष. माश्रयाभावा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org