SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ षट्पदार्थनिवृत्तिः ] ७०९ कारणनित्यानित्यसम्बन्धासम्बन्धजातिमदजातिमत्त्वानि द्रव्यादीनां सामान्यादीनाञ्च सर्वस्य वस्तुत्वात् द्र्यात्मकत्वं भवत्येव, इतरेतररूपैकभवनाविशेषात् । यदपि च समवायस्यैकत्वे सङ्करप्रसङ्ग इति दोष उक्तः स तदवस्थ एव, बहूनां सम्बन्धिनामेकसम्बन्धभावात्, वागादिगवाद्यभिधानवत्, तस्माद्रव्यत्व सम्बन्धाद्यथा द्रव्ये द्रव्यबुद्धिं तथा गुणे कर्मणि च द्रव्यत्वबुद्धिं कुर्यादिति सर्वस्य सर्वाभिधानप्रत्ययौ स्याताम्, पदार्थलक्षणव्यवस्थानस्याभावात् षडपि पदार्था निवर्त्तन्ते कथम् ? समवायस्यैकत्वात् द्रव्यत्वेन गुणकर्मणोः सम्बन्धाद्द्रव्यत्वात्तयोश्च स्वरूपस्य हानिः, तत्त्वविशेषणभेदाद्धि तद्भेदः स्यात्, छत्रिदण्डिवत् । द्वादशारनयचक्रम् यदपि चेत्यादि, निष्ठायाः सम्बन्धस्य च सत्तयैककालत्वप्रतिपादनार्थं समवायस्यैकत्वादेकः काल इत्युक्त्वा पुनरत्र यो दोषश्चोदितः सङ्करप्रसङ्ग इति स तदवस्थ एव दुःपरिहारः, बहूनां सम्बन्धिना - 10 मेक सम्बन्धभावादिति हेतु:, बहवो हि सम्बन्धेनैकसम्बन्धीभूताः, ततः तेषां सङ्करः, वागादिगवाद्यभिधानवत्, यथा गौरित्युक्ते वाग् दिग्भूरइम्यादिभिरेकस्य गोशब्दस्य वागादिशब्दपर्यायत्वात्तत्तदात्माऽसौ, तत्तदर्थप्रतिपादनात् तत्तत्सम्बन्धादमुष्यैवेदं सम्बन्धीति निर्धार्य व्यवस्थापयितुमशक्यत्वात् सर्वेषां दशानामिष्टः कारणकार्याधारः समवायोऽपि तथा ज्ञेयः, द्रव्यत्वेनेव गुणत्वकर्मत्वादिभिश्च सम्बन्धः इह लिङ्गा विशेषा द्विशेषलिङ्गाभावाच्चैकः समवायः, तस्माद्रव्यत्वसम्बन्धाद्यथा द्रव्ये द्रव्यत्वबुद्धिं तथा गुणे 15 कर्मणि च द्रव्यत्वबुद्धिं कुर्यादिति सर्वस्य सर्वाभिधानप्रत्ययौ स्यातामिति सामान्येन संकरदोष उक्तः, पदार्थेत्यादि द्वितीयः सङ्करप्रकारः, पदार्थानां षण्णां द्रव्यादीनां लक्षणव्यवस्थानस्याभावात् षडपि पदार्था wwwww Jain Education International 2010_04 wwwww. 5 युक्तः सः, तद्दोषतादवस्थ्यादित्याह - यदपि चेति । व्याचष्टे - निष्ठाया इति, वैशेषिकेण यदैव कार्यस्य निष्ठा तदैव सत्तया सम्बन्ध इत्येककालताप्रतिपादनार्थं समवायो ह्येकः, तस्मात् यदैव समवायः सम्बध्यते तदैव सर्वे तत्सम्बन्धिनोऽपि सम्बध्यन्ते, इतरथा समवायस्य नानात्वं स्यात्, यो हि तदा न सम्बद्धस्तत्समवायोऽपि तदानीं नास्ति पश्चात् तत्सम्बद्धकाले भवतीति, तच्च नेष्टम् 20 तस्मात् समवायस्यैकत्वान्निष्ठायाः सत्तायाः सम्बन्धस्य चैकः काल इति समवायस्यैकत्वं व्यवस्थाप्य ननु समवायस्यैकत्वे समवायसम्बन्धिनां सर्वेषामेकत्र प्रसङ्गात् संकरः स्यादिति सङ्करप्रसङ्गमाशंक्य तस्यैकत्वेऽपि यथा प्रतीति व्यवस्थेति निराकृतः, तत्सङ्करप्रसङ्गः परिहर्तुमशक्य एवेति भावः । तत्र हेतुमाह-बहूनामिति, अवयवावयविगुणगुणिक्रियाक्रियावज्जातिव्यक्तिविशेषनित्यद्रव्याणां बहूनां सम्बन्धिनां समवायस्यैकत्वे सति सम्बन्धत्वादित्यर्थः । बहवो हीति अनेकेऽवयवादय एकेन समवायसम्बन्धेनैकदैव सम्बन्धिनो जाताः, न तु पृथक् पृथक् सम्बन्धिनः, अत एव संकर इति भावः । दृष्टान्तमाह - वागादीति 25 'स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले | लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इति कोशात् वागादिदशस्वर्थेषु गोशब्दो दृष्टः, तत्र गौरित्युक्ते विनिगमकाभावात् वागादिदशार्थोपस्थित्या वागादिशब्द पर्यायत्वमेकस्य गोशब्दस्य तत्र तत्र तस्य शक्तत्वात् अयमेवास्य गोशब्दस्यार्थो नान्य इति निर्धार्य व्यवस्थां विधातुं न शक्यत इति दशार्थाभिधायित्वात् गोशब्दस्य संकीर्णता, एवमेव अवयवावयव्यादिनानासम्बन्धिनः समवायस्यापि सङ्कीर्णत्वात् संकरप्रसङ्गः सम्बन्धिनां दुःपरिहार एवेति भावः । समवायस्यैकत्वं दर्शयति- द्रव्यत्वेने वेति इहेत्याकारकं ज्ञानं शब्दप्रयोगो वा समवायस्य लिङ्गम्, द्रव्यत्वगुणत्वकर्मत्वादिषु तच्च तुल्यम विशिष्टम्, 30 भेदसाधकलिङ्गाभावात् तस्मादेकः समवाय इति भावः । तदेवं तस्यैकत्वे सङ्करं दुःपरिहारमाह- तस्मादिति, नन्वेकश्चेत् समवायः तदा यथा द्रव्ये द्रव्यत्वबुद्धिः समवायात् तथैव गुणादावपि द्रव्यत्वसम्बन्धस्य समवायस्य सत्त्वात् द्रव्यत्वबुद्धिरपि स्यादेव सम्बन्धसत्त्वे सम्बन्धिसत्त्वस्यावश्यकत्वादिति भावः । एवं द्रव्यत्वगुणत्व कर्मत्वादिसामान्यानां परस्परसङ्करप्रसङ्गमुक्त्वा पदार्थेषु षट्सु सङ्करं दर्शयति-पदार्थेति । कथं सङ्कर इत्यत्राह - लक्षणेति, यस्य यत्स्वरूपमिष्टं तस्य तत्र व्यवस्थां कर्तुं न For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy