________________
७०८
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे भवनं भाव इति, स एव विशेषः भावान्तराद्विशिष्यमाणत्वात् , अन्यनिरपेक्षत्वात् , सदसदात्मकत्वात्सत्त्वेनासत्त्वेन च तस्यैव विशिष्यमाणत्वात् , वक्ष्यमाणवञ्चेति, कारणाकारणायैक्यमनन्तरं वक्ष्यते, स एव समवायः, एवमेवेति, भवतः कर्तृत्वेन तस्यैव कारणत्वं तदेकीभावगत्या कार्यत्वापत्तेः, प्रतिपादितेन विधिना सम्बन्धाभावः प्रत्याख्यातः, समवायव्याख्यानात्, सहासत्त्वेनेति, अनेनैवासत्त्वमपि प्रत्याख्या5 तम् , सदसदात्मकत्वात् कर्तृत्वात् संयुक्तमेव कार्येणेति नासंयोगः कार्यकारणप्रतिपादनान्नासमवायोऽस्ति, ताभ्याश्चेति, संयोगसमवायाभ्यां सम्बद्धत्वात् नित्यत्वासत्त्वे न स्तः, अजातिमन्ति त्विति प्रतिपाद्यत एव, द्रव्यव्यतिरिक्तायाः प्रतिसिषेधिषितत्वात्, एवं तावत् कारणादित्वं द्रव्यादेः ।
अथ वा अकारणनित्यासम्बन्धाजातीनि द्रव्यादीनि, स्वतः सत्त्वात् सामान्यादिवत् , कारणादि वा सामान्यादीनि स्वतः सत्त्वात् , द्रव्यादिवत् तदात्मत्वात् , उभयं वा, इतरेतर10 रूपैकभवनाविशेषात् ।
अथ वेत्यादि, अकारणनित्यासम्बन्धाजातीनि द्रव्यादीनि स्वतः सत्त्वादुक्तात् सामान्यादिवत्, कारणादि वेति, कारणानित्यसम्बन्धजातिमत्त्वानि सामान्यविशेषसमवायानां स्वतः सत्त्वाद्रव्यादिवत् , खसत्सत्त्वादित्यर्थः, तदात्मत्वात् , यद् यदात्म तत् स्वतः सत् सत्तादिवदित्युक्तम् , उभयमिति, कारणा
mamam
विशेषः, अनुपदमेव कारणाकारणयोरैक्यमुच्यते तस्मात्तयोरेकरूपत्वात् स एव समवाय इति द्रव्यमेव सर्व न द्रव्यात् गुणकर्मादी15 नामनेकतेति भावः। ननु यद्येकमेव द्रव्यं तर्हि द्विनिष्ठत्वात् समवायः कथं सम्भवति इत्यत्राह-एचमेवेति उक्तप्रकारेण भवतो
भवनात् कर्तुः भवतः कार्यस्य भवनस्य चैकीभावगतेरस्ति समवाय इति भावः । एवं समवायव्यावर्णनात् कार्यकारणयोः सम्बन्धो न सम्भवतीति शङ्का परास्तेत्याह-प्रतिपादितेनेति । सर्वदा कारणं कार्येण संयुक्तमेव, तस्मात् कार्यमसदेवेति शङ्कनं निराकृतम्, भवतः सदसदात्मकत्वेन कर्तृत्वादसत्त्वेन कार्येण सह संयुक्तमेव, इतरथा कत्तैव खपुष्पादिवन्न स्यादतो नासंयोगः, कार्य
कारणभावाच्च तयोर्वा समवाय इत्याह-सहासत्त्वेनेति, एवञ्च समवायोऽभेदस्वरूपः सम्बन्धः, संयोगश्च भेदरूपः, भेदाभेदः 20 कार्यकारणयोरिति भावः । कारणं यतः कार्येणैकीभावं गच्छत्यतो न नित्यं यतश्च कार्य संयुक्तमतो नासदित्याह-संयो
गेति । ननु सामान्यादीनां द्रव्यादिव्यतिरिक्तानामभावे कथं द्रव्यादीनि सामान्यवन्ति भवन्तीत्यत्राह-अजातिमन्तीति, द्रव्यस्यैव सामान्यरूपत्वात् जात्यन्तरापेक्षा नास्तीति भावः । तदेवं द्रव्यस्यैव गुणकर्मसामान्यविशेषसमवायात्मकतया एकत्वात् सदसदात्मकत्वाच्च कार्यकारणादिभावो नानुपपन्नः, अनेकत्वे तु कारणे कार्यस्यासत्त्वात् कारणत्वाद्यनुपपत्तिरेव प्रागुक्तविधिनेत्या
शयेनाह-एवं तावदिति । प्रकारान्तरेण द्रव्यादेः कारणत्वमकारणत्वञ्च, नित्यत्वमनित्यत्वञ्च सम्बद्धमसम्बद्धं च, जातिमत्वम25 जातिमत्त्वञ्चेति दर्शयति-अथ वेति । साधयति-अकारणेति, यथा सामान्यविशेषसमवायाः न कारणात्मकाः न समवायि
कारणात्मकाः, नित्याः, असंबन्धाः-समवायरहिता अजातयः,-जातिशून्याः स्वतः सद्रूपत्वात् तथैव द्रव्यादीन्यपि स्वतः सन्ति, एकैकत्वात् , तस्मात् अकारणनित्यासम्बन्धाजातीनीति भावः । स्वतः सत्त्वादेव च सामान्यादीनां द्रव्यादिवत् कारणत्वमनित्यत्वं सम्बद्धत्वं जातिमत्त्वञ्च भवन्तीत्याह-कारणेति । सदेव सत् सतः आत्मत्वात्-खतः सत्त्वात् , स्वसदेव सत्ता, न तु तद्व्यतिरिक्ता, तदात्मत्वात् , यद् यदात्म तत् स्वतः सत् , यथा सत्ता सत्ताखरूपा खतः सतीति न स्वतः सत्त्वं द्रव्यादावसिद्धमित्या30 शयेनाह-स्वसत् सत्त्वादित्यर्थ इति । द्रव्यादि सामान्याद्यात्मकं सामान्यादि च द्रव्याद्यात्मकम् , इतीतरेतरैकभवनात्मक
वस्तु तस्मादेवेतरेतरधर्मात्मकमपि, तस्मात् सर्व वस्तु व्यात्मकत्वेन कारणमकारणञ्च, नित्यमनित्यञ्च सम्बद्धमसम्बद्धञ्च, जातिमदजातिमच्चत्याशयेनाह-उभयमिति । ननु वैशेषिकेण समवायस्यैकत्वं लाघवादभ्युपेत्य सङ्करप्रसङ्गमाशङ्य यस्तस्य परिहारो विहितो न
१सि.क्ष. नाथं योगः। २ सि. क. प्रतिविधित्सितत्वात् । ३ सि. क्ष. द्रव्यत्वादेः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org