________________
द्रव्यगुणकर्मादीनामेकता ]
द्वादशारनयचक्रम्
७०७
~ Ma
यतश्चैवमित्यादि, यस्मात् स्वत एव सत्ताद्रव्यादीनां युक्ता, तस्मात् सतो भावः सत्तेति या शब्दव्युत्पत्तिर्भेदषष्ट्युपादानार्था सा द्रव्याद्यव्यतिरिक्तसत्तार्थैव ज्ञायते सतो भावः सत्तेति; किं कारणं ? कर्त्तरि षष्ठीवृत्तेः, तद्र्याख्यानं यत्तत् सद्भिरित्यादि गतार्थं यावत् सदभिधानप्रत्ययकारणं सर्वत्रेति, अत एवमपीत्यादि पूर्वोत्तरपक्षौ सव्याख्यानौ गतार्थो वैशेषिकस्यैव यावदुपनयसूत्रम्, यदुक्तं स्वतः सत्त्वमिति एतदयुक्तमिति आचार्यो यथैतदप्रत्ययोद्राहं भवति तथाऽऽह - अत्र हि सत्तावदिति, सर्वमिदं त्वदनुवृत्त्या 5 त्वां प्रतिपादयितुमुच्यते, न मम सत्ता द्रव्यादिव्यतिरिक्ता काचिदस्ति, कर्त्तरि षष्ठीत्युक्तत्वात्, द्रव्यादीनामकारणत्वादिदोषाः प्रसक्ताः ततोऽनुपपन्नमिति, एषां तत्प्रसङ्गात् कुतोऽनुपपन्नता ? ममात्र नियतिताऽभ्यागता, त्वन्मतेन तु सत्तामभ्युपगम्य मया सत्तादिवद्रव्यादीनामनिष्टापादनं कृतम्, मम तु द्रव्यगुणकर्मणां सामान्यविशेषसमवायानाञ्चानेकत्वमनुपपन्न ।
तद्व्याचष्टे—
कर्त्तृणाऽकर्तॄणा च यो भवति स एव भावः सामान्यं देशकालादिभेदेऽपि भवनतुल्यत्वात्, स एव विशेषोऽन्यभवननिरपेक्षः कर्त्ता उक्तवत्, भवदेव भवति तदेव द्रव्यं भव्यं कलनं गुणः युगपदयुगपत्पर्यायत्वेन भवनात् स एव भावः क्रिया, स एव विशेषः भावान्तराद्विशिष्यमाणत्वात् अन्यनिरपेक्षत्वात् सदसदात्मकत्वात् वक्ष्यमाणवच्च स एव समवायः, एवमेव भवतः कर्त्तृत्वेन तस्यैव कारणत्वं तदेकीभावगत्या कार्यत्वापत्तेः सहासत्त्वेन कर्तृत्वात् 15 नासंयोगः, कार्यकारणप्रतिपादनात् नासमवायः, ताभ्यां सम्बद्धत्वान्नित्यत्वासत्त्वे न स्तः ।
3
wwww
कर्त्तृणाकर्त्तृणा चेत्यादि, भवतीति भाव इति कर्त्तरि, भवनं भाव इति भावे, इत्यादि कारकविवक्षायां यो भवति स एव भावः सामान्यम्, देशकालादिभेदेऽपि भवनतुल्यत्वात् स एव विशेषोऽन्यभवननिरपेक्षः कर्त्ता, उक्तवत् कर्त्तरि षष्ठीति, भवतो भवनात् भवदेव भवति तदेव द्रव्यं भव्यम्, भवद्भवनादेव, कलनं गुणनं गुणः, युगपदयुगपत्पर्यायत्वेन भवनात् स एव भावः क्रिया 20 करोतीति भावं स्फुटयति-सा द्रव्यादीति, द्रव्यादेः सतो भवनलक्षणाव्यतिरिक्तसत्तार्था व्युत्पत्तिरित्यर्थः, सत् भवति - सद्वस्तु उत्तरावस्थालक्षणात्मलाभोन्मुखोऽवतिष्ठत इति सतः कर्तृत्वम्, अवस्थावस्थावतोश्चाभेदः, यत्तत् सता भूयते तदेव सत्ता सामान्यं सदित्यभिधान प्रत्ययकारणं सर्वत्रेति भावः । हेतुमाह- कर्त्तरीति सतो भाव इति कर्त्तरि षष्ठी, सा सतो भवनक्रियाकर्तृत्वं बोधयति अथ द्रव्यगुणकर्मणां सामान्यविशेषसमवायानाञ्चैकत्वमेवोपपादयति-कर्तृणेति कर्तृव्युत्पत्त्या कर्तृव्युत्पत्त्या चेत्यर्थः, तथैव व्युत्पत्तिं दर्शयति-भवतीति भाव इति, यत्तेन तेन रूपेण भवति मृदेव हि पिण्डस्थास कोशादिना भवति, तस्माद्भवनात्म 25 मृद्रव्यमेव देशकालभेदेऽपि भवनसामान्यात् भाव एव सामान्यमुच्यते न ततो भिन्नं किञ्चिदिति भावः । पूर्वोत्तरभावान पेक्ष वर्त्तमानभावनात्मकं द्रव्यमेव विशेषः, न हि विशेषः सामान्याद्भिन्नस्तन्निरपेक्षं वा सामान्यमस्तीत्याशयेनाह - स एवेति सामान्यरूपो भाव एवेत्यर्थः । ननु कतुर्भवितुर्यद्भवनं पिण्डादि स हि विशेषो न कर्तेत्याशंकायामाह - उक्तवदिति, अवस्थावस्थावतो भेदाभावात् स एव कर्तेति भावः । तदेव समर्थयति भवतो भवनादिति यत्तद्भवति तस्यैव भवनम् तेनैव तथा तथा भूयते, नाभवद्भवति, अपि तु भवदेव भवति पूर्वोत्तरावस्थावच्छिन्नमेकं तदेव द्रव्यमुच्यते तदेव च भवतो भवनात् भवदेव भवतीति 30 द्रव्यमुच्यते स एव च गुणः, क्रमिकपर्यायरूपेण सहपर्यायरूपेण च भवनात् सैव क्रियाऽपि भवनात् स एव चावस्थान्तरेण विशिष्यमाणत्वात् भावान्तरनिरपेक्षत्वाच्च विशेषः, अन्यापेक्षत्वे हि सामान्यमेव स्यात् स एव सत्त्वेनासत्त्वेन च विशिष्यत इति
"
१ सि. क्ष. पन्नमित्येषा तत्प्र० । २ सि. क्ष. पादने कृते मतनुद्र० । ३ सि. क्ष. 'वायानाञ्चैकत्रानुप० । XX सि. ।
Jain Education International 2010_04
For Private & Personal Use Only
10
www.jainelibrary.org