________________
७०६
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे न युक्तमभियोक्तुमित्युदाहृतो ग्रन्थो गतार्थो यावत्तद्योगनिमित्तमिति, यदा चेत्यादिरारम्य यावत्तद्योगनिमित्तमित्येवं प्रकार उदाहृतो ग्रन्थः पूर्वत्रास्ते न तूत्तरमध्ये, तदयुक्तं न द्रव्यादिष्वञ्जसा सिद्धिरित्यादिवक्ष्यमाणमसम्बद्धम् , तदात्मनिमित्तस्य सत्प्रत्ययस्यानुपपत्तेः-असत्तात्मनां द्रव्यादीनां मुख्यौ सदभिधानप्रत्ययौ
कथं युक्ताविति एतदाचार्यवचनमन्तरे पतितं परस्याकौशलस्याऽऽख्यापनार्थम् , मनोरथवदिति, वैशेषिकस्य 5 मनोरथ एव द्रव्यादिव्यतिरिक्ता सत्तेति, यदि भवेत् स्यात् , तन्मतौ तु पूर्वोत्तरपक्षौ व्याख्यातावेव । ....... द्रव्यादिभाक्तत्वनिवृत्तिः स्वतः सत्त्वं सत्तादिवच्चैतस्य वचनस्य व्याघात इत्येतद्दोषद्वयदर्शनादिति चेन्नैव च दोषः दण्डित्वदण्डत्वयोर्यथायथं स्वत एव सतोः तत्सम्बद्धत्वात् , सत्त्वतः सत्त्ववत् , सदेव स्वं सत्त्वतः-सत्त्वात् , सदेव सत्, न सत्तातोऽन्यत् सत् , तस्मात् सर्वस्य सतो नास्त्यतादात्म्यं सदात्मैव सर्वमिति भाक्तत्वनिवृत्त्याद्यभावः, सदादिवच्च स्वतः सत्त्वम् । 10. (द्रव्यादीति) द्रव्यादिभाक्तत्वनिवृत्तिः स्वतः सत्त्वं सत्त्वादिवञ्चैतस्य वचनस्य व्याघातः, इत्येतद्दोषद्वयदर्शनादिति वैशेषिकेणोक्त आचार्य आह-नैव चेत्यादि, दण्डित्वं दण्डत्वञ्च यथायथं स्वत एव सतोः तत्सम्बद्धत्वात्-सत्तासम्बद्धत्वादित्यर्थः, सत्त्वतः-सत्त्वात् सत्त्ववत्, सदेव सत् सत्त्वतः सतः सत्त्वात् आत्मत्वात् स्वतः सत्त्वादित्यर्थः, एवं तावत्र्यायो यदुत सदेव सत्- सत्त्वमेव सत्, न सद्वथतिरिक्ता सत्ता, न सत्तातोऽन्यत् सत् , तस्मात् सर्वस्य सतो नास्त्यतादात्म्यम्-असदात्मत्वं तदभावात् 10 सदात्मैव सर्वमिति भाक्तत्वनिवृत्त्याद्यभावः, नायं दोष इत्यर्थः, सत्तादिवच्च स्वतः सत्त्वमिति, आदिग्रह
णात् द्रव्यत्वगुणत्वकर्मत्ववत् । : यतश्चैवं ततः सतो भावः सत्तेति द्रव्याद्यव्यतिरिक्तसत्तार्थैव ज्ञायते, कर्तरि षष्ठीवृत्तेः यत्तत् सद्भिः ...........................सदित्यभिधानप्रत्ययकारणं सर्वत्र, एवमपि... ............यदुक्तं स्वतः सत्त्वमिति, एतदयुक्तं अत्र हि सत्तावदिति सर्वमिदं त्वदनुवृत्त्या, 20 न मम सत्ता द्रव्यादिव्यतिरिक्ता काचिदस्ति कर्तरि षष्ठीत्युक्तत्वात् , ततोऽनुपपन्नं द्रव्यादी
नामनेकत्वम् ।
र्भाक्तत्वं न निवर्तेत, तथा च द्रव्यादिभाक्तत्वनिवृत्तौ स्वतः सत्त्वं विरुद्धम् , स्वतः सत्त्वे च द्रव्यादिभाक्तत्वनिवृत्तिविरूद्धति विरुद्धदोषद्वयार्थत्वात्तदभिधायकं वचनं परस्परव्याघातार्थमिति वैशेषिकः शङ्कते-द्रव्यादीति । दण्डदण्डिनोः स्वत एव सत्त्वं प्राक्
प्रदर्शितम्, तथाविधयोरेव सत्तया सम्बन्ध इत्याशयेनोत्तरयति-दण्डित्वमिति दण्ड इत्यर्थः । स्वतः सतः सत्तासम्बन्धो व्यर्थ 25 इत्यत आह-स्वतः सत्त्वादित्यर्थ इति, सदेव सत्तेत्युच्यते न त्वन्या काचित् सत्ता, तथा च यथा सत्ता स्वतः सती तथा दण्डादिरपि सत्, स्वतः सत्त्वादिति भावः । एवञ्च वस्तुमात्रस्य खतः सत्त्वात् न क्वापि सत्तासम्बन्धात् सदभिधानप्रत्ययौ किं तु खतः सत्त्वादेव सर्वत्र सदभिधानप्रत्ययौ मुख्यावेवेति स्वतः सत्त्वस्य भाक्तत्वनिवृत्त्या न विरोध इति दर्शयितुं सदेव सत्तेति सर्व सत्तात्मकमेव, न कस्याप्यतदात्मकत्वं, एवश्चातादात्म्यात् द्रव्यादौ सदभिधानप्रत्ययौ मुख्यौ न स्वत इति यदुच्यते त्वया तदनुचितमित्याशयेनाह-एवं
तावदिति । ननु सत् सत्तयोरेकत्वे सतोभावः सत्तेति भेदनिबन्धना षष्ठी कथमित्याकांक्षायामाह-यतश्चैवमिति। सतो भावः 30 सत्कर्तृक भवनं, सद्धिहि भूयते, तथा च सतो यत्स्वरूपानुभवनं सैव हि सत्ता सत्कर्तृकभवनलक्षणा वस्तुस्वरूपभूता सदभिधानप्रत्ययौ
१ सि. क. यथा यथा । २ सि. क. सम्बन्धत्वा० । ३ इतःपरं 'क०' प्रति स्ति, ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org