________________
७०५
.
औपचारिकत्वनिषेधः]
द्वादशारनयचक्रम् . आह. सत्तासम्बन्धरहितेषु द्रव्यत्वादिष्वौपचारिकौ तौ स्याताम् , असंख्ययोर्गुणत्वकर्मत्वयोरेकाभिधानप्रत्ययवदिति चेत्तर्हि द्रव्यादिष्वपि द्रव्यत्वादि रहितेषु तावौपचारिकौ स्याताम् , मनुष्यसिंहत्वादिवत्तथाऽञ्जसाऽनुपपपत्तेर्नेति चेत् ततस्ते स्वपक्ष एव दोषविधानम् , यदि तु सत्तासम्बन्धापेक्षौ सदभिधानप्रत्ययौ तर्हि कथं सत्तादिषु तावौपचारिकाविति, त्वमेवासि प्रष्टव्यः । यत् पुनरिदमुच्यते सत्तायां सिद्ध इति चेत्, यदा च......आत्मानमात्मना न युक्तमभि योक्तुम् ......... तद्योगनिमित्तम् , तदयुक्तं न द्रव्यादिष्वञ्जसा सिद्धिः, अतदात्मनिमित्तस्य सत्प्रत्ययस्यानुपपत्तेः, मनोरथवत् । ___ सत्तासम्बन्धेत्यादि, गुणत्वमेकं कर्मत्वमेकमित्येकाभिधानप्रत्ययावसंख्ययोरपि गुणत्वकर्मत्वयोरौपचारिकौ दृष्टौ तथा सदभिधानप्रत्ययौ द्रव्यत्वादिष्वौपचारिकौ स्यातामिति को दोषः ? अत्रोच्य- 10 ते-द्रव्यादिष्वपीत्यादि तुल्यत्वापादनमौपचारिकत्वेन गतार्थम् , आह-मनुष्यसिंहत्वादिवत्तथाऽञ्जसाऽनुपपत्तेर्नेति चेत्-यथा शौर्यक्रौर्यादिधर्माः सिंहे मुख्याः सिद्धाः सन्तो मनुष्ये शक्या उपचरितुम् , नासिद्धास्तथा द्रव्यादिषूपचरितौ स्यातां यद्यन्यत्राञ्जसा सिद्धौ सदभिधानप्रत्ययौ, न तु तौ क्वचित् सिद्धौ, भाक्तव्यवहारश्चाञ्जसा ऋते नास्ति, तस्माद्व्यादिष्वेव मुख्याविति, एवञ्चेन्मन्यसे ततस्ते स्वपक्ष एव दोषविधानं तद्भावयति-यदि त्वित्यादि, सत्तादिष्वप्यासयोरसिद्धत्वादिति भावार्थः, एतत्पुनः स एव 15 प्रष्टव्य इति स्वभावसत्तापेक्षौ सदभिधानप्रत्ययाविच्छतां किं नः सत्तासम्बन्धकल्पनया, तव पुनः सत्तासम्बन्धमिच्छतः दुःप्रतिपादं[व]भावसत्ताव्यतिरिक्ततादात्म्यवादिनः तस्मात्त्वमेवासि प्रष्टव्य इति, यत्पुनरिदमुच्यते सत्तायां सिद्ध इति चेदिति सभाष्यं गतार्थम् , इयं पुनराशङ्का के प्रति युक्ता ? द्रव्यादिव्यतिरिक्तां सत्तां स्वत एव सिद्धां तदात्मिकामिच्छन्तम् , स पुनर्नान्यो वैशेषिकात् , तस्मादात्मानमात्मना
पचरिते एवेत्याशङ्कते-सत्तासम्बन्धेति ननु यथा द्रव्याश्रिता गुणभूता संख्या एको द्वौ बहव इत्यादिव्यवहारप्रयोजिका, न तु 20 असहायः पदार्थ एवैकत्वं ससहायश्च यथायोगं द्वित्वादीति, या तु गुणकर्म सामान्यादौ व्यवहारप्रयोजिका सा गुणाद्याश्रयगतैव स्वनिमित्त व्यवहारं प्रवर्त्तयति यथैकं शतं द्वे शते त्रीणि शतानीति, नहि शतसंख्यायामेकत्वादिसंख्या समवैति विरोधादेवं सत्तालक्षणं सामान्यमवच्छेदकत्वादवच्छेद्ये प्रधानतया खानुरूपाभिधानप्रत्ययौ जनयत् सामान्ये सत्ताद्रव्यत्वादौ उपचारतः खरूपमात्रतस्तो जनयतीत्याशङ्कते-गुणत्वमेकमिति द्रव्यत्वादाविव द्रव्यादावप्यन्यस्य द्रव्यत्वादेरभावादुपचारेण तौ कुतो न भवत इति तदीयाभ्युपगम एव दोषं प्रसञ्जयितुमनुयुज्यते-द्रव्यादिष्वपीति । उपचारस्य मुख्यमूलतया सर्वत्रोपचारशङ्काया अनौचित्यात् द्रव्या- 25 दिषु तौ मुख्यौ, अन्यत्रोपचरितावित्यभ्युपेयौ, यथा सिंहे मुख्यः सिंहप्रत्ययः गौणो मनुष्ये, अन्यथा सिंहेऽपि सिंहप्रत्ययस्य मुख्यता न स्यादित्याशयेन वैशेषिक आह-मनुष्यसिंहत्वादिवदिति द्रव्यगुणकर्मसु सामान्यादिषु सत्तायाञ्च सत्तासम्बन्धतदभाववत्सु सदभिधानप्रत्ययोर्मुख्यत्वे नियामकाभावात् सत्तासम्बन्धस्य नियामकत्वे सामान्यादिषु तयोर्युक्तमौपचारिकत्वम्, सर्वत्र चौपचारिकत्वस्य मुख्यत्वाप्रसिद्धावसम्भवादिति भावः । यथा द्रव्यादौ क्वचित् सदभिधानप्रत्यययोः सिद्धयोक्तित्वं तथा सत्तायां क्वचित् सिद्धयोरेव भाक्तत्वौचित्यात् सत्तायां तदभावात् कथमोपचारिकत्वमित्याह-यदि त्वित्यादि । हेतुमाह- 30 सत्तादिष्विति । सत्तायां कथमौपचारिकत्वमित्याशंका द्रव्यादिव्यतिरिक्तसत्ताभ्युपगन्तारं प्रत्येव युक्ता न तु सत्ताद्रव्याद्योरनतिरिक्तताभ्युपगन्तारमिति दर्शयति एतत्पुनरिति । ननु यदि द्रव्यादौ अभिधानप्रत्यययोर्भाक्तत्वं निवर्त्तते तर्हि तौ तत्र सत्तासम्बन्धाजायमानौ मुख्यौ भवेताम् , एवं सति न तस्य स्वतः सत्त्वम् , स्वतस्सत्त्वे हि सत्तासम्बन्धाभावात् द्रव्यत्वादौ तयो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org