________________
woman
womammom
७०४
न्यायागमानुसारिणीव्याख्यासमेतम् 1 [विधिनियमोभयारे तत्त्वं तदभावेऽसामान्यात्मकत्वमेव सर्वस्य स्यात् , यदि सा दण्डदण्ड्यादिव्यक्तिः खत एव न भवति सत्तासामान्यदण्डत्वदण्डित्वादितत्त्वाद्भवति स्वत एवाभवन्ती नास्त्येव सा, खपुष्पवत् , ततश्चासामान्यमेव सत्तादिः स्यात् , तच्चानिष्टम् , स्वत एव[1]भवतः समानस्याभावात् सामान्यमेव सामान्यं न स्यात् तस्मात्
खत एव दण्डो भवति, स्वत एव सदभिधानप्रत्ययौ, न सत्तायोगात् , यथा दण्डे एवं सत्यपीत्यादि 5 गतार्थ साधनम् , एवं तावत्तादात्म्यात् सत्तादिषु सदभिधानादीत्ययुक्तम् ।
यदप्युक्तमतदात्मत्वात् द्रव्यादीनां सदभिधानप्रत्ययौ सत्तायोगात् न स्वत इति तदपि न, अतदात्मत्वादित्यादेरनैकान्तिकत्वात् , द्रव्यत्वादीनामतादात्म्ये स्वतः सदभिधानप्रत्ययौ न सत्तातः, एकैकत्वात् , आत्मवत् , एवं द्रव्यादीनामपि स्वत एव द्रव्यत्वादिवत् ।
- यदप्युक्तमतदात्मत्वादित्यादि, असत्तात्मकत्वाद्रव्यगुणकर्मणां सदभिधानप्रत्ययौ सत्तायो 10 गान्न स्वत इति तदपि न, अतदात्मकत्वादित्यादेरनैकान्तिकत्वात् , अनैकान्तिकत्वप्रतिपादनार्थो ग्रन्थो
यावद् द्रव्यत्वादिवदिति, तस्य भावना द्रव्यत्वादीनामतादात्म्ये-द्रव्यत्वगुणत्वकर्मत्वघटत्वरूपत्वोत्क्षेपण त्वादीनां सामान्यविशेषाणामसत्त्वात्मकत्वे स्वतःसदभिधानप्रत्ययौ, न सत्तातः, कस्मात् ? एकैकत्वात् एकमेव द्रव्यत्वं सर्वद्रव्येषु द्रव्य[त्वान्तरानिष्टेः, तत्र सत्तायोगो नेष्यते, अनुप्रवृत्त्यभावात् , तथापि च
सदित्यभिधीयते प्रतीयते च, एवं गुणत्वादीन्यपि, तस्मादेकैकत्वात् स्वतः सत्त्वं, आत्मवत्-सत्तावदित्यर्थः, 15 स च दृष्टान्तः, स्वतो द्रव्यत्वादिभवने तस्य वर्णनात् , द्रव्यत्वादिषु भिन्नेषु स्वतो भवन्त्याः सत्ताया
एकस्याः सदभिधानं दृष्टमेवं द्रव्यादीनामपि स्वत एवेति साधनेनोपपादितोऽर्थः । लाभः सामान्यमुच्यते तदभावे तु सर्वं परस्परमेकान्तविलक्षणं स्यादिति भावः । इतरथा दोषमुद्भावयति-यदि सेति यद्यन्यत् खतोऽभवत् अन्येनैव भवेत् तर्हि तदप्यन्यत् अपरेण भवेत् , अपरमपीतरेण, इतरदपि तद्भिन्नेन येन केनचिदित्येवमनवस्थया न किंचिदपि वस्तु भवेत् , स्वतोऽभवनादिति भावः । व्यक्तेः स्वतो भवनाभावे सत्त्वादिभिरन्यैर्भवने व्यक्तिर्नास्ति सत्तादिरेवास्ती20 स्यायातम्, एवं सत्तादिरपि सामान्यं न स्यात् , तस्यापि स्वतो भवनलक्षणस्य सामान्यस्याभावात् , तस्माद् भवनं प्रत्ययामि
धानौ च स्वत एव भवन्ति नापरसम्बन्धादित्याशयेनाह-ततश्चेति । दार्टान्तिके योजयति-यथा दण्डे इति । एवञ्च सत्तादिषु तादात्म्यात् खत एव सदभिधानप्रत्ययौ, अतादात्म्याच द्रव्यादौ न खत इति यदुक्तं त्वया तयुक्तमित्युपसंहरति-एवं तावदिति । यदतदात्म तत् परतोऽभिधानप्रत्ययौ लभत इति पराभिमतव्याप्तिदूषणायाह-यदप्युक्तमिति । व्याचष्टे-अस. त्तात्मकत्वादिति । दोषमादर्शयति-अनैकान्तिकत्वादिति. द्रव्यत्वादी अतादात्म्यं वर्त्तते स्वतः सदभिधानप्रत्ययविषयत्व25 ञ्चास्तीति हेतुरतादात्म्यमनैकान्तिकमिति भावः । अनैकान्तिकत्वं घटयति-द्रव्यत्वादीनामिति द्रव्यत्वादीनां सत्तातो भेदादतदात्मता हेतुरस्ति, तत्सद्भावेऽपि परतः प्रत्ययामिधानविषयत्वं नास्तीति भावः । तत्कस्मादित्यत्राह एकैकत्वादिति, प्रत्येकव्यक्तिमात्ररूपत्वात्-खसजातीयद्वितीयव्यक्तिरहितत्वादित्यर्थः, द्रव्यत्वं हि एकमेव, न तु घटादिवदनेकम् , तस्मादेवाकाशादाविव द्रव्यत्वादो न जात्यन्तरयोगः, व्यक्त्यभेदस्य तद्बाधकत्वात्, अनुवृत्तिप्रत्ययनिमित्तं हि सामान्यम्-अनुवृत्तिप्रत्ययश्चानेकासु व्यक्तिषु भवति,
तस्माद्रव्यत्वस्य व्यक्त्यमेदात् अतादात्म्यम् , तथापि द्रव्यत्वं सदिति प्रतीयते अभिधीयते चेति परतः सदभिधानप्रत्ययविषय30 त्वलक्षणसाध्याभावादनकान्तिक इति भावः । एवं च द्रव्यत्वगुणत्वकर्मत्वादीनामैकैकव्यक्तित्वात् सामान्यान्तरासम्भवेन खत
एव सत्त्वं सत्तावदित्याह-तस्मादिति । यथा सत्ताया एकैकत्वात् स्वतः सत्त्वं तथा द्रव्यत्वादीनाम् , द्रव्यत्वादीनामिव च द्रव्यादेरपि खतः सत्त्वं अभिधानप्रत्ययौ चेल्याह-स च दृष्टान्त इति । ननु द्रव्यत्वादौ सत्प्रत्ययाभिधाने न मुख्ये, किन्तू
१ सि. क. डे. °क्तं सदा० । २ सि. क. सतो।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org