________________
दृष्टान्तविघटनम् ] द्वादशारनयचक्रम्
७०३ आचार्यो ब्रवीति-अनुदाहरणं तर्हि दण्डी, दण्डा[त् ]दण्ड्यभावात् , दण्डस्य स्वतोऽसिद्धत्वात् , दण्डी न सिद्ध्यति, परतः सत्त्वसिद्ध्यर्थश्चोदा ह्रियते दण्डी, दण्डासिद्धेः कुतस्तत्सिद्धिरिति, दण्डत्वोपपादितदण्डाइण्डीति चेत्-दण्डत्वसामान्यविशेषाद्दण्डः सिद्ध्यति, दण्डाद्दण्डीति, तत उदाहरणसिद्धिः विशेषणादेव विशेष्यसिद्धेः, एवञ्चेन्मन्यसे-इदमापतितं दण्डत्वतत्त्वाद्दण्डः सिद्ध्यति, दण्डत्वतत्त्वं पुनर्दण्डविशेषणसाधितदण्डत्वसिद्धेः सिद्ध्यति, तदिदमितरेतराश्रयं जायते 'इतरेतराश्रयाणि च न प्रकल्पन्ते तद्यथा नौ वि । बद्धा नेतरत्राणाय' (महाभा० १ अ० १ पा० १ सू०) इति, तत्प्रतिपादनार्थो ग्रन्थः-इतरेतरेत्यादिः गतार्थो यावत्तत्त्वसिद्धिरिति, दण्डीति च देवदत्तः स दण्डाद्दण्डत्वाद्वा कथमिति निर्धाय ? दण्डोऽस्यास्तीति दण्डी देवदत्तः स यदि दण्डादेव स्वतःसिद्धात् सिद्ध इत्युक्तम् , अथ दण्डत्वात् दण्डत्वमस्थास्तीति दण्डत्वीभवतु मा भूद्दण्डी, युक्तं यावद्दण्डाद्दण्डी न तु दण्डत्वात् स्वते एव भवद्दण्डी, किश्चान्यत्-आत्मान्तरसंक्रान्तिश्चैवम्-दण्डत्वादात्मान्तरं दण्डो दण्डी च, दण्डात् दण्डत्वदण्डिनौ, दण्डिनो 10 दण्डदण्डत्वे, दण्डः स्वत एवाभवन् दण्डत्वाद्भवन् तदात्मा भवति, एवं दण्ड्यपीति, वयन्तु ब्रूमो यत्तहण्डेन भूयते तस्यैव दण्डत्वात् यद्दण्डी दण्डी भवति स देवदत्तो भवत्यात्मानं लभते भावान्तरविविक्तम्, यत्तनँ भूयते तदेव भवनं दण्डत्वं ने तद्व्यतिरिक्ताद्दण्डत्वतत्त्वात् , एवं देवदत्तस्य दण्डिनोऽप्यात्मानुभवनं
तदूषयति-अनुदाहरणमिति, दण्डस्यापि दण्डत्वाधीनात्मलाभत्वेन परापेक्षत्वात् नान्यत्र खानुरूपप्रत्ययाभिधानाधायकत्वमिति परेण प्रत्ययाभिधानसिद्ध्यर्थे दण्डीत्युदाहरणं दत्तं तद् दण्डसिद्ध्यभावादसिद्धमेवेति भावः । ननु प्राक् प्रसिद्धदण्डत्वतत्त्वाद्दण्डात् 15 पुरुषे दण्डीति प्रत्ययो भवति, न तु प्रागसिद्धाद्दण्डात् , येन तदानीं दण्डत्वापेक्षणात् दण्डः खकार्यकारी न भवेदिति वैशेषिकः शङ्कते-दण्डत्वोपपादितेति, दण्डत्वेन उपपादितः प्राग् यो दण्डः तस्मादित्यर्थः । ननु विशेषणात् विशेष्यस्य सिद्धावभिमतायां दण्डस्य दण्डत्वात् , दण्डत्वस्य च दण्डात् सिद्धिः-दण्डोऽयमित्यनुगतमतेहि दण्डत्वं सेत्स्यति, तस्मादितरेतराश्रयो दोषः स्यात् , तेन च न कस्यचित् सिद्धिरित्याशयेन समाधत्ते-इदमापतितमिति । इतरेतराश्रयस्य सिद्धिप्रतिबन्धकत्वे सर्वतंत्रसिद्धान्तवाक्यमाहइतरेतरेति । ननु दण्डीति प्रत्ययः किं दण्डसम्बन्धात् , उत दण्डत्वसम्बन्धाद्भवतीत्याशक्य निराकरोति-दण्डीति चेति, प्रथम 20 पक्षं दूषयति-दण्ड इति, दण्डशब्दात् मत्वर्थे 'अत इति ठनाविति इन्प्रत्यये दण्डीति भवति यतस्तस्मात् दण्डसम्बन्धादेव दण्डी न तु दण्डत्वसम्बन्धादिति यधुच्यते तहिं सर्वेषां वस्तूनां खेतररूपेण भावाभावात्मकतया स्वत एव सिद्धत्वात् किं दण्डाद्यपेक्षया? न हि वस्तु खं स्वरूपमन्यत्र संक्रामयति, अन्येन वा स्वयं संक्रान्तं भवतीति भावः । दण्डीति च देवदत्तो यदि दण्डत्वाद्भवति न तर्हि दण्डीति व्यपदेश्यः, किन्तु दण्डत्वीति स्यात् , दण्डत्वेनैव तस्य सम्बन्धादित्याह-अथेति । यदा तु दण्डादेव दण्डी भवति न दण्डत्वात्तदा खत एव सिद्धो दण्डी नान्येन, अन्यथा आत्मान्तरसंक्रान्तिर्दोषः स्यादित्याह-यक्तं यावदिति। व्याचष्टे-दण्ड-25 त्वादिति, दण्डत्वादन्य आत्मा दण्डो दण्डी च, दण्डादन्य आत्मा दण्डत्वं दण्डी च, दण्डिनो वाऽन्य आत्मा दण्डो दण्डत्वञ्च तस्य संक्रान्तिः-दण्डः खतो न भवति, दण्डत्वाच्च भवन् तदात्मा भवति, एवं दण्डी खतो न भवति दण्डाच्च भवन् तदात्मा भवतीति प्रसज्यत इति भावः। तथा तथा वस्तूनां भवनमेव तत्त्वं नान्यः कश्चिद्धर्मस्तत्त्व, तद्भवनं सर्वत्राविशिष्टमिति सामान्यमुच्यते, वस्तूनामेव हि तद्भवनमिति भवनस्य वस्तुखरूपान्तर्गतत्वात् स्वतःसिद्धमुच्यते नात्मान्तरसंक्रान्तिश्चैवमित्याशयेनाहवयन्तु ब्रूम इति, दण्डस्य स्वरूपानुभवनमेव दण्डत्वम् , दण्डिनः पुरुषस्य दण्डिस्वरूपानुभवनमेव दण्डित्वम्, न तु दण्डा- 30 दिसम्बन्धनमिति न भावान्तरस्य संक्रान्तिरिति भावः। भावममुं प्रकटयति-यत्ते
ते, तदेव स्वरूपानुभवनमात्म
al
१ सि. क. दण्डत्वाद्दण्डत्वात् क.। २ क. स्वत एव वचनवद्दण्डी। ३ सि. क. यद्दण्डो दण्डो। ४ सि. यत्तेन भू, इति नास्ति । ५ सि. न तव्यतिरिक्तादिति नास्ति ।
द्वा० न० १२ (८९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org