________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[विधिनियमोभयारे
त्त्वात् खपुष्पवत्, सदसतः सम्भवाभावादित्युक्तम्, यथा च सत्तायामित्यादि भावनार्थं द्रव्यादेर्द्रव्यत्वादेव स्वत एवाभिधानप्रत्ययौ तदात्मत्वात् सत्तावदिति सद्देव्यादेस्तदात्मत्वं - सदात्मत्वं द्रव्यादेरेवं द्रव्यत्वगुणत्व[कर्मत्व]सामान्यादिनित्यैकसर्वत्रगेषु सामान्यसामान्यविशेषशून्येष्वपि सदभिधानप्रत्ययौ सर्वत्र स्त इति सर्वव्यापितां न्यायस्यास्य दर्शयति, किञ्चान्यत् - दण्डेऽपि चेत्यादि - योऽपि दण्डित्ववदिति दृष्टान्तः 5 सोऽपि तादात्म्यादेव - दण्डस्य भवनात्मत्वादेव दण्डाभिधानप्रत्ययसिद्धौ सत्यां स्वत एव दण्डनि देवदत्ते दण्डीय भिधानं प्रत्ययन कैरोति, तावभिधानप्रत्ययौ, तादात्म्यादित्यनेनार्थेन विना न भवतः, अतोऽस्मदिष्टमर्थं साधयति, इतरथा दण्डिकुण्डल्यविशेषः स्यात्, साधनञ्चात्र दण्डोऽपि स्वरूपाभिधानप्रत्ययकारी स्वत एव तादात्म्यात् सत्तावत्, तथा दण्ड्यपि, तत एव तद्वत्, तथा चेत्यादि, एवञ्च सति दण्डत्वसामान्यविशेषनिरपेक्षः स्वत एव भवति दण्डः तादात्म्यात् सत्तावदिति सिद्धम् ।
दण्ड
अथोच्येत दण्डोsपि दण्डत्वाद्दण्डाभिधानप्रत्ययभागिति, अनुदाहरणं तर्हि दण्डी दण्डाद्दण्ड्यभावात्, दण्डस्य स्वतोऽसिद्धत्वात्, दण्डत्वोपपादितदण्डाद्दण्डीति चेत्, इतरेतराश्रयत्वात्, दण्डत्वतत्त्वाद्दण्डसिद्धिः दण्डविशेषणसाधितदण्डत्वसिद्धेर्दण्डत्वतत्त्वसिद्धिरिति, दण्डीति च दण्डाद्दण्डी, न तु दण्डत्वात् स्वत एव भवद्दण्डी, आत्मान्तरसंक्रान्तिश्चैवम्, त्वादात्मान्तरं दण्डः स्वत एवाभवन् दण्डत्वाद्भवन् तदात्मा भवति, एवं दण्ड्यपीति, वयन्तु 15 ब्रूमो यत्तद्दण्डेन भूयते तस्यैव दण्डत्वात् यद्दण्डी दण्डी भवति स देवदत्तो भवत्यात्मानं लभते, तदभावेऽसामान्यात्मकत्वमेव सर्वस्य स्यात्, यदि सा स्वत एव न भवति सत्तासामान्यादितत्वाद्भवति नास्त्येव सा, खपुष्पवत्, ततश्चासामान्यमेव सत्तादिः स्यात् स्वत एव भवतः समानस्याभावात्, तस्मात् स्वत एव दण्डो भवति स्वत एव सदभिधानप्रत्ययौ, न सत्तायोगात् एवं दण्ड्यपि ।
अथोच्येतेत्यादि, वैशेषिको दण्डमपि दण्डत्वाद्दण्डव्यतिरिक्तान्मन्यते दण्डाभिधानप्रत्ययभाजम्,
10
20
७०२
सत्ता, वैयर्थ्यात्, नासतः, खपुष्पादेरिवासत्त्वादेव, नापि सदसतः, त्वन्मते सदसदात्मकस्य वस्तुनोऽसम्भवादित्येवं प्राकू प्रपश्चित त्वादिति भावः । सतो भवनलक्षणं तादात्म्यं सत्तायामिव द्रव्ये द्रव्यत्वगुणत्वादौ चाविशेषाद्वर्त्तत इति सर्वत्र स्वत एवाभिधानप्रत्ययौ भवत इत्याह-यथा चेति । दण्डनिमित्तादण्डदण्डित्ववदिति दृष्टान्तं विघटयति-योऽपि दण्डित्ववदिति, दण्डस्य स्वत एवात्मलाभात् दण्डाभिधानप्रत्ययावपि स्वत एव, न तु दण्डत्वात् एवं दण्डिनोऽपि स्वत एव स्वरूपानुभवनात् खत एव दण्ड्यमि25 धानप्रत्ययौ भवतो न दण्डनिमित्तात्, न हि तादात्म्यमन्तरेण तावभिधानप्रत्ययौ भवत इति भावः । तादात्म्यं विनाप्यन्येन यदि तौ भवेतां तर्हि य एव दण्डी पुरुषः स एव कुण्डल्यपि स्यात्, पुरुषाविशेषात्, अत्यन्तभिन्नेन वा दण्डेन दण्ड्यादेः सम्बन्धासम्भवात् सम्भवे वा सर्वत्राविशेषात् कुण्डलिन्यपि दण्डसम्बन्धसत्त्वात् सोऽपि दण्डी स्यादित्यविशेष इत्याशयेनाह - इतरथेति । उक्तार्थमेव प्रयोगेण दर्शयति-साधनञ्चात्रेति, स्वत एव न दण्डत्वसम्बन्धात्, तत एव - तादात्म्यात्, तद्वत्-सत्तावत् । अथ सामान्यविशेषादेवाभिधानप्रत्ययौ भवतः, अन्यथा सामान्यविशेषवैयर्थ्यात् एवञ्च दण्डो न स्वत एवाभिधानप्रत्यय30 भाक्, किन्तु घटपटादिव्यावर्त्तकनिखिल दण्डानुवर्त्तकदण्डत्वमहिम्नैवेत्याशङ्कते - अथोच्येतेति । यस्य स्वतोऽभिधानप्रत्ययौ भवतस्तेनैवान्यत्र तदभिधानप्रत्ययौ स्यातामिति न नियमः, सामान्याद्यथाऽभिधानप्रत्ययौ तथा तद्व्यतिरिक्तादपि सिद्धाद्रव्यादेः, यथा शुक्लादिगुणसम्बन्धात् शुक्लः पट इत्याशयेन वैशेषिकः जात्यतिरिक्तादपि विशिष्टाभिधानप्रत्ययौ ब्रूते-वैशेषिक इति विशिष्टप्रत्यये विशेज्ञानस्य कारणत्वात् प्रथमं दण्डत्वेन दण्डे दण्डाभिधानप्रत्ययसिद्धौ ततस्तद्योगात् पुरुषे दण्डीतिप्रत्ययाभिधानौ भवत इति भावः ।
१ सि. क. डे. सतय इत्यादेः । २ सि. सर्वसतीति, क. डे, सर्वत्र सतीति । ३ सि. क. कुर्वन्ति । ४ सि. क. यथा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org