________________
स्वतोभिधानप्रत्ययौ] द्वादशारनयचक्रम्
७०१ तापि किं कार्यस्य सत्तया सम्बन्धः सतोऽसतः सदसतो वा ? इत्युपालम्भान्न मोचित एवाऽऽत्मा, तद्यथा कार्यस्य किं सत्तया सम्बन्धो निष्ठितस्यानिष्ठितस्य निष्ठितानिष्ठितस्येति समानप्रचर्चत्वान्न शब्दान्तरमात्रोच्चारणात् दोषपरिहारः, यत्पुनद्रव्यादीनामित्यादि, द्रव्यादीनां स्वत एवाभिधानप्रत्ययविषयत्वं सत्त्वात्स्वतःसत्त्वात् , स्वभावसत्त्वादित्यर्थः, किमिव ? सत्तादिवदिति व्याख्यानमनिष्टापादनसाधनं वैशेषिकं प्रति गतार्थं यावन्न सत्तायोगादित्युक्तेः, उच्यते परिहारः किल काणादैः-नैतत्, अतादात्म्यात्-स आत्मा । यस्य तत्तदात्म सत्तादि, तद्भावस्तादात्म्यं तद्वैधादतादात्म्याव्यादीनाम् , तद्व्याख्या यावदभिधानादीति गतार्थम् , दण्डनिमित्तादण्डदण्डित्ववदिति दृष्टान्तः-यथा दण्डोऽस्यास्तीति दण्डीति दण्डित्वमदण्डाद्दण्डिनो दण्डनिमित्तमेवं द्रव्यादेरसदात्मनः सत्तानिमित्तं सदभिधानादीति ।
__ अत्र वयं सम्प्रधारयामस्त्वया सह कथमिदं तादात्म्यं किं सतो भावात् ? उत सत्करत्वादिति, तद्यदि तावत् सतो भवनं ततः सर्वेणापि सता भूयते, स्वत एव अथ सत्कर-10 त्वात्तादात्म्य तत् प्राक् प्रत्युक्तम् , यथा च सत्तायां स्वत एव सदभिधानप्रत्ययौ तदात्मत्वादेवं द्रव्यादौ द्रव्यत्वादौ नित्यैकसर्वत्रगेषु सामान्यसामान्यविशेषशून्येष्वपि, दण्डेऽपि च तादात्म्यादेव दण्डाभिधानप्रत्ययसिद्धौ स्वत एव दण्डिनि तौ तादात्म्यात्, इतरथा दण्डिकुण्डल्यविशेषः स्यादिति, तथा च दण्डत्वसामान्यविशेषनिरपेक्षः स्वत एव भवति दण्डस्तादात्म्यात् सत्तावदिति सिद्धम् ।
15 (अत्र वयमिति) अत्र वयं सम्प्रधारयामस्त्वया सह कथमिदं तादात्म्यं ? किं सतो भावात्-य[त् ] सद्भवति तत्तस्य सतस्तादात्म्यं-आत्मलाभः स्वरूपानुभवनम् , उत सत्करत्वादिति, तद्यदि तावत् सतो भवनं ततः सर्वेणापि सता भूयते-सत्तादिना द्रव्यादिना वा स्वत एवेत्युक्तम् , अथ सत्करत्वात्तादात्म्यं सद्भवतीति तत्प्राक् प्रत्युक्तम्-स्वतःसिद्धस्य द्रव्यादेः सत्ता सत्करी न भवति, वैयर्थ्यादसतोऽससदादिविकल्पसदृक्षा एव केवलं शब्दमात्रमेदो न त्वर्थभेदः, अत एषु प्रदर्शिता दोषास्तदवस्था एवेत्याशयेनाह-तद्यथेति । ननु 20 सत्तादौ यथा स्वत एव सतीत्यभिधानप्रत्ययौ न तु सत्तासम्बन्धात्तथैव द्रव्यादावपि स्वत एव सदित्यभिधानं प्रत्ययश्च भवेताम् , किं सत्तासम्बन्धेनेति वैशेषिकं प्रत्यनिष्टमापादयति यत्पुनरिति । ननु भावखरूपेणैकजातीयेन स्वरूपसद्रूपमात्रवस्तुना वा प्रतिनियतानुवृत्तधर्मसम्बन्धव्यतिरेकेण प्रतिनियतजातीयविषयाभिधानप्रत्ययादयोऽनुभवसिद्धा न भवेयुरिति तत्तजातीयाभिसम्बद्धा भावभेदा: प्रमीयन्ते, धर्माणान्तु प्रतिनियतत्वमनवस्थाप्रसङ्गतः खत एव, न धर्मान्तरसम्बन्धात्, न च भावा एव खतो विशिष्टाः, अनुवृत्तिप्रत्ययविषयत्वानापत्तेः, खत एवं प्रतिविलक्षणत्वाद्धावानामिति सत्ताद्रव्यत्वपृथिवीत्वादयो धर्मा विशेषणतया भावस्वरूपतया भावैकव्यङ्ग्यतया च प्रतिप्राणि प्रसिद्धाः, तस्मात् सत्ताद्रव्यत्वपृथिवीत्वादिसहव्यपृथिव्याद्योः परस्परं वैलक्षण्यात्तदात्मभूतसत्ताद्रव्यत्वादि. विलक्षणत्वाद्रव्यादेदण्डसम्बन्धात् पुरुषस्य दण्ड्यमिधानप्रत्ययवत्सत्त्वाद्यभिसम्बन्धसद्भावादेव द्रव्यादीनां सदायभिधानं न खतः, खरूपे वैलक्षण्यवैधुर्यादित्याशयेन वैशेषिक आह-अतादात्म्यादिति, यत्किञ्चित्स्वरूपभूतसत्त्वादिधर्मवैलक्षण्यादित्यर्थः, सामान्यात्मकत्वाभावादिति यावत्, वस्तु सत्तायाः सम्बन्धेन सदभिधानप्रत्ययविषयो भवति, यथाऽदण्डस्वरूपः पुरुषो दण्डसम्बन्धाद्दण्डीत्यमिधानप्रत्ययविषयो भवति, सामान्यन्तु धर्मिग्राहकप्रमाणात्तद्रूपतयैव सिद्ध्या खत एवाभिधानप्रत्ययविषय इति न द्रव्यसाधयं सत्ताया 30 इति सत्तावैलक्षण्यान्न स्वतः सदभिधानप्रत्ययविषयत्वं द्रव्यादेरित्याह-दण्डनिमित्तेति। अतादात्म्यादित्यत्र तादात्म्यशब्दार्थविचारपूर्वकं मतमिदं निराकरोति-अत्र वयमिति। अतादात्म्यप्रतियोगितया यत्तादात्म्यमुच्यते तत् किं यत् सद्भवति तस्य सतो भावात् तादाम्यम् , किंवा सत्करत्वात् तथोच्यत इति विकल्पयति-कथमिदमिति । प्रथमं दूषयति-यदि तावदिति, तथा चातादात्म्यात् सत्तानिमित्तं सदमिधानमिति न युक्तमिति भावः । द्वितीयं दूषयति-अथेति।प्राक् प्रत्युक्तता सूचयति-स्वतःसिद्धस्येति सतो न सत्करी
१-२ सि. क.क्ष. डे. भिधानादिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.