________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
इदानीं सूत्रकारमतं समर्थयतां वाक्य - भाष्य - टीकाकाराणां मतानि समाहृत्य प्रधानानुगामित्वाच्छेषाणां सूत्रकारमतमेवेत्थं दूषयितुमाह
तत्त्वोपनिलयनात् सदाद्यभिधानार्थं कारणसमवेतस्य वस्तुन उत्तरकालं सत्तासम्बन्ध इति बहूनां मतम्, वस्तूत्पत्तिकाल एवेति तु वाक्यकाराभिप्रायोऽनुसृतो भाष्यकारैः सिद्धस्य 5 वस्तुनः स्वकारणैः स्वसत्तया च सम्बन्ध इति प्रशस्तमतेरभिप्रायः, अस्मदभिप्रायस्तेषां त्रयाणामप्यसत्यतेति, परस्परविरुद्धार्थत्वात्, कुमारब्रह्मचारिपितृत्ववत्, इदमेवोदाहरणमन्यत्र, एवं - वक्तुरिव सर्वेषां शास्त्रकारमतानुवर्त्तित्वात् स एवानाप्तः स्यात् ।
(तत्त्वेति ) तत्त्वोपनिलयनात् सदाद्यभिधानार्थं कारणसमवेतस्य वस्तुन उत्तरकालं सत्ताम्बन्ध इति बहूनां मतम्, वस्तूत्पत्तिकाल एवेति तु वाक्यकाराभिप्रायेोऽनुसृतो भाष्यकारैः, सिद्धस्य 10 'वस्तुनः स्वकारणैः स्वसत्तया च सम्बन्ध इति प्रशस्तमतेरभिप्रायः, अस्मदभिप्रायस्तेषां त्रयाणामप्यसत्यतेति, कस्मात् ? परस्परविरुद्धार्थत्वात् दर्शिता विरुद्धार्थता, किमिव ? कुमारब्रह्मचारिपितृत्ववत् - यदि पिता कथं कुमारब्रह्मचारी, ? अथ कुमारब्रह्मचारी कथं पितेति ? इदमेवोदाहरणमन्यत्रेति - स्वोक्तोपपत्त्यभ्युपगमविरुद्ध।र्थत्वादिष्वप्येतदेवोदाहरणं वाच्यमिति, एवंवक्तरिवेत्यादि, सर्वेषां - वाक्यभाष्यटीकाकाराणां शास्त्रकारमतानुवर्त्तित्वात् स एवानाप्तः, असत्यवादी चेत्येतदपि स्यादिति लोकानुवृत्त्या साशङ्कमिवोच्यते 15 मा भूत्तीर्थकरगौरवाकृष्टमतिभिरनाप्त एवेति निष्ठुरवचनकुपितैः सह तद्भक्तैः कलह इति ।
किचान्यत्——
७००
www.wm
"
सदादिविकल्पानुपपत्तिश्च तदवस्थैव, यत्पुनर्द्रव्यादीनां स्वत एवाभिधानप्रत्ययविषयत्वं सत्त्वात् सत्तादिवत् यथा च सत्तायां स्वत एवाभिधानप्रत्ययौ एवं द्रव्यादेः, न सत्तायोगादित्युक्तेरुच्यते परिहारः काणादैनैतत्, अतादात्म्याद्दण्डनिमित्तादण्डदण्डित्ववत्, यथाऽद20 ण्डाद्दण्डिनो दण्डित्वं दण्डनिमित्तमेवं द्रव्यादेरसदात्मनः सत्तानिमित्तं सदभिधानादीति । (सदादीति) सदादिविकल्पानुपपत्तिश्च तदवस्थैव - उक्तवन्निष्ठासम्बन्धयोरेककालत्वादिति ब्रुव
Jain Education International 2010_04
www.www
विषये मतमेदानि संक्षिप्योपदर्श्य तन्मूलाधारसूत्रकारमतं दूषयितुमाह-तत्त्वोपनिलयनादिति, तत्त्वानां सत्त्वादीनामुपनिलयनात् -सम्बन्धात् वस्तुनः सदाद्यभिधानं भवति, तत्र कार्यद्रव्यादेस्तत्त्वोपनिलयनं कदा भवतीति चिन्तायां प्राक् कारणैः समवेते कार्ये पश्चात् सत्तादीनां सम्बन्ध इति बहुभिर्मन्यते, कार्योत्पत्तिकाल एव सत्तादिसम्बन्ध इति वाक्यकारस्य भाष्यकारस्य च मतम्, परिनिष्ठां 25 गर्तं कार्यं स्वकारणैः सत्तया चाभिसम्बध्यत इति टीकाकृतः प्रशस्तमतेरभिप्राय इति दर्शयति तत्त्वेति । एतानि त्रीण्यपि मतान्ययथार्थान्येवेति नयचक्रकारैः प्रदर्श्यते - अस्मदभिप्राय इति । हेतुमाह - परस्परेति, उत्पत्तिसम्बन्धयौगपद्येन सम्बन्धस्योत्तरकालीनत्वं निष्ठितस्य कारणसत्तासम्बन्धत्वश्च विरुद्ध्यत इत्यसत्यता तेषां मतानामिति भावः । दृष्टान्तं दर्शयति- कुमारेति, कुमारत्वादिविशेषणविशिष्टतायां विरुद्वत्वं बोध्यम् । इदमेवोदाहरणं पूर्वोदितेष्वभ्युपगमविरुद्धत्वस्वोक्तोपपत्तिविरुद्धार्थत्वादिहेतुषु भाव्यमित्याह- इदमेवेति । दर्शनप्रवर्त्तकसूत्रकार स्यानाप्तत्वमाह एवं वक्तुरिवेति, कुमारब्रह्मचारी पितेति वक्तुरिवेत्यर्थः । स्यादिति सम्भावना लिङ30 न्तोक्तेः कारणमाह-स्यादितीति । निष्ठासम्बन्धयोरेककालत्वपक्षेऽपि पूर्वोदितसदादित्रयविकल्पानुपपत्तिदोषो दुरुद्धर एवेत्याहसदादीति । व्याचष्टे - उक्तवदिति, स्वकारणैः सत्तया च सम्बन्धः किं परिनिष्ठां गतस्य गच्छतो वोभयरूपस्य वेति प्रकृतविकल्पाः १ सि. क. क्ष. डे. मित्वाद्दोषाणां । २ सि. क. क्ष. गौरवाकृष्णमति० ।
For Private & Personal Use Only
www.jainelibrary.org