________________
व्याख्यान्तरभङ्गः ]
द्वादशारनयचक्रम्
व्यपदेश्याधाराश्च व्यणुकादिकार्ये, विभुत्वपरिमण्डलत्वगुणयोर्वा ऽऽश्रयभूतयोर्वा ऽऽकाशपरमाण्वोर्व्यणुकादिव्यपदेश्याधारत्वं समवेतत्वच सिद्धम्, तथा द्रव्यादिकार्यस्येति एवं तावत् परिनिष्ठितसंम्बन्धं ब्रुवतो द्रव्यस्य समवायिकारणत्वनिवृत्तिप्रसङ्गपरिहारोऽसमर्थः ।
योऽपि च कार्यकारणयुतसिद्धिदोषस्य परिहारः - तस्यासंयोगात् न हि कारणसम्बन्धिभिः कार्यस्य संयोगोऽस्ति, द्वयोरङ्गुल्योराकाशे युज्यमानयोः संयोगस्य सम्बन्धिनोः पृथक् 5 सिद्धयोरिवेति सोऽपि न परिहारः उक्तवदसंयोगासिद्धत्वात्, यदि तत्रोत्पन्नताद्यसिद्धिः सम्बन्धासिद्धिश्च स्यात् स्यादसंयोगः ततः परिहारश्च युतसिद्धिदोषस्य स्यादिति ।
wwwwww
योऽपि चेत्यादि, अस्मदुक्तस्य कार्यकारणयुतसिद्धिदोषस्य परिहारो योऽभिहितः - तस्याः संयोगादिति, तद्व्याचष्टे-न हि कारणसम्बन्धिभिः कार्यस्य संयोगोऽस्ति, यथा द्वयोरङ्गुल्योराकाशे युज्यमानयोः संयोगस्य व्यङ्गुल्याकाशसंयोग कारणस्य सम्बन्धिनो: युतसिद्धयोः संयोगो न तथा कारणसम्बन्धिभि: 10 कार्यस्य द्रव्यादेः कश्चित् संयोगोऽस्ति यतो युतसिद्धिदोष आपाद्येत पृथक् सिद्धयोरिव तस्मादसंयोगात् संयोगवैधर्म्यात् पृथक् सिद्ध्यभाव इत्यत्रोच्यते- सोऽपि न परिहारः, उक्तवदसंयोगासिद्धत्वात्, यदि तत्र परिनिष्ठितं प्रवृत्तमारब्धं कथं तेनासम्बद्धमित्यादिना प्रपञ्चेन सम्बद्धत्वमेवेत्युक्तम् सम्बन्धसमवायशब्दव्याख्यानेन च, तस्मादुक्तवदसंयोगस्यासिद्धत्वादपरिहारः, यदि तत्रोत्पन्नताद्यसिद्धिः सम्बन्धासिद्धिश्च स्यात् स्यादसंयोगः ततः परिहारश्च युतसिद्धिदोषस्य स्यात्, एवं तावद्व्याख्यानान्तरमप्ययुक्तम् ।
Jain Education International 2010_04
६९९
समवेतञ्च भवति यथा विभुपरिमण्डलवियदादीनि, विभूनि च परिमण्डलानि च विभुपरिमण्डलानि विभुपरिमण्डलानि च तानि वियदादीनि चेति विग्रहः, वियदादिपदेन गगनादिविभुचतुष्टयद्रव्याणि परमाणवश्च गृह्यन्ते, तत्र गगनादीनि चत्वारि द्रव्याणि वस्तुभावमापन्नानि व्यपदेश्यभूतान्याश्रयाणि तेषु च विभुत्वं समवेतमिति विभुत्वगुणसमवेतानि, यथा वा परिमण्डलशब्दवाच्याणुपरिमाणगुणाः परमाणवो द्व्यणुकादिकार्ये परिनिष्ठिताः परिमण्डलत्वेन समवेता व्यपदेश्याश्रयाश्च तथा द्रव्यादिकार्यमपि व्यपदेश्याधारं निर्वृत्तेः प्रागपि स्वकारणेषु समवेतञ्चेति मन्यस्वेति भावः । एवञ्च परिनिष्ठितस्यैव कार्यस्य कारणैः सह सम्बन्धेऽभिमते कार्यस्यान्यत्र परिनिष्ठितत्वा- 20 तन्त्वादिद्रव्यं समवायिकारणं न सेत्स्यति, तत्रानुत्पन्नत्वादित्याशयेनाह एवं तावदिति, असम्बन्धादित्यादिहेतुभिः समवायसम्बन्धशब्दार्थखरसेन चाव्यक्तसद्व्यक्तसद्भवनस्य सिद्धौ सत्यां परिनिष्ठितस्य कारणेन सम्बन्धमभ्युपेत्य मदुद्भावितसमवायिकारणत्वनिवृत्तिप्रसङ्गस्य यः परिहारोऽन्यत्रासमवायादिति यदुच्यते सोऽसमर्थ एवेति भावः । अथ परिनिष्ठितस्य कार्यस्य कारणैः सम्बन्धे युतसिद्धि - दोषं प्रदर्शितं परिहर्तुं वैशेषिकेणोक्तं साधनं दूषयितुमाह-योऽपि चेति । व्याकरोति-अस्मदुक्तस्येति । कार्यकारणभावानापन्नयोः पृथक् पृथक् सिद्धयोर्हि सम्बन्धः संयोग उच्यते, यथा द्व्यङ्गुलिद्रव्ययोः संयोगकारणयोराकाशे पृथक् पृथक् सिद्धयोः परस्परं 25 सम्बन्धः संयोगो भवति न तथा कार्यकारणयोः पृथक् पृथक् सिद्धिरस्ति, तस्मान्न तयोः सम्बन्धः संयोग इत्याशयेनाह - तस्यासंयोगादिति, तस्य कार्यस्य संयोगाभावादित्यर्थः, तद्घटयति-नहीति, अङ्गुलिद्वयसंयोगं प्रति विभिन्नदिक्काकाशाङ्गुलिसंयोगस्य हेतुतया कारणस्य द्व्यङ्गुल्याकाशसंयोगस्य सम्बन्धिनोरङ्गुल्योः संयोगो यथा भवति तथा कारणीभूतावयवसम्बन्धिभिः कैश्चिन्न कार्यस्यावयविनो द्रव्यादेः संयोगोऽस्तीति न युतसिद्धौ तन्तुपटौ येन संयोगस्तयोः स्यादिति भावः । दृष्टान्तमाह - पृथगिति पृथक् पृथक् सिद्धयोर्घटपटाद्योर्यथा संयोगो भवति तद्वदित्यर्थः । एवञ्च पृथक् सिद्धौ घटपटौ, तन्तुपटौ तु न पृथक् सिद्धाविति वैधर्म्यान्नानयो - 30 र्युतसिद्धिरित्याह- तस्मादिति । तस्यासंयोगादिति हेतुमसिद्धयन्नाह - सोऽपीति । यदि तन्तुषु पटः परिनिष्ठितः प्रवृत्त आरब्धश्च ततः कुतो न तन्तुभिः सम्बध्यते, असम्बद्धत्वे तु न तत्र परिनिष्ठितः प्रवृत्त आरब्धश्च स्यात्, न वा सम्बन्धः समवायो वा स्यात् कारणेन कार्यस्य, तस्मात् सम्बन्धोऽस्त्येव, स च सम्बन्धो युतसिद्धत्वात् संयोग एव, न समवाय इत्याशयेनाह - यदि तत्रेति । आरम्भप्रवृत्तिनिष्ठा यदि तत्र न भवन्ति तदा स्यादसम्बन्ध इत्याह-यदि तत्रेति । अथ पूर्वमुपदर्श्य निराकृतान्येव सत्ता सम्बन्ध१ सि. क. कादिर्व्य० । २ सि. क. सम्बन्धो० ।
For Private & Personal Use Only
15
www.jainelibrary.org