________________
६९८
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे . योऽयमित्यादि, आह–समित्येकीभाववाच्ययमुपसर्गः, एकीभावेन बन्धः सम्बन्धः, अनेक कारणाख्यं वस्तु सदेकमेव कार्याख्यं भवति परस्परेण बध्यते, तमर्थमाह-अनेकस(कात्मकत्वात्-अनेकस्य तन्त्वादेः प्रतिस्वमात्मानमपरित्यज्य सर्वैकसंघातभवनेन पटादिकार्याख्येने परिणतेः, एकीभावेन गतिः-गमनपरिणतिरयः, अव-अपगमनेन-प्राच्यसंस्थानादिधर्माणां त्यागेन, द्रव्यपर्यायाभ्यां तन्तुत्वापरित्यागेने पटत्व5 परिणामः, संबन्धः समवाय इत्यक्षरार्थानुसारेणोक्त्वा वस्तुनि स्फुटीकर्तुमाह-कारणसत्कार्यैक वलक्षणः-कारणेषु विप्रकीर्णेषु सत्कार्यमेकत्वमापन्नेषु पटीभवद्व्यक्तिं यातीत्येष परमार्थः, तदापत्तिरूपादित्यादि, ऐतं द्रव्यपर्यायात्मकस्याद्वादपरमार्थवादं मा प्रपत्स्येऽहमित्यकस्माद्भयात् स्वपक्षरागसमुत्थात् परपक्षद्वेषाच्च त्वयेदममार्गप्रपैदनमस्थाने शक्तिक्षयायैवं क्रियते, कैतमदमार्गप्रपदनमिति चेदुच्यते-यदिदमव्यपदेश्याधारत्वं प्राग्व्या
ख्यातं तत्पुनः किमर्थमारभ्यते ? इहेति यतः कार्यकारणयोः समवाय इति इहबुद्ध्यभिधानाभ्यां कारण10 गताभ्यां समवायोऽनुमीयते, सोऽपि च न सम्भवति कार्यस्यासत्त्वात् , तस्मादव्यपदेश्याधारकार्यसम्बन्धकल्पना क्रियतेऽयमुत्पथगमनक्लेशो निरर्थकश्च ।
सोऽपि च मिथ्याभिमान एव मन्यतान्तु तत्रैवास्तीति, परिनिष्ठितत्वात् , विभुपरिमण्डलवियदादिवत् ।
(सोऽपि चेति) सोऽपि च मिथ्याभिमान एव-अव्यपदेश्याधारं द्रव्यादिकार्यमसमवेतञ्च 15 कारणैः प्रागुत्पत्तेरिति मा मंस्थाः, मन्यतान्तु तत्रैवास्तीति-तथा च मन्तव्यं व्यपदेश्याधारं द्रव्यादिकार्य
समवेतश्च स्वकारणैः प्रागपि निर्वृत्तेः त्वन्मतेनैव परिनिष्ठितत्वात्-वस्तुभावमापन्नत्वात् , विभुपरिमण्डलवियदादिवत्-यथा विभुत्वपरिमाणान्याकाशकालदिगात्मद्रव्याणि परिनिष्ठितत्वात् विभुत्वगुणसमवेतानि व्यपदेश्याधाराणि च तथा द्रव्यादिकार्यम् , परिमण्डलपरिमाणाः परमाणवः परिमण्डलत्वेन समवेताः सम्बन्धशब्दार्थ दर्शयति-समितीति, अनेके तन्तवः परस्परमेकीभावेन बध्यमानाः पटाख्यां लभन्त इति भावः। एनमेवार्थमाह20 अनेकेति, अनेकेषां तन्त्वादीनां न सर्वात्मना न वैकदेशेन सम्बन्धः, न वा नास्ति संबन्धः, किन्तु विश्लिष्टरूपतापरित्यागेनानेकेषां तन्तूनां संश्लिष्टरूपतया खरखजात्यपरित्यागेन कथञ्चिदन्यथात्वलक्षणैकत्वपरिगतिः सम्बन्ध इति भावः । समवायशब्दार्थमाह-एकीभावेनेति, अयं समुपसर्गस्यार्थः, गतिरयधातोरर्थः, अवेत्युपसर्गस्यापगमोऽर्थः, एकीभावेन प्राक्तनसंस्थानादिधर्माणां त्यागेन तन्तुत्वादिखस्वरूपापरित्यागेन कथञ्चिदन्यथात्वलक्षणा पटादिकायोख्या परिणतिः समवाय इत्यर्थः। कारणेति. पूर्व विप्रकीर्णेषु तन्त्वादिका
रणेषु अव्यक्तरूपेण सत् कार्य पटादि सामग्रीव्यापारापेक्षां कथञ्चिदन्यत्वलक्षणामेकत्वपरिणतिमापन्नेषु तन्त्वादिषु व्यक्तं भवतीत्यर्थः। 25 एवं स्वीकारे परपक्षाश्रयणं भविष्यतीति मन्वानेन भवता वस्तुभूतमप्यर्थ परपक्षद्वेषात् परित्यज्योन्मार्गप्रतिपत्तिः केवलं शक्तिक्षयनिदा
नभूता वीक्रियत इत्याह-तदापत्तीति, स्याद्वादापत्तीत्यर्थः, त्यागे स्वपक्षरागः परपक्षद्वेषश्च हेतू । केयमुन्मार्गप्रतिपत्तिरित्यत्रोच्यतेयदिदमिति, अव्यपदेश्य आधारस्तन्त्वादियस्य तत्कार्य पटादि, तद्विषयाभ्यामिह तन्तुषु पट इतीहबुद्ध्यमिधानाभ्यां यः समवायोऽनुमीयते स केवलं शक्तिक्षयायैव भवति, कार्यस्यासत्त्वात् , असतः केनचित्समवायाभावाञ्चति भावः। यत्त्वमवोचः कार्यमव्यप
देश्याधारं प्रागुत्पत्तेः कारणेऽसमवेतमिति तदपि न यथार्थाभिधानमपि तु तत्रैवास्तीति मन्यस्खेत्याह-सोऽपि चेति । व्याख्याति30 अव्यपदेश्यति । तदभिधानतो वैपरीत्येनाभ्युपगन्तव्यं प्रकटयति-तथा चेति । विभिवति, यत्परिनिष्ठितं भवति तद्व्यपदेश्याधारं
सि. क. डे. भनेकसर्वात्मकत्वात् । xx क.। २ सि. क. एष। ३ सि. क. प्रत्यत्स्यह०। प्रमर्दनः। ५ सि. क. क्षपर्यवं।xx सि.
४ सि. क.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org