________________
६९७
सम्बन्धसमवायशब्दार्थों ]
द्वादशारनयचक्रम् अकारणत्वादिति चेत् , पटाद्यपि कार्य मोत्पादि, अकारणत्वात् , खपुष्पवत् , तद्वोत्पद्यताम् , अकारणत्वात् , कार्यस्योत्पत्तिवत् , यथा तन्त्वादीनि कार्येणासम्बन्धादसतः सतोऽप्यकारणानीति सर्वश्च कारणमकारणश्च यथायोगं स्वस्यैव कार्यस्य नासतो नान्यकार्यस्य वा, असम्बन्धात्, कार्यकारणभावश्च सम्बद्धत्वे सति भवति, तस्मात् सम्बन्धः प्रागपि कार्योत्पत्तेः।
(अकारणत्वादिति) अकारणत्वादिति चेत्-निष्कारणञ्च खपुष्पं पटादि सकारणम् , तस्माद् । दृष्टान्तदाान्तिकयोवैषम्यादयुक्तमिदमनिष्टापादनमिति चेदुच्यते-पटाद्यपीत्यादि, पटाद्यपि कार्य मोत्पादि, अकारणत्वात् खपुष्पवत् , अकारणत्वश्चास्य कारणासम्बद्धत्वात् , आकाशवत् , तद्वोत्पद्यतामिति, कारणासम्बद्धस्य कार्यस्योत्पत्तिवत् , खपुष्पञ्चोपपद्यमानकारणत्वादित्युक्तमेव, यथा तन्त्वादीनीति, तन्त्वादीनां कारणानां कार्येण सम्बन्धो यतो नास्ति तस्मात्तेष्वसतः सतोऽप्यकारणानि कार्यस्यात्यन्तासतः खपुष्पस्येव घटस्येव वा कारणान्तरसाध्यस्येत्युक्तमुपनयति-सर्वश्च कारणमित्यादि, करोतीति कारणं कर्तृसाधनम्, 10 खपुष्पादि घटादि वा तन्तुभिर्न क्रियते ततस्तत्राकारणानि पटस्तु क्रियते तस्मात्तस्य कारणानि, यो यो] योगो यथायोगं स्वस्यैव कार्यस्य-तन्तवः पटस्य कपालादीनि घटस्य, नासतो नान्यकार्यस्य वा, कस्मात् ? असम्बन्धात्, कार्यकारणभावश्च सम्बद्धत्वे सति भवति तस्मात् सम्बन्धः प्रागपि कार्योत्पत्तेः-तत्कारणैः सम्बन्धोऽस्ति, कथं तत्कार्य नितिष्ठति कारणैरसम्बद्धम् ? तस्मात् कार्यमव्यक्तसद्व्यक्तसद्भवति, सम्बद्धश्च सदा स्वकारणैरित्यनुमीयते ।
सम्बन्धसमवायशब्दार्थावप्येवमेव घटेते नान्यथेत्यत:
योऽयमेकीभावेन बन्धः स सम्बन्धः, अनेकस(कात्मकत्वात् , एकीभावेनापगमनेन गतिः, द्रव्यपर्यायाभ्यां तन्तुत्वापरित्यागेन पटत्वपरिणामः समवायः कारणसत्कार्यैकत्वलक्षणः, तदापत्तिरूपाद्भयात्त्वयेदममार्गप्रपदनमस्थाने क्रियते यदिदमव्यपदेश्याधारकार्यसम्बन्धकल्पनम् , कार्यस्यासत्त्वात् ।
20 युक्तम् , खपुष्पादेः कारणस्यैवाप्रसिद्धरित्याशङ्कते-अकारणवदिति चेदिति। व्याचष्टे-निःकारणमिति। नास्ति दृष्टान्तदा - न्तिकयोवैषम्यमकारणत्वस्योभयत्र समानत्वादित्यत आह-पटाद्यपीति । तन्त्वादिभिः पटस्यासम्बन्धादेवाकारणत्वं सिद्धमित्याहअकारणत्वञ्चेति । तथाप्युत्पादाभ्युपगमे खपुष्पमप्युत्पद्यतामस्यापि कारणत्वोपपत्तेः प्रागुपदर्शितत्वादित्याह-तद्वेति, खपुष्पं वेत्यर्थः । किमत्र कारणमित्यत्राह-खपुष्पञ्चेति, पूर्वोदितेष्वरेषूक्तमेवेत्यर्थः । कर्तृसाधनकारणशब्दाभ्युपगमेन खमतमादर्शयतियथेति, तन्त्वादिकारणेषु कार्यस्य सम्बन्धाभावात्तेऽत्यन्तासद्रूपस्य खपुष्पादेः कारणान्तरसाध्यस्य सद्रूपस्य-वा घटादेन कारणानि, 25 तन्तुभिः पटादेः क्रियमाणत्वात् कारणानि च तस्मात् सर्वमकारणमपि भवति कारणमपि च, तन्त्वादीनां खपुष्पघटादिनिरूपितकर्तृत्वाभावात् पटादिनिरूपितकर्तृत्वाच्च तेषां तैः सम्बन्धाभावेन कार्यकारणभावाभावात्तेषां तैः सम्बन्धाञ्च तद्भावादिति भावः । कारणाकारणत्वे घटयति-खपुष्पादीति । अकारणत्वे हेतुमाह-असम्बन्धादिति । अत एव कार्यकारणभावो न भवतीत्याहकार्यकारणभावश्चेति, उत्पत्तेः पूर्व कार्यस्यासत्त्वे सतोऽप्यसम्बन्धे कारकाणां व्यापारो न स्यात् , जननक्रियायोग्यवस्तुभूतकार्यनिष्ठो हि कारकाणां व्यापारः; स चासति कार्येऽसम्बद्धे वा नास्ति, उत्पन्नस्य कार्यस्येवैवञ्चोत्पत्तः प्राक् कार्यस्यासत्त्वात् कारणैः 30 सह सम्बन्धो नास्तीति व कारणानां व्यापारः ? उत्पन्न वा कारणैरसम्बद्धं कुत्र नितिष्ठेदिति भावः। तस्मादस्ति सम्बन्ध इति
यति-तस्मादिति । सम्बन्धसमवायशब्दार्थावस्यव्यक्तसव्यक्तसद्धवतीत्येनमर्थ पोषयतीत्यादर्शयति-योऽयमिति ।
15
१ सि. क. बोद्यमान। २ सि. क. कारणं।
३ सि. क. सम्बन्धाद्यत नास्ति । ४ सि.क. भ.डे. सर्वत्र ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org