________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे हित:-समवायिकारणत्वनिवृत्तिरिति चेदित्याशंक्य, न, अन्यत्रासमवायादिति, तद्व्याख्यानं-यदि तस्येत्यादि सुलिखितत्वान्न विव्रियते, सोऽप्यपरिहारः, इच्छामात्रत्वात् कार्यस्य निष्ठितस्य कारणैः सम्बन्धोक्तिरन्यत्र समवायाख्यायिनी नान्यत्रासमवायादित्युत्तरवाक्यं विरुणद्धि, तञ्चेतरविरोधि, ततै उपपत्तेविरुद्धार्थत्वात् इच्छामात्रं ते वचो न परिहार इत्यत आह-खोक्तोपपत्तिविरुद्धार्थत्वात्, विरुद्धार्थी त्वमसम्बद्धत्वात्तैः कारणैः 5 कार्यस्य, तदसम्बद्धत्वमन्यत्र परिनिष्ठितत्वात् , किमिव ? तन्तुष्विव घटस्य-यथा तन्तुषु घटस्यानिष्ठितत्वादन्यत्र कपालेषु निष्ठितत्वात्तन्तुभिरसम्बद्धत्वमेव, द्रव्यादिकार्यस्य तदसिद्धमिति चेन, तत्राप्रवृत्तत्वात् , तन्तुध्विय घटस्येति वर्त्तते, तत्राप्रवृत्तत्वमन्यत्र प्रवृत्तत्वञ्च तत्रानारम्भात् , तत्रानारब्धत्वञ्च तदसम्बद्धोत्पत्तित्वात्-तैः कारणैरसम्बद्धस्य पटस्योत्पत्तिस्तत्त्वात् तत्रैवारम्भप्रवृत्तिनिष्ठाः तन्तुषु पटस्य न सन्ति घटेस्येवाकाशस्येव खपुष्पस्येव वा सामान्येनैक एव हेतुस्तदसम्बद्धोत्पत्तित्वादिति, अनिष्टापादनश्चात्र कार्यस्य चेत्यादि, 10 खपुष्पमुत्पद्यताम्, कारणैरसम्बद्धत्वात् , त्वदभिमतकार्यवत् ।
अन्यत्रासमवायादिति, तन्तुषु यथा न समवायः पटस्य तथान्यत्रापि समवायाभावात् कारणेभ्योऽन्यत्र परिनिष्ठितत्वात् समवायिकारणत्वनिवृत्तिरित्यभिधानमसङ्गतमिति भावः । अन्यत्र समवायं प्रदर्शयन्निराकरोति-सोऽप्यपरिहार इति, अन्यत्रासमवायादिति परिहारः साधनान्तराभावेनेच्छामात्रतयोक्तेर्न परिहार इति भावः । निष्ठितस्य कारणैः सम्बन्धनमन्यत्र निष्ठितत्वव्याप्यं
तदन्तरेण तदसम्भवात् , तस्मानिष्ठितस्य सम्बन्धोक्तिरेवान्यत्रानिष्ठितत्वं प्रतिरुणद्धि, यदि च तस्यान्यत्र न समवायस्तर्हि क्वाप्यसम15 वायानासौ परिनिष्ठितः स्यादित्यन्यत्रासमवायो निष्ठितत्वं विरुणद्धीत्यन्यत्रासमवायादिति वचनमिच्छामात्रवचनमेव न परिहारायालमिति निरूपयति-कार्यस्येति । इच्छामात्रत्वे हेतुमाह-खोक्तति, स्वेन प्रोक्ता योपपत्तिः-परिनिष्ठानमापन्नस्य कार्यस्य खकारणैस्तन्तुभिः समवायस्योपपादनं तया विरुद्धोऽर्थोऽस्य-अन्यत्रासमवायादित्यस्य वचनस्य तत्त्वादित्यर्थः । कुतोऽस्यार्थो विरुद्ध इत्यत्राहअसम्बद्धत्वादिति यतस्त्वया कारणैः कार्यस्यासम्बद्धत्वमुच्यतेऽत एवान्यत्र परिनिष्ठानं तस्य सेत्स्यति, यथा तन्तुषु घटस्यासम्बन्धेऽन्यत्र कपालेषु परिनिष्ठानं स्थितिः समवायो वा दृश्यते, यदि तु तस्यान्यत्र परिनिष्ठानं तर्हि यथा तन्तुषु घटस्य न कदापि 20 सम्बन्धस्तथा पटस्यापि तन्तुभिरसम्बद्धत्वमेव स्यादिति भावः । द्रव्यादिकार्यस्यान्यत्र परिनिष्ठानमसिद्धम् , गुणादौ द्रव्यादेः परिनि
ठानासम्भवादित्याशङ्कते-द्रव्यादीति । तत्राप्रवृत्तत्वादिति, द्रव्यादौ प्रवृत्त्यभावादित्यर्थः, न हि द्रव्यादौ तस्य परिनिष्ठानार्थ प्रवृत्तिरिष्टेति भावः । यथा तन्तुषु घटस्य प्रवृत्तिर्नास्ति नातस्तत्र परिनिष्ठानमिति दृष्टान्तयति-तन्तुष्विवेति । कुतो न तत्र प्रवृत्तिरिति चेद्यतस्तत्रारम्भो नास्तीति दर्शयति-तत्राप्रवृत्तत्वमिति । अनारम्भोऽपि तत्र कुत इति चेदाह-तत्रेति कारणैरसम्बद्धस्यैव कार्यस्योत्पादात्, परिनिष्ठानानन्तरं हि कारणैः सह त्वया कार्यस्य सम्बन्धोऽभ्युपगम्यते, तस्मादसम्बद्धकार्योत्पत्तिरिति 25 भावः । एवञ्च यत्रैवारम्भस्तत्रैव प्रवृत्तिः तत्रैव च परिनिष्ठान युक्तम् , तन्तुषु च न पटस्यारम्भ इति न तत्र प्रवृत्तिः परिनिष्ठानञ्च,
न हि घटस्याकाशस्य खपुष्पस्य वा तन्तुष्वारम्भप्रवृत्तिनिष्ठा भवन्ति तदसम्बन्धोत्पत्तित्वादेवं पटस्यापीत्याशयेनाह-तत्रैवेति । पटस्य तन्त्वसम्बद्धोत्पत्तित्वेऽपि यदि तन्तुष्वारम्भप्रवृत्तिनिष्ठा अभ्युपगम्यन्ते तर्हि खपुष्पमप्युत्पद्यताम् , कारणैरसम्बन्धत्वात् पटादिवदिति विपक्षेऽनिष्टमापादयति-कार्यस्य चेति । यदि कारणैरसम्बद्धस्योत्पत्तिस्तर्हि खपुष्पमप्युत्पद्यतां कार्यवदित्यनिष्टापादनं न
१ सि. क. डे. ततोऽनुप० । २ सि. क. डे. °मन्येव प्र० । ३ सि. क. हे. तद्वचनारब्धातद०। ४ सि. क. डे. त्पत्तौरदृष्ट०। ५ सि.क.डे. घटस्यैवाकाशस्यैव ।
Jain Education International 2010 04
For Private & Personal Use Only
www.jainelibrary.org