________________
समवायिकारणत्वविरोधः] द्वादशारनयचक्रम्
६९५ देवदत्तस्थालीकाष्ठादीनां व्यापाराद्वस्तु आत्मलाभमापन्नं पूर्ववदव्यपदेश्याधारं निवृत्तं सदोदनाद्याख्यं स्वकारणैस्तन्दुलादिभिः सत्तया च सम्बध्यते तथा पटाख्यमिति ।
अत्र ब्रूमः
तदपि न समवायिकारणत्वविरोधात् , स्ववचनविरोधोऽभ्युपगमविरोधश्च, यदि पुनवस्तुभावं गतं कार्य कारणैः सत्तया चाभिसम्बध्यते ततोऽनारम्भकाण्यकारणानि च कारण- 5 द्रव्याणि स्युः, किञ्च कार्यकारणगुणगुणिव्यक्त्याकृतीनामयुतसिद्धः समवायः सम्बन्ध उक्तोऽभ्युपगतश्च तयोविरोधोऽपि, इदानीं निष्ठितस्य कार्यस्य कारणैः सत्तया च सम्बन्धोऽभ्युपगतस्स च युतसिद्धः, कार्यस्य कारणेभ्योऽन्यत्र परिनिष्ठितत्वात् ।
(तदपि नेति) तदपि न, समवायिकारणत्वविरोधात् स्ववचनविरोधोऽभ्युपगमविरोधश्च दोषावित्थं ब्रुवतः, क्रियागुणवत्समवायिकारणं द्रव्यमुक्तम् , समवायिनो द्रव्यान्तरस्य गुणकर्मणोश्वारम्भ- 10 कत्वात् , यदि पुनर्वस्तुभावं गतं कार्य-द्रव्यादित्रयं कारणैः सत्तया चाभिसम्बध्यते ततोऽनारम्भकाण्यकारणानि च तन्त्वादिकारणद्रव्याणि स्युः, ततश्च वचनमभ्युपगमश्च निवर्त्तते समवायिकारणं कार्याणां द्रव्यमिति, किश्चेत्यादि यावत् परिनिष्ठितत्वादिति, एतावपि स्ववचनाभ्युपगमविरोधौ, यस्मात् कार्यकारणगुणगुणिव्यक्त्याकृतीनामयुतसिद्धः समवायः सम्बन्ध उक्तोऽभ्युपगतश्च, इदानीं निष्ठितस्य कार्यस्य कारणैः सत्तया च सम्बन्धोऽभ्युपगतः, स च युतसिद्धसम्बन्धः, कार्यस्य कारणेभ्योऽन्यत्र परिनिष्ठितत्वात् , 15 घटाकाशवत् ।
यत्तूच्यते समवायिकारणत्वनिवृत्तिरिति चेन्न, अन्यत्रासमवायात्, यदि तस्य समवायोऽन्यत्र स्यात् स्यात् समवायिकारणत्वनिवृत्तिः, न चैवम् , तस्माददोष इति, सोऽप्यपरिहारः, इच्छामात्रत्वात् स्वोक्तोपपत्तिविरुद्धार्थत्वात् , विरुद्धार्थत्वमसम्बद्धत्वात् , तन्तुष्विव घटस्य, द्रव्यादिकार्यस्य तदसिद्धमिति चेन्न, तत्राप्रवृत्तत्वात् , तत्रानारम्भात् तदसम्बद्धो- 20 त्पत्तित्वात् , कार्यस्य च तदसम्बद्धस्याप्युत्पादे खपुष्पमप्युत्पद्यतां कारणैरसम्बद्धत्वात् , त्वदभिमतकार्यवत् ।
यत्तूच्यत इत्यादि यावत्तस्माददोष इति-द्रव्यसमवायिकारणत्वनिवृत्तिदोषपरिहारो योऽभिनमुच्यत इत्यर्थः । समाधत्ते-देवदत्तेति । अभ्युपगममेनमुदस्यति-तदपि नेति। व्याचष्टे-समवायीति । दोषान्तरं समुच्चिनोति-स्ववचनेति । समवायिकारणत्वविरोधं स्फुटयति-क्रियागुणेति, अवयविद्रव्यस्य गुणकर्मणोश्च द्रव्यमारम्भकं भव- 25 तीति तस्य समवायिकारणत्वमुक्तमित्यर्थः । अथ दोषमाह-यदि पुनरिति । अनारम्भकाण्यकारणानि चेति, अन्यत्र वस्तुभावं गतस्यैव तन्त्वादिकारणैः समवायाभ्युपगमादसम्बद्धस्य कथं कारणत्वमतिप्रसङ्गादिति भावः । वचनाभ्युपगमविरोधौ दर्शयतिततश्चेति। खवचनाभ्युपगमान्तरविरोधौ दर्शयति-एतावपीति, निष्पन्नवस्तुभावस्यैव तन्त्वादिना सम्बन्धे पृथक् पृथक् सिद्धयोः सम्बन्धात् स सम्बन्धो युतसिद्ध एव स्यात् , नायुतसिद्धः, तन्तुष्वेव पटस्य परिनिष्टानाभावात् , खत एव तन्तुसम्बन्धव्यतिरेकेणैव परिनिष्ठानादिति भावः। एनामेव समवायिकारणत्वनिवृत्तिमाशंक्य प्रशस्तमतिना यत्समाहितं तदृषयितुमाह-यत्तुच्यत इति । 30 . . सि. क.क्ष. डे. क्रियावदुणसम । २ सि. क. समवायिना कार्याणां ।xx क.क्ष.। ३ सि. क. कारणत्वाद्धिदोष।
द्वा० न० ११ (८८)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org