________________
६९४
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे असत्सम्बन्ध[दोष]परिहारार्थश्चेत्यादि, निष्ठासम्बन्धयोरेक काल]त्वादित्येतदेव वाक्यं सभाष्यमसत्सम्बन्धदोषपरिजिहीर्षया विद्वस्यन प्रशस्तोऽन्यथा व्याचष्टे--सम्बन्धश्च सम्बन्धश्च सम्बन्धौ, निष्ठायाः सम्बन्धौ निष्ठासम्बन्धौ, न निष्ठा च सम्बन्धश्चेति तयोर्निष्ठासम्बन्धयोरेककालत्वात् , निष्ठितं निष्ठा निष्ठां गच्छद्गतमिति, कोऽर्थः ? कादीनां कारकाणां-कुविन्दतुरीवेमादीनां परिस्पन्दाद्वस्तुभावं-वस्तुभवनमापन्नं 5 निष्पन्नमव्यपदेश्याधारं-अव्यपदेश्य आधारोऽस्य तन्त्वादिः, सैमवायहेतुः, इह तन्तुषु पट इतीहप्रत्ययाभिधानकारणस्य समवायसम्बन्धस्य निमित्तभूतं पटाख्यं कार्य निष्ठितं निष्ठेत्युच्यते, तस्य-निष्ठितस्य स्वकारणैः सत्तया च युगपत्सम्बन्धौ भवतः, भाष्यमपीति, अस्य वाक्यस्य व्याख्या-यथाप्ययं परिनिष्ठा गच्छद्गतमित्येतमर्थ दर्शयति-केन पुनर्लक्षणेन गतं सद्गच्छदित्युच्यते ? ब्रूमः 'वर्तमानसामीप्ये वर्तमान
वद्वा (पा० ३-३-१३१) इति, किमिवेत्यतो निदर्शनमाह-यथा कारकान्तरादुत्पद्यमानं दृष्टमिति-कार10 कादन्यत्कारकं कारकान्तरमुत्पद्यमानं-उत्पन्नमित्यर्थः, कस्मात् ? दृष्टमित्यक्षिगोचरापन्नार्थनिर्देशात् , इतरथा
दृष्टं न स्यात् , उत्पद्यमानस्यानुत्पन्नत्वे दृष्टिगोचरत्वानुपपत्तेः, तत् पुनः कतमत् कारकव्यापारात् ?
व्याकरोति-निष्ठासम्बन्धयोरिति, आत्मानं विद्वांसमिवाचरति विद्वस्यति 'उपमानादाचार' इति क्यन् , विद्वस्यतीति विद्वस्यन् । सम्बन्धश्च सम्बन्धश्चेति द्वन्द्वे 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेष इत्याह-सम्बन्धश्चेति । निष्ठासम्बन्धयोस्तु प्रागुक्तरीत्या
न द्वन्द्वः कार्य इत्याह-न निष्ठा चेति, नितिष्ठतीति निष्ठा, निष्टानं निष्ठेति वा, 'आतश्चोपसर्गे' इति कप्रत्ययः, अप्रत्ययो वा, 15 निष्ठितमित्यर्थः, निपूर्वात् स्थाधातोः क्तप्रत्यये 'द्यतिस्यतिमास्थामित् तिकिति' इति सूत्रेण स्थासम्बन्धिन आकारस्येकारे निष्ठितमिति
भवति । परिनिष्ठां प्राप्नुवत् इत्यर्थकेण निष्ठाशब्देन निष्ठितमुच्यत इत्याह-निष्ठितमिति । तात्पर्य वक्ति-कर्तादीनामिति, नियतजातीयाभिसन्धानप्रयुक्तकारकव्यापारजन्यनिष्पत्तिविषयव्यपदेशयोग्यानाधारसमवायनिमित्तभूतपटाख्य कार्य निष्पन्नं तदपि निष्पद्यमानमुच्यते, तस्माद्वस्तुसत्त्वात् पटादेरुत्पत्तिक्षणावच्छेद्यौ खकारणसत्तासमवायौ भवत इत्यर्थः, अव्यपदेश्याधारं
समवायेन कार्यकारणयोर्भदस्य तिरोधानादेकत्वसदृक्षबुद्धिप्रसञ्जनादाधारस्तन्त्वादिः पटभिन्नबुद्धिविषयतानाश्रय इति भावः, इदमत्र 20 तात्पर्य समग्रसाधनव्यापारोपरम कालो व्यपदेशयोग्यतासमापत्तिकालो व्यपदेशाद्यर्थक्रियानुभवकालो वा निष्पत्तिरिति तत्र व्यपदेश
योग्यतासमापत्तिकाल एव निष्ठासम्बन्धकालस्तदानीं व्यापारोपरमकालापेक्षया निष्पन्नमपि वस्तु व्यपदेशायोग्यत्वात् परिनिष्ठां गच्छदित्युच्यत इति । एवञ्च सम्बन्धकाले वस्तुनो निष्पन्नत्वान्निष्पद्यमानत्वाच्च स्वकारणैः सत्तया च युगपत्सम्बन्धे न कोऽपि दोष इत्याशयेनाह-निष्ठितस्येति । निष्ठितं निष्ठां गच्छद्गतमित्युच्यत इति वाक्यस्य भाष्यं तदीयमुपन्यस्यति-भाष्यमपीति । निष्ठितस्य निष्ठां गच्छदिति व्यपदेशे व्याकरणसूत्रं प्रमाणयति-वर्तमानसामीप्य इति, वर्तमाने लडित्यारभ्य उणादयो बहु25 लमिति यावत् येनोपाधिना प्रत्यया उक्ताः ते तथैव वर्तमानसामीप्ये भूते भविष्यति च वा स्युरिति तदर्थः । अर्थक्रियाकालं निष्पत्ति मन्वान उदाहरति-यथा कारकान्तरादिति, शालीनां ह्येका निष्पत्तिः बीजधरणिसलिलसंयोगमात्रप्रयुक्ता, अपरा तदुत्तरकालभावितपनादिसंयोगपरम्पराजनितोपकाराधीना परिदृश्यमानशालिफलदशा, अन्या च शालिसस्यवियोजनखलप्रसारणशोषणपश्वादिमर्द, नवायू भूननादिव्यापारपरिकर्मिता, एवमन्यान्यकारकव्यापारसाध्या शालिनिष्पत्तिः, तत्र परिदृश्यमानशालिविपाककाले तपनादिसंयो
गादिकारकान्तराच्छालिसस्यवियोजनादिकारकान्तरादुत्पद्यमानमपि शालिफलमुत्पन्नमुच्यत इति भावः । कथं तदुत्पन्नमुच्यत इत्यत्र 30 हेतुमाह-दृष्टमितीति, चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वात् , न ह्यनुत्पन्नं चाक्षुषप्रत्यक्षविषयो भवितुमर्हति, प्रत्यक्ष प्रति विषयस
दावस्य हेतुत्वादिति भावः । उत्पन्नस्योत्पद्यमानता कथमिति शङ्कते-तत्पुनः कतमदिति, केन पुनः कारकव्यापारेण तदनुत्प
१ सि. क. मित्यकोऽर्थः । २ सि. क. वायि०। ३ सि. क्ष. क. डे. °न्तरमुत्पद्य० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org