________________
प्रशस्तव्याख्योपन्यासः]
द्वादशारनयचक्रम् (परिनिष्ठेति) परिनिष्ठाऽपरिनिष्ठाऽविशेषश्च दोषोपचयः, खपुष्पवत् कार्यस्यात्यन्तमसत्त्वात कारणानाश्चात्यन्तं पूर्वोत्तरकालतुल्यत्वात् , आकाशवत् किं कथं परिनिष्ठितं तिष्ठति ? न परिनितिष्ठति ? सर्वं हि सर्वदा सर्वथा परिनिष्ठितमपरिनिष्ठितं वा स्यादित्यविशेषः, एवं न सम्पूर्णसत्कार्यकारणमात्रवादित्वं सम्बन्धानर्थक्यं निष्ठाऽनिष्ठाऽविशेषश्चेति दोषाः स्वसिद्धान्तोपरोधिनस्ते, अथ पटो[ऽपि]-अथ मा भूवन्नेते दोषा इति पटोऽपि केनचिन्यायेन तन्तुष्वस्तीत्यभ्युपगम्यते सोऽप्यभ्युपगमविरोधायैकान्तवादि- । नस्तेऽनेकान्तवादाभ्युपगमो जायत इत्यत आह-ततः खकार्यकारणसत्तासम्बन्धद्वयतन्तुपटद्वयसान्निध्यं नानेकान्त[]नाश्रयणे-पटस्य कार्यस्य स्वकार्यकारणैः तन्तुभिः स्वसत्तया चेति द्वौ सम्बन्धी तावेव कार्य कारणानि च द्वावर्थाविति तदेव तञ्चतुष्टयमव्यक्तसन् पटः तन्त्ववस्थायां तन्तुभिः स्वकारणैः सत्तया च सम्बद्धः कुविन्दादिव्यापारोत्तरकालं व्यक्तसन् भवति पटात्मना परिणतेरिति द्रव्यपर्यायात्मकस्याद्वादपरमेश्वराश्रयप्रभावलभ्यमेतद्वचनसामर्थ्यम् , नान्यथेति, तस्मादेषोऽपि विकल्पोऽसत्सम्बन्धदोषदुष्ट इति। 10
__ असत्सम्बन्धदोषपरिहारार्थश्च प्रशस्तोऽन्यथा व्याचष्टे-सम्बन्धश्च सम्बन्धश्च सम्बन्धी निष्ठायाः सम्बन्धौ निष्ठासम्बन्धौ न निष्ठा च सम्बन्धश्चेति, तयोनिष्ठासम्बन्धयोरेककालत्वात् निष्ठितं निष्ठां गच्छद्गतमिति, कोऽर्थः ? कादीनां कारकाणां परिस्पन्दाद्वस्तुभावमापन्नमव्यपदेश्याधारं समवायहेतुः कार्य निष्ठितं निष्ठेत्युच्यते तस्य स्वकारणैः सत्तया च युगपत् सम्बन्धी भवत इति, भाष्यमपि-केन पुनर्लक्षणेन गतं सद्गच्छदित्युच्यते ब्रूमः 'वर्तमानसामीप्ये वर्त्त- 15 मानवद्वा' (पा० अ० ३ पा० ३ सू० १३१) इति, किमिव ? यथा कारकान्तरादुत्पद्यमानं उत्पन्नमित्यर्थः, कस्मात् ? दृष्टमित्यक्षिगोचरापन्नार्थनिर्देशात् , इतरथा दृष्टं न स्यात् , तत्पुनः कतमत् कारकव्यापारात् ? देवदत्तस्थालीकाष्ठादीनां व्यापारादिति ।
परिनिष्ठानमपरिनिष्ठान वा भवेदित्यभिप्राय वर्णयति-कार्यस्येति । उक्तापत्तेरिष्टत्वं निराकर्तुमाह-सर्व हीति, तन्तुकारणमात्रे- ' ऽविशेषाद्यथा पटस्य परिनिष्ठानमपरिनिष्ठान वा भवति तथैवाविशेषात् घटादिसर्वकार्याणामपि सर्वकालं सर्वरूपेण परिनिष्ठानमपरि-20 निष्ठानं वा भवेदिति भावः । निगमयति-एवमिति । यद्यभिप्रायविशेषतः कारणे कार्यसत्त्वमुक्तदोषोद्दिधीर्षया प्रतिजानीषे तर्हि तत्रापि दोषं बदाम इत्याशयेनाह-अथ पटोऽपीति । एतत्पक्षेऽप्यनेकान्तवादप्रसञ्जनात् तवाभ्युपगमविरोध इत्याह-सोऽ. पीति । कथमित्यत्राह-तत इति, तन्तुषु केनचिदभिप्रायेण कार्यसत्त्वेऽभिमते सति सोऽभिप्रायस्तन्तुषु . प्राक् पटात्मना पटोsव्यक्तसन् ततो व्यक्तसन् भवति इत्येवंरूप एव स्यान्नान्यथा; यतः प्राक् तन्तुषु कार्यसम्बन्धः कार्य कार्ये सामान्यसम्बन्धश्चाभ्यु-: पगतः, तस्य चायमर्थः स्यात् तन्तुषु प्राक् समवायेन पटत्वेन पटोऽस्तीति, तथा च तदानीं तथाऽदर्शनात् अव्यक्तसन्निति 25 वाच्यम् , गत्यन्तराभावात् , ततश्च साधनसामग्रीव्यापारोपरमकाले व्यक्तसन् भवतीति स्याद्वादाश्रयणमेवैषोऽभिप्रायः सूचयतीति भावः । अव्यक्तसत्त्वव्यक्तसत्त्वयोः परस्पराभावरूपयोरेकत्र धर्मिणि निरवच्छिन्नयोर्विरोधात्तद्विरोधपरिहारायावच्छेदकभेदमुपदर्शयतिद्रव्यपर्यायात्मकस्याद्वादेति, खपरद्रव्यक्षेत्रकालभावावच्छिन्नत्वविषयकोपस्थितिजनकस्यात्पदसमलतद्रव्यपर्यायात्मकवस्तुबोधकवाक्योपन्यसनात्मकस्याद्वादाभिन्नपरमेश्वरसंश्रयणमहिमासादितवचनमेवेदं त्वदीयं वचनमिति भावः । एवञ्च खसिद्धान्तप्रतिब-: न्धकदोषप्रसवक्षम एव विकल्पो निष्ठासम्बन्धयोरेककालत्वलक्षणोऽसतोऽपि शशविषाणादेः सम्बन्धसम्भवप्रभृतिदोषकलङ्ककलुषित 30 इति भावः । एतद्विकल्पधर्मिकप्रसक्तिप्रकारीभूतदोषविषयकज्ञानधर्मिकाप्रामाण्यनिश्चयोत्पादानुकूलप्रयत्नविषयकेच्छाप्रयुक्तः कटन्दीव्याख्याकार आत्मानं विद्वांसमिवाचरन् प्रशस्तमतिर्निष्ठासम्बन्धयोरेककालत्वमिति मूलमन्येन प्रकारेण व्याचष्ट इत्याह-असदिति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org