________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे विषयं कारणानां कर्तृत्वमित्यर्थव्यञ्जनसद्भावकर्तृत्वनिर्विषयाः त एव तन्तवः परिनिष्ठां गच्छन्तः सम्बध्यन्ते खपुष्पेणेव कार्यकारणनिरपेक्षाः, परिनिष्ठिताश्च सम्बद्धाश्चेति कालाविभागः कार्यकारणसत्तासम्बन्धस्येत्येतदापन्नम् , ततः को दोष इति चेत्-उक्तोऽसता सम्बन्धाभावः, पुनरपीत्थमुच्यते-तदा ते यदि तन्तव
इत्येव-कार्याभावात् कारणत्वव्यापारविमुखाः केवलं तन्तव इति पुरुषादिकारणमात्रमेवेदमिति वादवयं 5 वादः स्यात् कुतोऽसत्कार्यवादः ? सत्कार्यवादोऽपि सांख्याभिमतः प्रकृत्यन्तीना विकाराः ? इति, सोऽपि न प्रतिपूर्येत, स्तिमितसरःसलिलवद्गगनवद्वा निर्व्यापारकारणमात्रवादाभ्युपगमात् , प्रतिपूर्यतेति मा वोचं न प्रतिपूर्यत एवेति निष्ठुरमिति सानुनयमुच्यते, किमिव ? तन्त्वाकुण्डलनवत्-यथा तन्तूनामाकुण्डलीकृतानां-[अ]व्यञ्जितानामित्यर्थः, कुविन्दनयनानयनप्रसारणवयनादिक्रियानिरपेक्षाणां कारणत्वं नास्ति तत्रात्यन्तं पटकार्यादर्शनात् , न हि कुण्डलितेषु पटो दृश्यते, तथा कारणमात्रमसम्पूर्णसत्कार्यमेतत् , पूर्वोत्तरकालतु10 ल्यत्वादिति, एवं निर्व्यापारपूर्वोत्तरकालतुल्यतन्तुमात्रतायां पटाख्यस्य कार्यस्य कश्चिद्गन्धोऽपि नास्ति, अतस्तेन सम्बन्धानर्थक्यं कारणानां तन्तूनाम् , खपुष्पेणेव ।
किश्चान्यत्... परिनिष्ठाऽपरिनिष्ठाऽविशेषश्च खपुष्पवत् , अथ पटोऽपि केनचिन्यायेन तन्तुष्वस्तीत्य
भ्युपगम्यते ततः स्वकार्यकारणसत्तासम्बन्धद्वयतन्तुपटद्वयसान्निध्यं नानेकान्तानाश्रयणे, 15 तस्मादेषोऽपि विकल्पोऽसत्सम्बन्धदोषदुष्ट इति।
mammmmmmm
wwwanam
च कार्योऽर्थ इति । प्राङ्निराकृतमप्यमुमभिप्रायं दोषान्तराऽऽसञ्जनप्रदर्शनेन पुनरपि निराकरोतील्याह-उक्तोऽसतेति । कार्येण सह सम्बन्धनकाले केवलं यदि तन्तूनामेव सत्त्वं नान्यस्य कस्यचित् तर्हि तवायं वादः पुरुषादिवादवत् कारणमात्रवाद एव स्यादित्याह-तदा त इति, तदानीं कार्यमपि नास्ति, सत्तासम्बन्धाभावेनासद्रूपत्वात् , कार्योत्पादानुकूलव्यापारोऽपि नास्ति,
तदानीं निष्ठाकालत्वात् , तस्मात्तदानीं तन्तव इत्येवेति भावः । अस्तु कारणमात्रवादः को दोष इत्यत्राह-कुत इति । विवत्तवादस्य 20 सत्कार्यवादस्य वा प्रसङ्गो नासत्कार्यवादस्येति भावः । पुरुषादिकारणेत्यत्रादिपदग्राह्यप्रधानकारणमात्रवादापेक्षसत्कार्यवादत्वमपि
तव वादः परिपूर्णतया न प्राप्नोतीत्याशयेनाह-सत्कार्यवादोऽपीति, सत्कार्यवादे हि प्रकृतौ सर्वे विकारा अन्तलींना भवन्ति, तव वादे तु कारणमनन्तर्गीकृतविकारं विकाराभिव्यक्तियोग्यव्यापारविधुरञ्चेति कथं ते वादः परिपूर्णसत्कार्यवादः स्यादिति भावः । प्रतिपूर्यतेति 'विधिनिमन्त्रणामन्त्रणे'त्यादिसूत्रेण सत्कारपूर्वकव्यापारलक्षणाधीष्टार्थकलिङन्तनिर्देशोः मूलकृता कुतः कृत इत्यत्र कार
णमाह-मा वोचमिति । परिपूर्णसत्कार्यवादत्वाभावे निदर्शनमाह-तन्त्वाकुण्डलनवदिति । दृष्टान्तं स्फुटयति यथेति, 25 आसमन्तात् कुण्डलं-वेष्टनमावेष्टनं गेन्दुकवत् सर्वतो भावेन वेष्टिताः तन्तवस्तन्तुवायव्यापारविरहितास्तदानीं न पटकारणतामि
अति, तुरीवेमादियत्किञ्चित्पटकारणसन्निधानाभावादत्यन्तं पटादर्शनादप्रतिपूर्णसत्कार्यरूपाः तथाकारणमसम्पूर्णसत्कार्यमात्रमेतदिति भावः । तत्र हेतुमाह-पूर्वोत्तरेति, सहकारिसन्निधानकालात्पूर्वकाले तन्तवो यथा निर्व्यापारकारणमात्रं तथा कारणसामग्रीव्यापारोपरमकालेऽपीति समानत्वादित्यर्थः । उपसंहरति-एवमिति । दोषान्तरमप्याह-परिनिष्ठेति, यथा खपुष्पे कार्यमत्यन्त
मसत् खपुष्पमपि निर्व्यापारत्वात् पूर्वकाले उत्तरकाले च नितरामेकस्वरूपमेव तस्मान्नात्र पटादिकार्य परिनितिष्ठति पूर्वकाल इवोत्तर30 कालेऽपि, अन्यथोत्तरकाल इव पूर्वकालेऽपि परिनिष्ठानं स्यात्तथा तन्त्वादिकारणमात्रेऽपि विशेषाभावात् सर्वदा सर्वथा कार्यस्य
१ सि.डे. कुविन्दतनतयानयन० । क० कुवदतननयानयन० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org