________________
स्वशब्दार्थाश्रयेण दोषोक्तिः ]
द्वादशारनयचक्रम्
६९१
सत्स्वभूतत्वात्,
शशविषाणवदित्यनिष्टापादनसाधनेना सत्सतोः सम्बन्धस्यातुल्यता प्रदर्श्यते, स्वकारणैः स्वसत्तया वा कार्यस्य सम्बन्धः प्रागपि सत एवेति, तदर्थसाधनश्वेदम् - विद्यमानविषयेणैव तेन समवाय
सम्बन्धेन भवितव्यम्, सम्बन्धत्वात्, यथा संयोगो द्वे अङ्गुली विद्यमाने एव विषयीकुरुते, सम्बन्धशब्दवाच्यत्वात्, तथा समवायोऽपि कार्यकारणे विद्यमाने एव विषयीकुरुते, द्वयादिपराधीनवृत्तित्व। दिति ।
wwwww.umm
अतः शब्दार्थव्यवहारद्वारेणात्रैव दोषाभिधित्सयेदमाह–
यदि त्वात्मात्मीययोरिह यथाविवक्षं स्वशब्दस्य वृत्तेरर्थव्यञ्जनसद्भावकर्तृत्वनिर्विषयास्त एव तन्तवः परिनिष्ठां गच्छन्तः सम्बध्यन्ते परिनिष्ठिताश्च सम्बद्धाश्चेति, तदा ते यदि तन्तव इत्येव तर्हि कारणमात्रवादवदयं स्यात्, सोऽपि न प्रतिपूर्येत, निर्व्यापारकारणमात्रवादाभ्युपगमात्, तन्त्वाकुण्डलनवत्, यथा तन्तूनामाकुण्डलीकृतानां कुविन्दनयनानयनप्रसारणवयनादिक्रियानिरपेक्षाणां कारणत्वं नास्ति, तत्रात्यन्तं पटकार्यादर्शनात् तथा कारण- 10 मात्रमसम्पूर्णसत्कार्यमेतत् पूर्वोत्तरकालतुल्यत्वात् ।
"
यदि त्वात्मेत्यादि, स्वकारणानि स्वसत्तेत्यत्र स्वशब्दस्यात्माऽऽत्मीय [ ज्ञाति]धनपर्यायस्य ssscमन्यात्मीये यथाविवक्षं वृत्तिः स्यात् स च कार्योऽर्थः [व्यक्तिश्च ] तयोः पटव्यञ्जनयोः सद्भावे कुर्वन्ति कार्यं पटमिति कारणानि तन्तवः सम्बध्येरन् तेन पटेन, स तु नास्ति पटः, तद्भावे किं
Jain Education International 2010_04
।
योऽत्र धर्मी सम्बन्धत्वाभावः साध्यधर्मः, सत्स्वभूतत्वादिति हेतुधर्मः, असति सम्बन्धपक्षे यथा सम्बन्धत्वाभावलक्षणः दोषरूपो 15 विशेषोऽस्ति, सति सम्बन्धपक्षे तु नास्ति स इति न सदसतोः सम्बन्धस्य तुल्यतेति भावः । ननु तत्समवायस्य सत्स्वभूतत्वमसिद्धम् स्वकारणस्य सत्तादेश्च सत्त्वेन सत्सु भूतत्वादिति चेन्न सत्प्रतियोगिकत्वसदनुयोगिकत्वोभयाभावस्य हेत्वर्थत्वात्, एकसत्त्वे द्वयं नास्तीति प्रतीत्या च तत्समवायेषु तादृशोभयाभावसत्त्वादिति भावः । ननु मानोऽयं धर्मिग्राहकानुमानबाधितः, सम्बन्धतयैव तस्य सिद्धेरिति चेत्तदाऽप्याह-स्वकारणैरिति । यद्येवं तर्ह्येवं मानं ब्रूम इत्याशयेनाह - विद्यमानेति, एवशब्देनाविद्यमानविषयव्युदासः, विद्यमान प्रतियोग्यनुयोग्युभयात्मना समवायसम्बन्धेन भवितव्यमित्यर्थः तेन न सिद्धसाधनम् । हेतुमाह- सम्बन्धत्वादिति । 20 माह-यथेति अङ्गुलिम्वरूपे हि द्वित्ववत् सम्बन्धो नान्तर्गत इति वस्तुस्वरूपाऽङ्गुलिरन्तरङ्गः, द्वित्वं सम्बन्धश्च वस्त्वाधारो वस्तुमुखेन लब्धात्मलाभो बहिरङ्गः, अत एव द्वित्वादयः सम्बन्धश्च साकांक्षं वस्तूच्यते, तथा च सम्बन्धस्वरूपताया आकांक्ष्यमा• णवस्त्वधीनत्वेन पूर्वं वस्तुसद्भाव एव सम्बन्धस्य सम्बन्धतेति, यथा सम्बन्धशब्दवाच्यत्वात् संयोगसम्बन्धः प्राक् सन्तमङ्गुलिं विषयीकरोति तथा समवायोऽपि सम्बन्धात्मा प्राक् सदेव वस्तु विषयीकरोति, नासत्, तस्मादसतः सम्बन्ध एवं न सम्भवतीति न सदसतोः सम्बन्धस्य तुल्यतेति भावः । सम्बन्धस्य सापेक्षतामेव दर्शयति-द्वयादीति, अत्र द्विशब्देन 25 संयोगापेक्षयाऽङ्गुलिद्वयमादिना समवायापेक्षया कार्यकारणे ग्राह्ये, स्वस्य वृत्तिलाभः द्व्यादिरूपान्यवस्तुप्रयुक्त इति भावः । अथ स्वकारणसत्तासमवाय इति वाक्यघटकपदार्थविचारेणापि दोषमादर्शयितुं स्वशब्दार्थविचारमाह-यदि त्विति । व्याचष्टेस्वकारणानीति, 'खो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' । इत्यमरकोशात् स्वशब्दः प्रकृते आत्मनि आत्मीये वा यथाविवक्षं वर्त्तेत, एवञ्च स्वकारणानीत्यत्र स्वशब्दवाच्यः कार्यरूपोऽर्थः, वसत्तेत्यत्र स्वशब्दवाच्यश्च सत्ताश्रयत्वेनाभिमता व्यक्ति रिति भावः । यदि कार्यं न स्यात् कथं तन्त्वादीनां कारणत्वनिश्चयः, असता पटेन च ते कथं सम्बद्ध्येरन् ? व्यक्तिर्यदि न स्यात् 30 कया वा जातिः सम्बध्येत ? तस्मादर्थव्यञ्जनयोः -पटात्मनः कार्यस्य पटात्मनो व्यक्तेश्च सद्भाव एव कारणानि तन्तवः कार्यस्य जातिसम्बन्धस्य च कर्त्तारो भवन्ति, तदसद्भावे तु नेत्यर्थव्यञ्जनसद्भावकर्तृत्वनिर्विषयास्तन्तवो जाताः, तथाप्येवंभूतास्तन्तवः परिनिष्ठां गच्छन्तः परिनिष्ठितं कार्यमनपेक्षमाणा एव सम्बध्यन्ते सामान्यञ्च तथाविधया व्यक्त्या परिनिष्ठितव्यक्तिमनपेक्षमाण सम्बध्यते निष्ठासम्बन्धयोः कालविभागाभावात्, यदैव कार्य परिनिष्ठितं तदैव सम्बद्धमपीति तवाभिप्रायः स्यादित्याशयेनाह - स
5
For Private & Personal Use Only
www.jainelibrary.org