________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
सम्बध्यमानानां सत्त्वं दृष्टमिति साधर्म्यदृष्टान्तः, न हि शशविषाणस्य सम्बध्यमानता दृष्टेति वैधर्म्यदृष्टान्तः, तदा न सम्बध्यते कार्यमसत्त्वात् खपुष्पवदित्यनिष्टापादनानुमानं वा, न हि परिनिष्ठायाः सम्बन्धाद्वा सत्त्वमिति-न हि परिनिष्ठासम्बन्धावन्यत्र दृष्टावपि सत्त्वमसतः कुरुतः खपुष्पादेः, सत एव निष्ठासम्बन्धदर्शनात्, यदि निष्ठायाः सम्बन्धाद्वा सत्त्वं स्यात्तदा हि शशविषाणमपि निष्ठां गच्छत् सम्बध्येत, निष्टि5 तञ्च सम्बद्धश्चेति भवेत्, असत्त्वात्, कार्यवत्, कार्यमपि वा परिनिष्ठां गच्छत् स्वकारणैः सत्तया च न सम्बध्येत, असत्त्वात्, खपुष्पवत्, तदेति च त्वदुक्तवन्निष्ठासम्बन्धयोरेकका लत्वाभ्युपगमावस्थायाम्, खपुष्पादेः कार्यस्यापि तद्वदेककाले निष्ठासम्बन्धौ स्यातां स्वकारणैः सत्तया चेत्यनिष्टापादनमेतत् ।
wwww
६९०
इतश्चेतश्च समानत्वान्नेति चेत्-य
www.ww
- यथाऽसतः समवायसम्बन्धेन द्विविधेन स्वकारणसत्त्वादिभिः सम्बध्यमानताऽदृष्टा तद्वत् सतोऽपि स्यादविशेषात्, न हि सम्बध्यमानं विशिष्टं किञ्चि10 दिहाधिकृतमित्यत्र ब्रूमः, सम्बन्ध एव स न भवति, सत्स्वभूतत्वात् शशविषाणवत्, विद्यमानविषयेणैव तेन भवितव्यम्, सम्बन्धत्वात्, द्व्यङ्गुलिसंयोगवत् ।
"
( इतश्चेति ) इतश्चेतश्च समानत्वान्नेति चेत्-स्यान्मतं नैतदनिष्टापादनं घटते, कस्मात् ? सत्यसति च सम्बन्धादर्शनतुल्यत्वात्, अस्य व्याख्या- यथाऽसत इत्यादि यावदिहाधिकृतमिति, यथैवासतः खपुष्पादेः समवायसम्बन्धेन द्विविधेन - स्वकारणसम्बन्धेन सत्तासम्बन्धेन च सम्बध्यमानताऽदृष्टा, 15 आदिग्रहणात् द्रव्यत्वगुणत्व कर्मत्वादिभिश्चेति दृष्टान्तः तद्वदित्यादि दाष्टन्तिकं गतार्थम्, न हि सम्बध्यमौनं विशिष्टं यत्किञ्चिदिहाधिकृतम्, स्वकारणसत्त्वादिवचनादित्यत्र ब्रूमः सम्बन्ध एव स न भवति,
संयोजनात् तदा न सम्बध्यते कार्यमसत्त्वात् शशविषाणवदित्यनुमान प्रदर्शकं वेत्याशयेनाह न हीति । दोषान्तरमाह-न हि परिनिष्ठाया इति, वस्तुजन्म निष्ठानं समाप्तिरित्यादिपर्यायभूतायाः परिनिष्ठायाः स्वकारणसत्तासमवायाद्वा न हि कार्य सद्भवितुम
तीत्यर्थः । तथाऽदर्शनमेव तत्र कारणमिति कारणप्रदर्शनमुखेन व्याकरोति नहि परिनिष्ठासम्बन्धाविति । असतः सत्त्व 20 परिनिष्ठया सम्बन्धेन वा न भवितुमर्हतीत्येनमर्थ प्रसाधयितुमप्रयोजकत्वशङ्कानिरासकमनुकूलतर्कमाह-यदि निष्ठाया इति । ननु शशविषाणं न निष्ठां गच्छत् सम्बध्यतां नाम, तेन कार्यस्य किमायातम्, न ह्येकस्य तथाभवने सर्वस्यापि तथाभवनं युक्तम्, न ह्येकस्य कार्यस्य घटरूपतया भवने इतरेषामपि पटादिकार्याणां घटरूपताभवनं युज्यत इत्याशङ्कायामाह - कार्यमपि वेति, तदव्यभिचरितहेतुसद्भावे तत्सद्भावस्यावश्यकत्वादेककालीन निष्ठा सम्बन्धव्याप्यं यद्यसत्त्वं तस्यासत्त्वस्याविशेषेण कार्यखपुष्पयोः सत्त्वात् एककालीननिष्ठासम्बन्धौ स्यादेव न स्यादेव वेत्याशयेनाह - कार्यमपि वेति । खपुष्पकार्ययोः सम्बन्धमुक्त्वोभययोर्निष्ठासम्बन्धावा25 पादयति- खपुष्पादेरिति । अथ यथाऽसतः सम्बद्ध्यमानता न दृष्टा खपुष्पादेस्तथा सतोऽपि न सम्बन्धो दृष्ट एवेति समानचैव सतोऽसतो वा सम्बन्धने, नास्ति कश्चिद्विशेषस्तयोरित्याशयेन शङ्कते इतश्चेतश्चेति । व्याख्याति - स्यान्मतमिति, खपुपवत् कार्यस्य सम्बन्धासम्भवप्रसंजनं कार्यवत् खपुष्पस्यापि सम्बन्धासञ्जनञ्च न घटते इत्यर्थः । हेतुमाह - सत्यसति चेति सद्विषयकसम्बन्धादर्शनासद्विषयकसम्बन्धादर्शनयोः समानत्वादित्यर्थः । तात्पर्य प्रकाशयति यथाऽसत इति । समवायस्य साक्षाद्वैविध्याभावेऽपि भाक्तं द्वैविध्यं दर्शयति-स्वकारणेति - अनुयोगिभेदप्रयुक्तस्समवायभेदोऽत्र सत्तासम्बन्धेनेति प्रतियोगिभेदप्र30 युक्तस्तद्भेद इत्यादर्शितः । स्वकारणसत्त्वादिभिरित्यत्रादिपदग्राह्यसामान्यभेदान् दर्शयति- आदिग्रहणादिति । सम्बध्यमाने सति असति वा नहि कश्चिद्विशेषोऽत्र प्रदर्शितः केवलं स्वकारणसत्तासमवाय इत्येवोच्यते इति भावः । स्वकारणसमवायः सत्तासमवायश्च सम्बन्ध एव न भवति, सत्प्रतियोगि कत्वानुयोगिकत्वोभयाभावात्, शशविषागवदिति विशेषं दर्शयति-सम्बन्ध एवेति, समवा१ सि. डे. संबधोद० । २ सि. क. 'मानमविशिष्टं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org