________________
mmmmmmmmmmmmm
निष्ठाकालसम्बन्धभङ्गः]
द्वादशारनयचक्रम् न सम्बध्यते, अवस्तुत्वात् खपुष्पवत् , यदि तस्य स्यात् खपुष्पस्यापि स्यात्-यदि कार्य परिनिष्ठां गच्छदनिष्पन्नमसत् कारणैः सत्तया च सम्बध्यते ततः खपुष्पमपि परिनिष्ठां गच्छत् स्वकारणैः सत्तया च सम्बध्येत, अवस्तुत्वात् कार्यवत् , तस्मादयमपि विकल्पोऽसत् सत्तया सम्बध्यत इत्येतद्विकल्पान्त:पात्येवेति।
सम्बन्धकाले तन्तुवद्वस्तुभावात् परिनिष्ठितञ्च सम्बद्धश्चेत्येकः कालः, तस्मात् सम्बन्धो । वस्तुन इत्युक्तमिति, अत्रोच्यते पुनरपीदं तदवस्थमेव निष्पद्यमानावस्थाया उत्पत्तेः पूर्वकालत्वात् , एककाला चेत्तस्यामवस्थायां कार्य सदेव स्यात् , स्वकारणैः सत्तया च सम्बध्यमानत्वात् , निष्पन्नकार्यवत् शशविषाणवद्वा, न हि परिनिष्ठायाः सम्बन्धाद्वा सत्त्वम् , सत एव निष्ठासम्बन्धदर्शनात्, यदि निष्ठायाः सम्बन्धाद्वा सत्त्वं तदा हि शशविषाणमपि निष्ठां गच्छत्सम्बध्येत, निष्ठितश्च सम्बद्धश्चेति भवेदसत्त्वात् , कार्यवत् , कार्यमपि वा तदा परिनिष्ठां 10 गच्छत् स्वकारणैः सत्तया च न सम्बध्यते, असत्त्वात् खपुष्पवदिति।
(सम्बन्धकाल इति) सम्बन्धकाले तन्तुवद्वस्तुभावात्-स्यान्मतं ननु सम्बन्धकालेऽस्ति कार्यम् , उत्पद्यमानमेव वस्तु भवति, पटकारणं तन्तव इव, भवदेव च परिनिष्ठां गच्छत् सम्बध्यते, परिनिष्ठानसम्बन्धयोरेककालत्वात् , परिनिष्ठितञ्च सम्बद्धश्चेत्येकः काल:-कालप्रविभागाभावः, तस्मात् सम्बन्धो वस्तुनः कार्यस्य नावस्तुन इत्युक्तमित्यत्रोच्यते-पुनरपीदं तदवस्थमेव, निष्पद्यमानावस्थाया 15 उत्पत्तेः पूर्वकालत्वात् प्रागुत्पत्तेश्च कार्यस्यासत्त्वादसतः संबध्यमानता खपुष्पादेरिव, [एक] काला चेत्तस्यामवस्थायां कार्यं सदेव स्यात् , स्वकारणैः सत्तया च सम्बध्यमानत्वात् , निष्पन्नकार्यवत् , लोके हि
सम्बन्धो युज्यतेऽवस्तुत्वादिति भावः। यद्येवमपि सम्बन्धमभ्युपैषि ततोऽविशेषात् खपुष्पस्यापि सम्बन्धमभ्युपगच्छेति विपक्षे बाधकमुपनिबध्नाति-यदि तस्य स्यादिति । तथा चायमपि तव विकल्पोऽसतः सत्तासम्बन्धरूपविकल्पान्तर्गत एवेति दर्शयतितस्मादयमपीति । ननु कारणसामग्रीव्यापारोपरमकाले कार्यजन्मैव वस्तुलाभः, नापरः कश्चिदिति यदैव कार्यस्वरूपं भवति 20 तदेव सत्तासम्बन्धः तदैव परिनिष्ठित इत्यप्युच्यते, कर्त्तव्यसमाप्तेरेव परिनिष्ठाशब्दार्थत्वात् , एवञ्च वस्तुभवनं सम्बन्धश्चैकः काल इति सम्बन्धकाले कार्यस्य स्वरूपप्राप्या वस्तुत्वान्नावस्तुनः सत्तासम्बन्ध इत्याशयेनाशङ्कते-सम्बन्धकाल इति । व्याख्यातिस्यान्मतमिति कारणसामग्र्या वस्तुभवनात् सम्बन्धकाले न कार्यमवस्त्वित्यर्थः । उत्पद्यमानमेवेति खरूपासादनमेव वस्तुभवनं नान्यत् किञ्चित् , तदैव च परिनिष्ठा कारणात्मनि नियमनं स्वप्रयोजकजातिसम्बन्धश्चेति परिनिष्ठानसम्बन्धयोर्नास्ति कालभेदः, सति कारणसामग्यां कार्यभवने यथा विलम्बः तथा कारणेन जात्या च सम्बन्धे विलम्बकारणाभावान्निष्ठासम्बन्धयोरेककालत्वमिति 25 भावः । उत्पत्तिकालः सम्बन्धकालश्चैको न भवितुमर्हतीत्याशयेनोत्तरयति-पुनरपीदमिति, अवस्तुनः खपुष्पवत्सम्बन्धानुपपत्तिदोषो य उक्तः स तथापि तदवस्थ एवेत्यर्थः । निष्पद्यमानावस्था हि उत्पत्तेः प्राकालभाविनी, न हि निष्पद्यमानकाले उत्पत्तिरस्ति, तस्मात् निष्पद्यमानकाल उत्पत्तिप्राक्कालः तदानीञ्च कार्यमसदिति कथमसतः संबध्यमानता? असदपि संबध्यमानञ्चेत् खपुष्पमपि संबध्यमानं भवेदिति भावः । निष्पद्यमानावस्थासम्बध्यमानावस्थयोरेककालतेष्यते तर्हि यथा द्वितीयादिक्षणावच्छिन्नं कार्य खकारणैः सत्तया च सम्बद्ध्यमानं दृष्टमपि च तदानीं कार्य सदृष्टं तथोत्पत्तिप्राकालीनमपि कार्य स्खकारणैः सत्तया च सम्बय- 30 मानत्वात् सद्भवेदित्याशयेनाह-एककाला चेदिति निष्पद्यमानावस्थासम्बध्यमानावस्थयोरेककालता चेदित्यर्थः। साधर्म्यवैधHदृष्टान्ते दर्शयति-निष्पन्नेति । शशविषाणवदिति वैधर्म्यदृष्टान्तः प्रकृतानुमानस्य, अथ वा कथमसतः संम्बध्यमानतेति ग्रन्थेन
१सि.डे. कालोचेत.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org