SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे wwww समवायसम्बन्धेन–समवायाख्येन सम्बन्धेनेति, अयुतसिद्धिहेतुना, संयोगात् युतसिद्धिहेतोरस्य विशेषं दर्शयति, तस्मिन्नेव काले सत्तादिभिरपि, सम्बध्यत इति वर्त्तते, य एव कारणैः कार्यस्य समवायः स एव सत्ताद्रव्यत्वादिभिरप्येकः समवायः, कालस्याभिन्नत्वात् तस्मादप्रतिभागः, तद्यस्मान्नास्त्यत्र कालप्रतिभागो निष्ठासम्बन्धयोस्तस्मात् प्रागित्येतदेव नोपपद्यते, कार्यस्योत्पत्तेः प्रागसतः सदादिरनास्पदो विकल्प इति - सता कार्येणात [सदसता ]वा सत्तायाः सम्बन्ध इत्यर्थाभावात् किमाश्रयोऽसौ विकल्पः स्यादिति तांस्त्रीनपि विकल्पा [न] नाश्रित्य निष्ठासम्बन्धयोरेककालत्वविकल्पो निर्दोष आश्रीयतामिति । ६८८ अत्रोच्यते एतदपि न, अनुपपन्नविकल्पत्वात्, असम्बन्धात् असम्बन्धोऽप्यवस्तुत्वात् खपुष्पवत्, प्रागुत्पत्तेरसतः कार्यस्य परिनिष्ठां गच्छतः कथं वस्तुत्वं ? कथं वाऽवस्तुनः कारणैः 10 सत्तया वा सम्बन्धः परिनिष्ठां गच्छेत्, यदि तस्य स्यात् खपुष्पस्यापि स्यात् अवस्तुत्वात कार्यवत् । ( एतदपीति ) एतदपि न, अनुपपन्नविकल्पत्वात् - एषोऽपि विकल्पो नोपपद्यते, तदनुपपत्तेर्न दोषपरिहारः कृतः, कथमनुपपन्नोऽयं विकल्प इति चेत् - [अ] सम्बन्धात् असम्बन्धोऽप्यवस्तुत्वात्, [यथा]खपुष्पस्यावस्तुनः केनचित् सम्बन्धो नास्ति तथा प्रागुत्पत्तेरसतः कार्यस्य सम्बन्धो नास्ति तस्य 15 च कार्यस्य परिनिष्ठां गच्छतोऽसत्त्वात् [ कथं ] वैस्तुत्वम् ? कथं वाऽवस्तुनः कारणैः सत्तया वा सम्बन्धः परिनिष्ठां गच्छेत् ? इत्युत्पद्यमानमसदेव, अलब्धात्मकत्वात् तत्कार्यं तस्यामवस्थायां स्वकारणैः सत्तया वा " पृथक् सिद्धयोः संयोगः, तत्कथं सिद्धिसम्बन्धावेककालावित्यत्राह - अयुत सिद्धिहेतुनेति, पृथक् सिद्धपदार्थविषया हि संयोगबुद्धिः, जातायामप्यस्यां सम्बन्धिनोर्भेदबुद्धिर्न निवर्त्तते, अपृथक्सिद्धानामिहबुद्धिहेतुः समवायो यथा इह कपालेषु घट इति भेदेन ग्रहणेऽपि विवेक्तुमशक्यत्वादभिन्ना बुद्धिर्भवति, अत एव यत्र सत्यपि भेदेऽभिन्ना बुद्धिस्तत्रैवोपादानोपादेयभावावयवावयवि20 भावसमवायिसमवेतभावा भवन्ति, अत एव दण्डचक्रादीनां कारणत्वाविशेषेऽपि समवायप्रभावात् यस्मात् कारणात् कार्य विवेक्तुं न शक्यते तत्रैव तन्त्वादिषु तदारब्धमवयविद्रव्यमुपलभ्यते, ते तन्तव आधारभूता मुख्यतया देशा उच्यन्ते, संयोगेन य आधारः स पृथक् सिद्धत्वात् भेदेन विवेक्तुं शक्यत्वात् स गौणो देशः, यथा आकाशादेर्घटादिरिति ध्येयम् । अयुतसिद्धिविशेषणग्रहफलमाह-संयोगादिति । कालस्यैकत्वमेव वर्णयति य एव कारणैरिति, यदि समवायो नाना भवेत् तर्हि कारणसम्बन्धोऽन्यः सत्तासम्बन्धोऽन्य इत्येककालावच्छेदेन कार्यस्य कारणैः सत्तया च सम्बन्धो न स्यादिति भावः । एकत्वे कारणमाह-काल25 स्याभिन्नत्वादिति, कार्यस्य कारणैः सामान्येन च सम्बन्धकालस्याभिन्नत्वादेकः समवायोऽत एव चाप्रविभागः - भेदबुद्ध्यविषयः, अप्रविभागाश्च सत्तासम्बन्धात् प्राक् कार्यमिति कार्यसत्तयोर्भिन्नकालत्वेन निर्देशो नोपपद्यत इति भावः । अत एव च सत्तासम्बन्धात् प्राक् किं सताऽसता सदसता वा सत्तायाः सम्बन्ध इति विकल्पत्रयमनुपपन्नमित्याह - कार्यस्येति । स्वाभिमतं पक्षं दर्शयति-निष्ठासम्बन्धयोरिति । वस्तूनामेव केनचित् सम्बन्धात् प्राक् वस्तुसिद्ध्यभावे सम्बन्धासम्भवात् निष्ठ सम्ब न्धयोरेककालताप्यनुपपन्नेत्याशयेनोत्तरमाह - एतदपि नेति । व्याचष्टे - एषोऽपीति । वस्तुन एव केनचित् सम्बन्धो नाव30 स्तुनः, अन्यथा खपुष्पस्यापि केनचित् सम्बन्धः स्यादित्याशयेनाह - अवस्तुत्वादिति । तव कार्यं तु जन्मनः पूर्वं न सत् तस्माजन्मकालावच्छिन्नस्यासत्त्वात् कथं कारणैः सत्तया च सम्बन्धमनुभवेदित्याह - तथा प्रागिति । निष्पन्नार्थमाह- इत्युत्पद्यमानमिति, आत्मलाभानास्कन्दितत्वादिति हेत्वर्थः, तदानीं स्वरूपस्यैवाभावेन कार्यस्य खपुष्पतुल्यतया कथं कारणैः सत्तया च १ क. स्यापिभि० । २ सि. त्यर्थः भा० । ३ X x सि. । सि. क. अवस्तुत्वं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy