________________
विकल्पान्तरोद्भावनम्] द्वादशारनयचक्रम्
६८७ - यदपि चोक्तं विकल्पानुपपत्तेरिति, नासौ दोषो विकल्पत्रयानाश्रयात् विकल्पान्तराश्रयणाच, निष्ठासम्बन्धयोरेककालत्वात् , निष्ठा च कारणसामग्र्यव्यापारकालः प्रागसतो वस्तुभावो निष्ठानं समाप्तिः, सम्बन्धश्च स्वकारणसत्तासमवायः, सत्तासम्बन्ध एव निष्ठाकालः, कुतः? समवायस्यैकत्वात् , यस्मिन्नेव काले परिनिष्ठां गच्छत् कार्य कारणैः सम्बध्यते समवायसम्बन्धेनायुतसिद्धिहेतुना, तस्मिन्नेव काले सत्तादिभिरपि, तस्मात् कालस्याप्रति- 5 भागात् प्रागित्यनुपपत्तेरनास्पदः सदादिविकल्पोऽर्थाभावादिति ।
__ यदपि चोक्तमित्यादि. एतद्विकल्पपक्षत्रयपरिहारेण निर्दोषाभिमतं विकल्पान्तरमाश्रित्य यदुच्यते त्वया-विकल्पानुपपत्तेरिति नासौ दोषो विकल्पत्रयानाश्रयात् विकल्पान्तराश्रयणाच्च, कस्माद्विकल्पान्तरादिति चेदुच्यते-निष्ठासम्बन्धयोरेककालत्वात् , का निष्ठेत्यत आह-निष्ठा कारणसामग्र्यव्यापारकाल:कारणानां समवाय्यसमवायि[निमित्ता]नां तन्तुसंयोगतुर्यादीनां सामग्र्या अव्यापारकालः पटनिष्पत्तौ 10 तुर्यादिव्यापारोपरमकाल इत्यर्थः, तमेव व्याचष्टे-प्रागसतो वस्तुभावः-पटादिवस्तुजन्म निष्ठानं समाप्तिरित्यादिपर्यायैः, सम्बन्धः क इत्यत आह-सम्बन्धः स्वकारणसत्तासमवायः-स्वकारणेषु तन्तुषु कार्यस्य पटस्य सत्तया च समवायः, तयोनिष्ठासम्बन्धयोरेककालत्वं दर्शयति-सत्तासम्बन्ध एव निष्ठाकाल[:]-स्वकारणैः सत्तया च कार्यस्य यः सम्बन्धः स एव निष्ठाकाल इति प्रतिज्ञाय कुत इति हेतुं परिपृच्छ्य हेतुमाहसमवायस्यैकत्वात्-समवायो हि सम्बन्धः, स चैको द्वयोरपि[नि]तिष्ठतोरेव सम्बन्धात् कारणसत्तादिभिः, 15 तद्दर्शयति-यस्मिन्नेव परिनिष्ठां गच्छत् कार्य-आत्मानं लभमानं पटाख्यं कारणैः-तन्त्वादिभिः सम्बध्यते
अथ यदिदं भवता विकल्पत्रयमुद्भावितं विचारितञ्च तदस्माकमसम्मतमेवेत्यत एते. दोषा नास्मत्पक्ष स्पृशंति, न हि वयं सत्तासम्बन्धात् पूर्व कार्यमभ्युपेमः, किन्तु यदैवोत्पद्यते तदैव सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्वादित्याशङ्कते-यदपि चोक्तमिति । व्याचष्टे-एतदिति सत्तासम्बन्धात् प्राक् सतां असतां सदसतां वेति विकल्पपक्षत्रयपरिहारेणेत्यर्थः । अभिप्रेतं विकल्पान्तरं दर्शयति-निष्ठासम्बन्धयोरिति निष्ठा घटादिवस्तुनो जन्म स्थितिः कर्त्तव्यस्य समाप्तिा, सम्बन्धः समवायिकारणेन खजात्या 20 च सह सम्बन्धः, एतौ एकस्मिन्नेव काले भवत इत्यर्थः । निष्ठाशब्दार्थमाह-निष्ठेति । व्याचष्टे-कारणानामिति कारणानां सामग्र्या यो व्यापारः स यदा निवृत्तो भवति स एव निष्ठाकाल इत्यर्थः । सम्बन्धशब्दविवक्षितार्थमाह-सम्बन्ध इति । निष्ठासबन्धयोरेककालत्वं दर्शयति-तयोरिति सत्तासम्बन्धस्य निष्ठायाश्चैकः काल इत्यर्थः । अत्रार्थ हेतुमाह-समवायस्यैकत्वादिति कारणेन सत्तया च सह नितिष्ठतः निष्ठां प्राप्नवत एव सम्बन्धात् एक एव समवायो द्वयोरपि भवतीत्येकः काल इति भावः । हेतुसाध्यार्थ स्फुटयति-यस्मिन्नेवेति, यत्कालावच्छेदेन घटादिकार्यस्य जन्म तत्कालावच्छेदेनैव समवायसम्बन्धेन स्वोपादानसामा- 25 न्याभ्यामपि सम्बन्धो न प्राक् पश्चाद्वा, अयश्च समवायः संयोगाद्विलक्षणः, यतः संयोगः पृथक् सिद्धस्यैव भवति, न पूर्वमसिद्धस्य समवायस्तु यदैव सिद्धस्तदैव तं जात्यादिना सम्बन्धयति, यथा कालाकाशाभ्यां सम्बन्ध इति भावः। आत्मानं लभमानमिति यदा वस्तुजन्म तत्कालावच्छिन्नम् , आद्यक्षणसम्बद्धमिति यावत्। आद्यक्षणावच्छेदेनैव सम्बन्धो न द्वितीयक्षणावच्छेदेनेति दर्शयतिलभमानमिति लाभकालसम्बन्धकालयोरेकताख्यापनाय परिनिष्ठां गच्छत् कारणैः सम्बध्यत इति शतृप्रत्ययान्तेन दर्शितम् , परिनिष्ठाप्राप्तिक्षणावच्छिन्नकारणसम्बन्धविषयीभूतः पट इति शाब्दबोधः। ननु पूर्व सिद्धस्यैव पश्चात् सम्बन्धो दृष्टः, यथा घटपटयोः 30
१सि. क. दण्डादीनां। २ सि. क. नः। ३ डे. मितिष्टतपरसम्बन्धात् ।
द्वा० न०१० (८७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org