________________
६८६
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे समानमुपादाने सतः कार्यस्येति गतमानुषङ्गिकम् , स्थितं प्रागुक्तं सदसत्त्वं कार्यस्य, तस्मात् सदसत एव क्रियागुणाः, तद्भावात् सदसत्क्रियागुणत्वात् सदसत एव क्रियागुणव्यपदेशाः, अन्यथा हेतुशक्त्युपादानानामभिधानमात्रप्रसङ्गः यद्यसदेव कार्यं स्यात् हेतोर्दण्डादेः मर्दनादियोन्यायाः शक्तरुपादानस्य च
मृदो घटादौ मृदेवोपादीयते न तन्त्वादिरित्येषां खरविषाणवदभावे नियमस्य-दण्डादिहेतुनियमस्य, शक्ति5 मर्दनादिर्घद्रव्यस्य मृदेव घटस्योपादानमिति वचनमात्रमेवेदं सर्वं स्यात् , नार्थः कश्चित् , खपुष्पादिनिष्पत्यर्थक्रियाहेत्वाद्यभाववदसत्त्वाविशेषात् ।
यदि तु सदेव कार्यं स्यात् तत्रापि स एव दोष इत्यत आह
यस्य तु विद्यमान एवार्थस्तस्यापि निष्पाद्यनिष्पादकत्वाविशेषात् कुलालमृद्दण्डाद्यस्तित्ववद्धटास्तित्वादेतेषां सर्वेषामभावादभिधानमात्रप्रसङ्ग इत्यतश्चायुक्तं सत्कार्यत्वमेव, एकान्त10 पक्षयोर्दोषदर्शनादनेकान्तपक्षे चादोषदर्शनात् सदसदेव कार्यमव्यक्तसव्यक्तसद्भवतीति ।
यस्य तु विद्यमान एवार्थ इत्यादि गतार्थ यावदेतेषां सर्वेषामभावादभिधानमात्रप्रसङ्गः, निष्पाद्यनिष्पादकत्वाविशेषादिति, निष्पाद्यो घटो निष्पादकाः कुलालदण्डादयः, कुलालमृद्दण्डाद्यस्तित्ववत् घटास्तित्वात् किं दण्डादिना हेतुना क्रियते ? न वा तुर्यादिना, मृद एव मर्दनादिशक्तिर्न तन्त्वादेः,
मृदेवोपादानं घटस्यानिष्पन्नत्वात् , न तु निष्पन्नघट इति विशेषो नास्ति, सत्त्वाविशेषात्, इतिः प्रसङ्ग15 परिसमाप्त्यर्थः, तदुपसंहरति-अतश्चायुक्तं सत्कार्यत्वमेवेति, ततः किमायातम् ? इदमायातमसत्कार्यायुक्तत्ववत् सत्कार्यत्वमप्यैकान्तिकं न युक्तम् , तस्मादेकान्तपक्षयोस्तयोरयुक्तत्वात् युक्तमेतत्प्रतिपत्तुं प्राक् सदसदेव प्रादुर्भवतीति स्याद्वादिनः, उपसंहरति-एकान्तपक्षयोर्दोषदर्शनादनेकान्तपक्षे चादोषदर्शनात् सदसदेव कार्यमव्यक्तसव्यक्तसद्भवतीति, स्थितमेतत् त्रिधापि विकल्पानुपपत्तेः सत्तया न सम्बध्यते कार्यमिति । तोऽव्यक्तसद्व्यक्तसद्भूतद्रव्यादेः समानमेवेदं कार्यमतः क्रियागुणव्यपदेशाभावात् प्रागसदिति निरर्थकवचनमिति भावः । उपसंहरति20 गतमिति । एतावता सिद्धमर्थमाह-स्थितमिति । कार्यस्य सदसत्त्व एव क्रियागुणानां सम्भवेन व्यपदेशयोग्यता, न तु
सत्त्वेऽसत्त्वे वेत्याह तस्मादिति, सदसत एव कार्यस्य क्रियागुणव्यपदेशा भवन्ति, सदसक्रियागुणत्वादिति भावः । विपक्षे बाधकं वक्ति-अन्यथेति यदि कार्यमसदेव स्यात् सदेव वा स्यादित्यर्थः । असत्कार्यपक्षे बाधकं दर्शयति-यद्यस देवेति एकान्तासतो न हि कश्चिद्धेतुः काचिच्छक्तिः किञ्चिदुपादानं वा भवितुमर्हति, खपुष्पादीनामप्येतेषां सम्भवप्रसङ्गात् , तस्मादेषामभावे दण्डादय एव हेतवो मृद्रव्यमेव मईनादिशक्तिमत् मृदेवोपादानं घटस्येत्यभिधानं काननाक्रन्दनसदृक्षमेव नार्थः कश्चित्तस्येति भावः। 25 यथा खपुष्पादेरेतानि न सन्ति, अत्यन्तासत्त्वात् तथा एकान्तासतः कार्यस्यापीत्याह-खपुष्पादीति । एकान्तसत्कार्यपक्षेऽपि
बाधकमाह-यस्य विति यदि कार्यमेकान्तेन सद्भवेत् तदा तत् सर्वदा निष्पन्नमेव न तु निष्पाद्यं तथा च निष्पादनकालत्वेनाभिमतसमये दण्डादयो यथा सन्ति तथा घटादिकार्यमप्यस्त्येवेति दण्डादय एव हेतवः, घट एव कार्यमित्यत्र नियामकाभावः। एवञ्च हेत्वादीनामभावात् हेत्वादिना किं क्रियते? तन्त्वादिना वा किं न क्रियते ? कथं मृद एव मर्दनादिशक्तिः ? न तन्त्वादेः कथं वा
मृदेवोपादानं ? न तु निष्पन्नो घट:? इत्येवं निष्पाद्यनिष्पादकयोर्विशेषाभावादेतेषामभावेन कार्यकारणनियमाभिधानं केवलमभिधानमेव 30 स्यादिति भावः । एवमेकान्तसदसत्पक्षयोरयुक्तत्वेन कथञ्चित् सदसत्त्वमेव कार्यस्य, तथा च प्राक् कथञ्चित् सदसत् कार्यमव्यक्तसद्यक्तसद्भवतीति सिद्धमित्युपसंहति-एकान्तपक्षयोरिति । इह प्राक् सत्तासम्बन्धात् किं सतामसतां सदसतां वा सत्तासम्बन्ध इति विकल्पत्रयमवलम्ब्य प्रकान्तो विचारः परिसमाप्तः, एकत्रापि पक्षे कार्यस्य सत्तासम्बन्धानुपपत्तरित्युपसंहरति-स्थितमेतदिति
सि. समादानमुपादाने। २ सि. क. डे. 'योग्यतायाः शक्तिह०। ३ सि. क. डे, भावेऽयमस्य । ४ सि. क. मार्दवादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org