________________
त्रिविधोत्पत्तिवर्णनम् ]
द्वादशारनयचक्रम्
६८५
पद्यतेः सत्तार्थत्वात् सा च ते - त्रिप्रकारापि तवैव तद्यथा सत्तासम्बन्धादेव द्रव्यादौ कार्ये नियता, कारणसमवायस्य सामान्यस्य च नियतत्वात्, निश्चिता- द्रव्यत्वगुणत्वक र्मत्वघटत्वरूपत्वोत्क्षेपण [त्व]]दिसत्त्वान्तरेभ्यो विविक्तत्वात् सत्तायाः, अधिका पुनर्भवनात् कार्यस्य त्वन्मतेनैव कारणसमवाये जन्माभ्युपगमात् एवं तावद्दृष्टान्तस्य द्रव्यादित्रयस्य निष्पत्तिस्त्रिरूपा व्याख्याता ।
"
दान्तिक कार्यस्याधुना -
उपादानस्वसत्तानियता तत्त्वतोऽसौ निश्चिता पटादिव्यावृत्त्या, तण्डुलविचयवत् विचिता निश्चितास्तण्डुलाः कचवराद्यपनयनेन स्वरूपपरिग्रहेण च, क्रिययाऽनिष्पत्तेः सकाशान्निश्चिता घटनिष्पत्तिः, अधिका युगपदयुगपत्पर्याय क्रमतथाभूते रिहापीति सदसत्त्वं कार्यस्य, तस्मात् सदसत् कार्यम् सदसत्क्रियागुणत्वात्, अन्यथा हेतुशक्त्युपादानानामभिधानमात्रप्रसङ्गः, यद्यसदेव कार्यं तदा हेतुशक्त्युपादानानामभावे नियमस्य वचनमात्रमेव स्यात्, 10 खपुष्पादिनिष्पत्त्यर्थक्रियाहेत्वाद्यभाववदसत्त्वाविशेषात् ।
5
www.www
(उपादानेति) उपादाननियमस्वसत्ता नियता - मृदाद्युपादाननियमेन घटादेः स्वसत्ता विद्यते, तया स्वसत्तया नियता, मृद्येव घटनिष्पत्तेः, तत्त्वतोऽसौ घटत्वेन निश्चिता पटादिव्यावृत्त्या, तद्यथा तण्डुलविचयवत् - विचिता निश्चितास्तण्डुलाः कचवराद्यपनयनेन स्वरूपपरिग्रहेण च क्रियेया- व्यापारेण परिस्पन्देनानिष्पत्तेः सकाशान्निश्चिताऽपनीता घटनिष्पत्तिः स्वरूपपरिग्रहेणेत्यर्थः, अधिका युगपदयुगपत्प- 15 र्याय क्रमतथाभूतेः- ये प्राग् युगपद्भाविनो रूपादिपृथुबुध्नादिपर्यायाः पिण्डशिवकादयो नवमध्यमपुराणतादयश्चायुगपद्भाविनस्तेषां क्रमेण शिवकादिकरणविधिना तथाभूते:- तेन प्रकारेण भवनादधिका निष्पत्तिरिहापीति, तस्माद् दृष्टान्तभूतस्य द्रव्यादित्रयस्य कार्यस्य निष्पत्तिवदव्यक्तसद् व्यक्तसद्भवतीति
ततश्च सत्तासम्बन्धो भवति, इयं परिपूर्णनिष्पत्तिदशेत्युच्यते, ततश्चानुवृत्तिव्यावृत्तिभ्यां निश्चयविषयतया भवति, इयं वस्तुनिर्णयदशेत्युच्यते, इति निष्पत्तित्रयमवाप्तस्यैव हिताहितप्रवृत्तिनिवृत्तिषूपयोगादिति भावः । द्रव्यादित्रयस्य नियतनिष्पत्तिं दर्शयति - तद्यथेति स्वरूपसत्त्वात् सत्तायाश्च नियतत्वान्नियता निष्पत्तिरित्यर्थः । एनमेव हेतुत्वमाह- कारणेति, स्वरूपसत्त्वस्येति भावः । निश्चितनिष्पत्तिं दर्शयति-निश्चितेति । अधिकनिष्पत्तिं दर्शयति-अधिका पुनरिति, सामग्रीसन्निधाने सति स्वरूपतः कार्यजन्माभ्युपगमादित्यर्थः । एवं स्वोक्तानुमानदृष्टान्त भूतसत्तासम्बन्धिद्रव्यादिकार्ये त्रिविधनिष्पत्तिमुपदर्श्य प्रतिज्ञा विषयकार्यरूपधर्मिणि त्रिवि - धनिष्पत्तिमुपवर्णयति-उपादानेति । घटादिलक्षणे कार्ये धर्मिणि नियतभवनं दर्शयति- मृदादीति, उपादानस्य सति नियमे घटादेर्भवनं जायत इति भवनरूपा उपादाननियमेन स्वसत्तया च घटनिष्पत्तिर्नियता, घटनिष्पत्तिर्हि मृदा जायत इति कार्यस्य 25 नियता निष्पत्तिरिति भावः । निश्चितभवनं वर्णयति - तत्त्वत इति, घटत्वलक्षणानुवृत्त्या खेतरपटादिव्यावृत्त्या च कार्यस्य घटस्य निश्चिता निष्पत्तिरिति भावः । अत्रार्थे दृष्टान्तमाह - तद्यथेति तण्डुलाः खेतरेण कचवरादिना व्यावृत्ताः, तदपनयनात्, स्वरूपस्य तण्डुलत्वस्य परिग्रहेण च निश्चिता निष्पत्तिरिति भावः । क्रिययाऽपि घटस्य निश्चितनिष्पत्तिं दर्शयति-क्रिययेति, कुलालव्यापारेण एवम्भूतनयेन जलाहरणाद्यर्थक्रियया वा अनिष्पत्तिरूपाव्यापारा दूरीकृता खरूपपरिग्रहेण निश्चिता घटनिष्पत्तिरिति भावः । अधिकां निष्पत्तिं निरूपयति- अधिकेति, रूपरसादिगुणभूतानां पृथुबुनकम्बुग्रीवादिप्रदेशरूपाणां युगपद्भाविपर्यायाणां पिण्डशिव- 30 कादिप्रागवस्थारूपाणां नवमध्यमादिघटकालभाव्यवस्थारूपाणामयुगपद्भाविपर्यायाणां क्रमेण घटस्य भवनादधिका निष्पत्तिरिति भावः । दृष्टान्तेन दार्शन्तिकं समीकरोति तस्मादिति, अव्यक्तसत एव व्यक्तसद्भवनात् कार्यमुपादाने सदेव भवतीत्युपादानस
१ सि. क. नित्यत्वान् । २ सि. क. डे. क्रियाया । सर्वासु 'ये प्राग् युग०' इति दृश्यते । xx क० ।
Jain Education International 2010_04
For Private & Personal Use Only
20
www.jainelibrary.org