________________
5
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
णापक्षिप्तप्रसङ्गत्वात्–स्यादयं प्रसङ्गो यद्यविशेष्यक्रियागुणव्यपदेशाभावात् सत्कार्यमित्येतावद्भूयात्, किं तर्हि ? प्रागभूतक्रियागुणव्यपदेशत्वादिति मया विशिष्योक्तम्, यस्य प्रागभूतः क्रियागुणव्यपदेशः पश्चाद्भविष्यति तत्सदेव, यथा तदेवोत्पन्नमात्रेद्रव्यादि, न तु यस्य प्राक् पञ्चादिति कालाविभागेनासत्त्वं खपुष्पादेरित्यतः प्राग्विशेषणादपक्षिप्तोऽनैकान्तिकत्वप्रसङ्गोऽस्य हेतोरिति ।
६८४
अत्राह
ननु प्राङ् निष्पत्तेरसत् कार्यमिति कालविशिष्टं प्रतिज्ञाय क्रियाद्यभावादिति हेतुरुक्तः, स तु निष्पन्ने नास्ति, सदेव तु द्रव्यं न कार्यमित्यत्र ब्रूमः ननु निष्पत्तिरुत्पत्त्यभूत्वाभावादिसमानार्थिका, तेनाव्यक्तसत् व्यक्तसद्भवतीत्युक्तम्भवति, अनुपनिलीनसत्त्वञ्च तज्जातमात्रं सत्तोपनिलयनात् प्रागनिष्पन्नं सत्तासामान्येन सद्भवति, निष्पत्तिशब्दो ह्यभूतस्य भवनस्य 10 त्रिप्रकारां निष्पत्तिमाह - नियता निश्चिताऽधिका वा, सा च ते सत्तासम्बन्धादेव द्रव्यादौ कार्ये नियता, निश्चिता सत्त्वान्तरेभ्यो विविक्तत्वात् सत्तायाः, अधिका पुनर्भवनात् ।
नन्वित्यादि यावत् सदेव तु द्रव्यं न कार्यमिति, मया प्राङ् निष्पत्तेरसत्कार्यमिति कालविशिष्टंयावदनुत्पन्नं तावन्नास्तीति प्रतिज्ञाय क्रियाद्यभावादिति हेतुरुक्तः, स तु निष्पन्ने द्रव्ये नास्ति, तस्मात् साधनधर्मवैकल्यादयुक्तो दृष्टान्त इत्यत्र ब्रूमः, ननु निष्पतिरित्यादि - ननु निष्पत्तेः प्रागित्युक्तेऽपि निष्पत्ते15 रुत्पत्त्यभूत्वाभावादिसमानार्थत्वात् अव्यक्तसद्व्यक्तसद्भवतीत्युक्तं भवति, तद्यथा - अनुपनिलीनसत्त्वच तत्-द्रव्यादित्रयं जातमात्रं सत्तोपनिलयनात् - प्रागनिष्पन्नं सत्तासामान्येन सत् - सत्ता समवायात् सद्भवति - व्यक्तसद्भवतीत्येषोऽर्थो निष्पत्तिशब्दस्येत्याह - निष्पत्तिशब्दो हीत्यादि, तद्व्याख्यानम्, अभूतस्य-प्रारभवनस्य त्रिप्रकारा निष्पत्तिः, तद्यथा - निर्येता निश्चिता अधिका वा, का सा ? भवनमेव, कस्मात् ?
www.www
त्वात्, उत्पन्नमात्रद्रव्याद्यन्तर्भावेण साध्येन सत्त्वेन सहचरितत्वाच्च कोटिद्वयोपस्थितिद्वारा कार्ये साध्यसंशयजननात् तव हेतुरप्य20 नैकान्तिक इति भावः । ननु वयं न केवलं क्रियागुणव्यपदेशाभावं हेतुं ब्रूमः येन खपुष्पादौ साध्याभावेन सहचरितो हेतुर्भवेत् किन्तु प्रागभूत क्रियागुणव्यपदेशत्वादिति वदामः खपुष्पादौ सर्वकालं क्रियागुणव्यपदेशाभावसत्त्वेन परिच्छिन्न कालावच्छिन्नक्रियागुणव्यपदेशाभावस्यासत्त्वेन न तस्य साध्याभावसाहचर्यमित्याशयेन समाधत्ते - स्यादयं प्रसङ्ग इति । ननु क्रियागुणव्यपदेशाभावादिति हेतोर्विरुद्धत्वोपवर्णनायोक्तं सदेव भवति कार्यम्, प्रागभूत क्रियागुणव्यपदेशत्वात्, सत्तासम्बन्धिद्रव्यादिवदिति, तत्रान्म प्राक् पदं प्रतिज्ञान्तर्गतं न तु हेतुघटकं तथा च प्राक्कालीन एव द्रव्यादौ क्रियाविषयतया कार्यभूते क्रियागुणव्यपदेशाभावो वर्त्तते, 25 न तु निष्पन्ने द्रव्ये, सिद्धत्वेन कार्यत्वाभावात्, तदानीं क्रियागुणव्यपदेशसत्त्वात् नास्मदुक्तो हेतुर्विरुद्धः साधनविकलश्च दृष्टान्त इत्याह- नन्विति । व्याकरोति - मयेति । एतस्य प्रतिविधानाय प्राङ् निष्पत्तेरसत् कार्यमिति प्रतिज्ञाघटकनिष्पत्तिशब्दार्थमाहननु निष्पत्तिरिति, निष्पत्तिर्नाम अव्यक्तसद्व्यक्त सद्भवनम् इदमुत्पत्त्यर्थेन अभूत्वा भावार्थेन च समानमेव, निष्पत्तिपूर्वकाले द्रव्यादिकार्यत्रयमव्यक्तसत् - सत्तासम्बन्धरहितं भवत् व्यक्तसत्-समुपसञ्जातसत्तासम्बन्धं भवति, तथा चाव्यक्तसतो द्रव्यादेर्व्यक्तसद्भवनं निष्पत्तिः, अभूत्वाभावः, उत्पत्तिर्वेत्युच्यत इति भावः । अमुमर्थ विशदीकर्तुं निष्पत्तिप्रभेदप्रदर्शनेन निष्पत्तिशब्दार्थं व्याचष्टे30 अभूतस्येति, भूतं भवनविषयतातिक्रान्तं न भवतीति अभूतं भवनक्रियाविषयः, प्रारब्धभवनमित्यर्थः, तथाविधस्य द्रव्यादिकार्यस्य त्रिविधा निष्पत्तिरित्यर्थः, तत्राधिका समग्रसाधनसन्निधानात् प्रथमं कारणसमवाये जन्म भवति, इयमुत्पन्नमात्रदशेत्युच्यते,
१ सि. क. डे. °मात्र इत्यादि । २ सि. क. 'स्ये श्राह । ३ सि. क. प्रभूतस्य । ४ सि. क. निगतानिगतानिनि० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org