________________
उपचयहेतुदूषणम् द्वादशारनयचक्रम्
૬૮૩ कार्यसदसत्त्वप्रतिषेधो न सिद्ध्यति, प्रतिषेधहेत्वयुक्तः, सदसत्त्वैकात्म्यसाधनसौस्थित्यप्रदर्शनाच्च सदसदेव कार्यमिति ।
किश्चान्यत्
योऽप्युपचयहेतुः क्रियागुणव्यपदेशाभावात् प्रागसत् कार्य खपुष्पवदिति, अयमेव ते उपचयहेतुः परपक्षसाधनाय-सदेव भवति कार्य प्रागभूतक्रियागुणव्यपदेशत्वात् सत्तासम्बन्धि- 5 द्रव्यादिवत् , अनैकान्तिकता च, ननु खपुष्पवदनेकान्तः प्रागुत्पत्तेरसत्कार्य स्यात् , उपजातमात्रद्रव्यादिवत् सत् स्यादिति त्वत्साधनमपि संशयकारीति चेन्न, प्राविशेषणापक्षिप्तप्रसङ्गत्वात्
योऽप्युपचयहेतुरित्यादि, तेन किल क्रियागुणव्यपदेशाभावात्-क्रिया त्वातानादि पटस्य तन्त्ववस्थायां गुणाश्च संयोगपरिमाणादयो व्यपदेशश्च शब्दान्तरं लिङ्ग वा न सन्ति, तस्मात् क्रियागुणव्यपदेशाभावात् प्रागुत्पत्तेरसत्कार्यं खपुष्पवदिति, अस्याप्युपचयहेतोर्विरुद्धत्वं दोष इत्याचार्य 10 आह-अयमेव ते उपचयहेतुः परपक्षसाधनाय सदेव भवति कार्य-जायते व्यज्यते उत्पद्यते, प्रागभूतक्रियागुणव्यपदेशत्वात् सत्तासम्बन्धिद्रव्यादिवत् , सविशेषणं स्वपक्षसाधनश्चेदम् , यथा द्रव्यगुणकर्माख्यं कार्यत्रयं स्वभावसत् त्वन्मतेनैव यावत् सत्तया न सम्बद्धं तावत् [न]क्रियागुणव्यपदेशभाग भवति, अथ च विद्यते स्वकारणेषु समवेतमात्रं तथेदं समवेतकार्यमित्यस्मन्मतसिद्धिः, अनैकान्तिकता च क्रियागुणव्यपदेशाभावादित्यस्य हेतोः, अ[स]ति च खपुष्पादौ सति च जातमात्रे कार्यत्रये इष्टत्वात् असदेवेति 15 सन्दिग्धम् , इतर आह-ननु खपुष्पवदनेकान्तः प्रागुत्पत्तेरसत्कार्यमभूतक्रियागुणव्यपदेशत्वात् , खपुष्पवत् स्यात् , उपजातमात्रद्रव्यादिवत् सत् स्यादिति त्वत्साधनमपि संशयकारीति चेत् , एतच्च न, प्राग्विशेष
निराकर्तुमाह-योऽपीति । हेतुं व्याचष्टे-क्रिया विति, पटस्य क्रिया-आतानवितानादि, गुणः-संयोगपरिमाणादयःव्यपदेशः-पट इति नाम, हेतुर्वा तन्त्ववस्थायां न सन्ति तस्मादुत्पत्तेः प्राक् कार्यमसदिति तदर्थः । विरूद्धोऽयं हेतुरित्याशयेनोत्तरयति-अयमेवेति प्रागिति विशेषणसहितोऽयमेव हेतुरित्यर्थः, अत्र उत्पन्न कार्य पक्षीकृत्य सत्त्वं साध्यं विज्ञेयं, तद्धि कार्य 20 तन्त्ववस्थायामभूतक्रियागुणव्यपदेशम् , अथ च सदिति असत्त्वविरुद्धसत्त्वसाधकत्वाद्विरुद्धो हेतुरिति भावः । वैशेषिकमतेन पक्षप्रद्योतकं प्राक् शब्द हेतौ विशेषणीकृत्य स्वपक्षं साधनीयं, अन्यथाऽसिद्धो हेतुः स्यादित्याह-सविशेषणमिति । दृष्टान्तं घटयति-यथेति, सत्तासम्बन्धकालीनो द्रव्यादिदृष्टान्तः, स च प्रागभूतक्रियागुणव्यपदेशः स्वतः संश्चेत्यविनाभावग्रहः, स च हेतुः कार्येऽस्ति, तस्मात् सत्त्वमेव साधयतीत्यसत्त्वसाधने विरुद्धोऽयं हेतुरिति भावः । तत्सम्मतमेव हेतुं दूषयितुमाह-अनैकान्तिकता चेति । अनैकान्तिकताप्रयोजक संशयमादर्शयति-असति चेति क्रियागुणव्यपदेशाभावः खपुष्पान्तर्भावेण त्वदीयसाध्ये- 25 नासत्त्वेन सहचरितः, उत्पत्तिक्षणावच्छिन्नकार्यान्तर्भावेण च साध्याभावेन सत्त्वेन सहचरित इति सत्त्वतदभावसहचरितक्रियागुणव्यपदेशाभाववत्कार्यमिति साधारगधर्मवद्धर्मिज्ञानेन सत्त्वासत्त्वविषयककोटिद्वयोपस्थित्या कार्य सद्वाऽसद्वेत्येकस्मिन् धर्मिणि विरुद्धभावाभावप्रकारकज्ञानजननात् साध्यसंशयजनककोटिद्वयोपस्थितिजनकपक्षधर्मताज्ञानविषयत्वात् क्रियागुणव्यपदेशाभावो हेतुरनैकान्तिक इति भावः। अत्र परेणाप्रयोजकत्वशङ्कोद्धाव्यते-नन्विति. यथा खपुष्पादौ प्रागभूतक्रियागुणव्यपदेशत्वसत्त्वेऽपि सत्त्वं नास्ति तथा काय प्रागभूतक्रियागुणव्यपदेशत्वमस्तु माऽस्तु च सत्त्वं, एवञ्च खपुष्पान्तभावेण साध्याभावेन सहचरित-30
सि. क. डे. सदसदेशाभावात् । २ सि. क. डे. क्रियात्वज्ञानाणादि । ३ सि. क. डे. दृष्टादृष्टत्वात् । ४ सि. क. डे. ग्धमंतर माह ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org