________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ विधिनियमोभयारे
[स]संमर्थ[:]साध्येन साधनाख्यः तद्भावात्, एकीभावं गतार्थस्य समर्थत्वात् सत्कार्यत्वमेव, नासता खरविषाणेन सह कस्यचित् सामर्थ्यम्, तस्य वा केनचिदुपपद्यत इति ।
६८२
अस्य व्याख्यानम् --
www.w
wwwww
अथ कथं तन्तुतुर्यादिपटनिर्वृत्तौ कारणत्वेनोपादीयते, न पांशुवास्यादीति, न, तस्यैव 5 तथा तथा समर्थत्वात्, पटादिकार्यं तन्तुषु तत्कारणेषु च तत्र तत्रास्त्येव, तत्समवायव्यङ्ग्यत्वात् तदात्मकत्वाच्च, तथा तुर्यादिष्वपि पांश्वादिष्वपि च तत्कारणकारणत्वात्, परमाणुवत् । अथ कथं तन्तुतुर्यादि यावत् कारणकारणत्वात् परमाणुवत्, वैशेषिकमेव पृच्छन् तेनैव व्याख्यापयति, [तन्तु]तुर्यादेरेव कारणत्वेनोपादानं पटनिर्वृत्तौ न पांशुवास्यादेरिति, करणाधिकारपरिग्रहादेव सत्कार्यत्वम्, तस्यैव समर्थत्वात्, तथा तथा तेन तेन प्रकारेण तत्तन्नियत निजशक्तियुक्तार्थसमर्थत्वात्, 10 पटादिकार्यं तन्तुषु वर्त्तते तन्तुकारणेषु तथा तन्तुषु प्रकारान्तरेण पटकारणभावं बिभ्रत्सु तथा पक्ष्मत्रुटिरेणुपरमाणूनामपि यथास्वशक्ति प्रकारान्तरैः पटकारणत्वात् पारम्पर्येण तत्र तत्रास्त्येव पट:, तत्समवायव्यङ्ग्यत्वात्, तदात्मकत्वाच्च - असमवायिपटोऽपि संयोगव्यंग्यत्वात् संयोगिद्रव्येभ्यः संयोगस्याभिन्नत्वात् द्व्यणुकत्र्यणुकाद्यनन्तप्रदेशस्कन्धसंयोगत्वपरिणतद्रव्याभेदात्त एव परमाणवः पटः, यथा संयोगेषु पटकारणेषु तदात्मकत्वात् पढत्वं तत्कारणपरमाणूनां तथा तुर्यादिष्वपि - तुरीवेमशलाकाच निकाविलेखनिकादीनां कुविन्द15 प्रयत्नोत्थापितव्यापाराणां पटत्वम्, तदात्मकत्वात् द्रव्याभेदात् पश्वादिष्वपि च भूम्यम्बुमारुतानलाकाशबीजसंयोगनिष्पाद्य कार्पासात्मकत्वात् पटत्वं सिद्धम्, तत्कारणकारणत्वात् परमाणुवत्, एवं तावत्
www
Jain Education International 2010_04
www
www.ww
कार्येणासम्मिलितमपि द्रव्यं कारणं भवेत् तर्हि खरविषाणादेरपि किञ्चिद्रव्यं कुतो न समर्थम्, समर्थेन वा केनचित्तस्य कुतो नोत्पत्तिरित्यापादयति नासतेति । एनमेवार्थ द्रढीकर्तुं पूर्वोदितमेव व्याख्यामुखेनाह - अथ कथमिति । यदि कार्यनियतपूर्ववृत्ति - मात्रमेव कारणत्वे प्रयोजकं तर्हि पटार्थिना पटनिर्वृत्तौ पूर्ववर्त्तानि पांशुवास्यादीनि विहाय तन्तुतुर्यादिरेव कारणत्वेन कथं गृह्यते इति 20 वैशेषिकं प्रति प्रश्नमुपन्यस्यति - तन्तु तुर्यादेरेवेति, उपादाननियामकव्यापारस्य करणाधिकारपरिग्रहो नियामक इति वैशेषिको - क्त्यैव सत्कार्यतासिद्धिः समर्थस्यैव तथाविधत्वात्, सामर्थ्यश्च विद्यमान कार्यत्वादिति प्रदर्शयति- करणेति । हेतुमाह-तस्यैवेति, विद्यमानकार्यस्यैव तत्तद्रूपेण समर्थत्वादित्यर्थः । हेत्वर्थं वर्णयति - तेन तेनेति, पटकारणेषु तन्तुषु तत्संयोगेषु तुरीवेमादिषु च प्रकारान्तरेण सामर्थ्यम्, तन्तुकारणेषु पश्वादिषु तत्कारणेषु यावत् परमाणुषु विभिन्नप्रकारैः सामर्थ्यमस्ति, परमाणुद्व्यणुकनु टिपांश्वादिकार्पासतन्त्वादयो हि तथा तथा परिणमन्तः पटीभवन्तीति पटसत्त्वं तेष्वस्ति, द्रव्यं हि सामर्थ्यरूपेण विश्वरूपात्मकम्, प्रतिनि25 यतसाधनसव्यपेक्षं तथा तथा परिणमतीति भावः । पटकारणपरम्परासु पटसत्त्वं दर्शयति- पटादिकार्यमिति । तत्समवायव्यङ्ग्यत्वादिति - पटकारणतत्कारणादिसमुदायव्यङ्ग्यत्वात् पटादेरित्यर्थः । तन्तुसंयोगेषु गुणेषु कथं पटत्वमित्यत्राह - असमवायिपटोऽपीति । अथवा पटकारणीभूतद्रव्यपरम्परासु तन्तुपक्ष्मत्रुटिरेणुपरमाणुषु पदत्वं समवायव्यमयत्वात्, तत्र तस्य समवायात् तदात्मकत्वात् द्रव्याभेदात्, यत्र तु पटो न समवैति यथा तुरीवेमशलाकाश्चनिकादिषु पटत्वं तत्संयोगव्यङ्ग्यत्वात् तुर्यादिसंयोगे हि तन्तुषु पटो व्यज्यते, तथा तदात्मकत्वात् द्रव्याभेदादिति भावः । ननु तुर्यादिसंयोगव्यङ्ग्यत्वे तुर्यादिसंयोगस्य पटत्वं स्यात् कथं तुर्यादेस्तत्त्वमि30 त्यत्राह - संयोगिद्रव्येभ्य इति । एतदेव स्पष्टयति-यथेति । पटकारणकारणेषु पटत्वं समर्थयति - पांश्वादिष्वपि चेति । एवञ्च सर्वत्र पटत्वसिद्धौ कार्यमत्र न सदिति नाप्यसदिति प्रतिषेधो न युज्यते तद्धेतूनां हेत्वाभासत्वात्, किन्तु सदसदैकात्मकमेव वस्तु, तत्साधकहेतूनां सुस्थितत्वात् सद्धेतुत्वादित्याह एवं तावदिति । वैशेषिकोक्तं क्रियागुणव्यपदेशाभावात् प्रागसत् कार्यमिति मानं १ सि. क. असम० । २ सि. क. 'णबाद्दणुवत् ।
For Private & Personal Use Only
www.jainelibrary.org